तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने। प्रतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ॥ १॥ तौ शैलेष्वाचितान्नैकान् क्षौद्रपुष्पफलन् द्रुमान्। वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ॥ २॥ कृत्वा च शैलपृष्ठे तु तौ वासं रालक्ष्मणौ। पम्पायाः पश्चिमं तीरं राघवावुपतस्थतुः॥ ३॥ तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम्। अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम्॥ ४॥ तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम्। सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः॥ ५॥ तौ दृष्ट्वा तु तदा सिद्धा समुत्थाय कृताञ्जलिः। रामस्य पादौ जग्राह लक्ष्मणस्य च धीमतः॥ ६॥ पाद्यमाचमनीयं च सर्वं प्रादाद् यथाविधि। तामुवाच ततो रामः श्रमणीं संशितव्रताम्॥ ७॥ कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः। कच्चित्ते नियतः क्रिध आहारश्च तपोधने॥ ८॥ कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम्। कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि॥ ९॥ रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता। शशंस शबरी वृद्धा रामाय प्रत्यवस्थिता॥ १०॥ अद्य प्राप्ता तपःसिद्धिस्तव संदर्शनान्मया। अद्य मे सफलं तप्तं गुरवश्च सुपूजिताः॥ ११॥ अद्य मे सफलं जन्म स्वर्गश्चैव भविष्यति। त्वयि देववरे राम पूजिते पुरुषर्षभ॥ १२॥ चक्षुषा तव सौम्येन पूतास्मि रघुनन्दन। गमिष्याम्यक्षयाँल्लोकांस्त्वत्प्रसादादरिन्दम॥ १३॥ चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः। इतस्ते दिवमारूढा यानहं पर्यचारिषम्॥ १४॥ तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः। आगमिष्यति ते रामः सुपुण्यमिममाश्रमम्॥ १५॥ स ते प्रतिग्रहीतव्यः सौमित्रिसहितोऽतिथिः। तं च दृष्ट्वा वराँल्लोकानक्षयांस्त्वं गमिष्यसि॥ १६॥ मया तु संचितं वन्यं संचितं पुरुषर्षभ। तवार्थे पुरुषव्याघ्र पम्पायास्तीरसम्भवम्॥ १७॥ एवमुक्तः स धर्मात्मा शबर्या शबरीमिदम्। राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम्॥ १८॥ दनोः सकाशात् तत्त्वेन प्रभावं ते महात्मनः। श्रुतं प्रत्यक्षमिच्छामि संद्रष्टुं यदि मन्यसे॥ १९॥ एतत्तु वचनं श्रुत्वा रामवक्त्राद्विनिःसृतम्। शबरी दर्शयामास तावुभौ तद्वनं महत्॥ २०॥ पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम्। मतङ्गवनमित्येव विश्रुतं रघुनन्दन॥ २१॥ इह ते भावितात्मानो गुरवो मे महावने। जुहवांचक्रिरे देहं मन्त्रवन्मन्त्रपूजितम्॥ २२॥ इयं प्रत्यक्स्थली वेदिर्यत्र ते मे सुसत्कृताः। पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः॥ २३॥ तेषां तपः प्रभावेण पश्याद्यापि रघूद्वह। द्योतयन्ती दिशः सर्वाः श्रिया वेद्योऽतुलप्रभा॥ २४॥ अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः। चिन्तितेऽभ्यागतान् पश्य सहितान् सप्त सागरान्॥ २५॥ कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विह। अद्यापि नावशुष्यन्ति प्रदेशे रघुनन्दन॥ २६॥ देवकार्याणि कुर्वद्भिर्यानीमानि कृतानि वै। पुष्पैः कुवलयैः सार्धं म्लानत्वं नोपयान्ति वै॥ २७॥ कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया। तद् इच्छाम्य् अभ्यनुज्ञाता त्यक्तुमेतत् कलेवरम्॥ २८॥ तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम्। मुनीनामाश्रमो येषामहं च परिचारिणी॥ २९॥ धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः। प्रहर्षमतुलं लेभे आश्चर्यमिति चाब्रवीत्॥ ३०॥ तामुवाच ततो रामः शबरीं संशितव्रताम्। अर्चितोऽहं त्वया भक्त्या गच्छ कामं यथासुखम्॥ ३१॥ इत्युक्ता जटिला वृद्धा चीरकृष्णाजिनाम्बरा। तस्मिन् मुहूर्ते शबरी देहं जीर्णं जिहासति॥ ३२॥ अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने। ज्वलत्पावकसंकाशा स्वर्गमेव जगाम सा॥ ३३॥ दिव्याभरणसंयुक्ता दिव्यमाल्यानुलेपना। दिव्याम्बरधरा तत्र बभूव प्रियदर्शना॥ ३४॥ विराजयन्ती तं देशं विद्युत्सौदामनी यथा। यत्र ते सुकृतात्मानो विहरन्ति महर्षयः॥ ३५॥ तत्पुण्यं शबरी स्थानं जगामात्मसमाधिना। ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे शबरीस्वर्गप्राप्तिर्नाम चतुःसप्ततितमः सर्गः ॥३-७४॥