home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अरण्यकाण्डम्

पञ्चसप्ततितमः सर्गः ॥३-७५॥

॥पम्पादर्शनम्॥

[ श्रीरामलक्ष्मणोर्वार्तालापस्तयोः पम्पातटे गमनम् ]

दिवं तु तस्यां यातायां शबर्यां स्वेन तेजसा। लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः॥ १॥ स चिन्तयित्वा तु धर्मात्मा प्रभावं तं महात्मनाम्। हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत्॥ २॥ दृष्टोऽयमाश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम्। विश्वस्तमृगशार्दूलो नानाविहगसेवितः॥ ३॥ सप्तानां च समुद्राणामेषु तीर्थेषु लक्ष्मण। उपस्पृष्टं च विधिवत् पितरश्चापि तर्पिताः॥ ४॥ प्रणष्टमशुभं तत्तत् कल्याणं समुपस्थितम्। तेन त्वेतत् प्रहृष्टं मे मनो लक्ष्मण सम्प्रति॥ ५॥ हृदये हि नरव्याघ्र शुभमाविर्भविष्यति। तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम्॥ ६॥ ऋश्यमूको गिरिर्यत्र नातिदूरे प्रकाशते। यस्मिन् वसति धर्मात्मा सुग्रीवोंशुमतः सुतः॥ ७॥ नित्यं वालिभयत्रस्तश्चतुर्भिः सह वानरैः। अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम्॥ ८॥ तदधीनं हि मे सौम्य सीतायाः परिमार्गणम्। एवं ब्रुवाणं तं धीरं रामं सौमित्रिरिरब्रवीत्॥ ९॥ गच्छावस्त्वरितं तत्र ममापि त्वरते मनः। आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशाम्पतिः॥ १०॥ आजगाम ततः पम्पां लक्ष्मणेन सह प्रभुः। स ददर्श ततः पुण्यामुदारजनसेविताम्॥ ११॥ नानाद्रुमलताकीर्णां पम्पां पानीयवाहिनीम्। पद्मैः सौगन्धिकैस्ताम्रां शुकलां कुमुदमण्ड्लैः॥ १२॥ नीलां कुवलयोद‍्घाटैर्बहुवर्णां कुथामिव। स तामासाद्य वै रामो दूरादुदकवाहिनीम्॥ १३॥ मतङ्गसरसं नाम ह्रदं समवगाहत। अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम्॥ १४॥ पुष्पिताम्रवणोपेतां बर्हिणोद‍्घुष्टनादिताम्। तिलकैर्बीजपूरैश्च वटैः शुक्लद्रुमैस्तथा॥ १५॥ पुष्पितैः करवीरैश्च पुंनागैश्च सुपुष्पितैः। मालतीकुन्दगुल्मैश्च भण्डीरैर्निचुलैस्तथा॥ १६॥ अशोकैः सप्तपर्णैश्च कतकैरतिमुक्तकैः। अन्यैश्च विविधैर्वृक्षैः प्रमदामिव भूषिताम्॥ १७॥ समीक्षमाणौ पुष्पाढ्यं सर्वतो विपुलद्रुमम्। कोयष्टिकैश्चार्जुनकैः शतपत्रैश्च कीरकैः॥ १८॥ एतैश्चान्यैश्च बहुभिर्नादितं तु वनं महत्। ततो जग्मतुरव्यग्रौ राघवौ सुसमाहीतौ॥ १९॥ तद्वनं चैव सरसः पश्यन्तौ शकुनैर्युतम्। स ददर्श ततः पम्पां शीतवारिनिधिं शुभाम्॥ २०॥ प्रहृष्टनानाशकुनां पादपैरुपशोभिताम्। स रामो विविधान् वृक्षान् सरांसि विविधानि च॥ २१॥ पश्यन् कामाभिसंतप्तो जगाम परमं ह्रदम्। पुष्पितोपवनोपेतां सालचम्पकशोभिताम्॥ २२॥ षट्पदौघसमाविष्टां श्रीमतीमतुलप्रभाम्। स्फटिकोपमतोयां तां श्लक्ष्णवालुकसंतताम्॥ २३॥ स तां दृष्टवा पुनः पम्पां पद्मसौगधिकैर्युताम्। इत्युवाच तदा वाक्यं लक्ष्मणं सत्यविक्रमः॥ २४॥ अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः ऋष्यमूक इति ख्यातः पुण्यः पुष्पितपादपः॥ २५॥ हरिर्ऋक्षरजोनाम्नः पुत्रस्तस्य महात्मनः अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः॥ २६॥ सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ। इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमः॥ २७॥ राज्यभ्रष्टेन दीनेन तस्यामासक्तचेतसा। कथं मया विना सीतां शक्यं लक्ष्मण जीवितुम्॥ २८॥ इत्येवमुक्त्वा मदनाभिपीडितः स लक्ष्मणं वाक्यमनन्यचेतसम्। विवेश पम्पां नलिनीं मनोहरां रघुत्तमः शोकविषादयन्त्रितः॥ २९॥ ततो महद्वर्त्म सुदूरसंक्रमः क्रमेण गत्वा प्रविलोकयन् वनम्। ददर्श पम्पां शुभदर्शकाननाम् अनेकनानाविधपक्षिजालकाम्॥ ३०॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे पम्पादर्शनं नाम पञ्चसप्ततितमः सर्गः ॥३-७५॥

॥श्रीमद्वाल्मीकिरामयणे अरण्यकाण्डः संपूर्णः॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध