home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अरण्यकाण्डम्

सप्तपञ्चाशः सर्गः ॥३-५७॥

॥रामप्रत्यागमनम्॥

[ श्रीरामस्य मृगं हत्वा निवर्तनं मार्गेऽपशकुनं दृष्ट्वा तस्य चिन्ता तत्र मिलितं लक्ष्मणमुपालभ्य सीताविषयकसंकटस्य तेनाशङ्कनम् ]

राक्षसं मृगरूपेण चरन्तं कामरूपिणम्। निहत्य रामो मारीचं तूर्णं पथि निवर्तते॥ १॥ तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम्। क्रूरस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः॥ २॥ स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम्। चिन्तयामास गोमायोः स्वरेण परिशङ्कितः॥ ३॥ अशुभं बत मन्येऽहं गोमायुर्वाशते यथा। स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना॥ ४॥ मारीचेन तु विज्ञाय स्वरमालक्ष्य मामकम्। विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद् यदि॥ ५॥ स सौमित्रिः स्वरं श्रुत्वा तां च हित्वा च मैथिलीम्। तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति॥ ६॥ राक्षसैः सहितैर्नूनं सीताया ईप्सितो वधः। काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम्॥ ७॥ दूरं नीत्वा तु मारीचो राक्षसोऽभूच्छराहतः। हा लक्ष्मण हतोऽस्मीति यद्वाक्यं व्याजहार ह॥ ८॥ अपि स्वस्ति भवेद् द्वाभ्यां रहिताभ्यां मया वने। जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः॥ ९॥ निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च। इत्येवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम्॥ १०॥ आत्मनश्चापनयनान्मृगरूपेण रक्षसा। आजगाम जनस्थानं राघवः परिशङ्कितः॥ ११॥ तं दीनमानसं दीनमासेदुर्मृगपक्षिणः। सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान्॥ १२॥ तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः। न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः॥ १३॥ स तु सीतां वरारोहां लक्ष्मणं च महाबलम्। आहगम जनस्थानं चिन्तन्नेव राघवः॥ १४॥ ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम्। ततोऽविदूरे रामेण समीयाय स लक्ष्मणः॥ १५॥ विषण्णः सुविषण्णेन दुःखितो दुःखभागिना। संजगर्हेऽथ तं भ्राता दृष्ट्वा लक्ष्मणमागतम्॥ १६॥ विहाय सीतां विजने वने राक्षससेविते। गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः॥ १७॥ उवाच मधुरोदर्कमिदं वचनमार्तवत्। अहो लक्ष्मण गर्ह्यं ते कृतं यत् त्वं विहाय ताम्॥ १८॥ सीतामिहागतः सौम्य कच्चित् स्वस्ति भवेदिति। न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा॥ १९॥ विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः। अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे॥ २०॥ अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयावहे। जीवन्त्याः पुरुषव्याघ्र सुताया जनकस्य वै॥ २१॥ यथा वै मृगसंघाश्च गोमायुश्चैव भैरवम्। वाश्यन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम्। अपि स्वस्ति भवेत् तस्या राजपुत्र्या महाबल॥ २२॥ इदं हि रक्षो मृगसंनिकाशं प्रलोभ्य मां दूरमनुप्रयातम्। हतं कथंचिन्महता श्रमेण स राक्षसोऽभून्म्रियमाण एव॥ २२॥ मनश्च मे दीनमिहाप्रहृष्टं चक्षुश्च सव्यं कुरुते विकारम्। असंशयं लक्ष्मण नास्ति सीता हृता मृता वा पथि वर्तते वा॥ २३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे रामप्रत्यागमनं नाम सप्तपञ्चाशः सर्गः ॥३-५७॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध