रामस्तु सहितो भ्रात्रा सीतया च परंतपः। सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः॥ १॥ स गत्वा दूरमध्वानं नदीस्तीर्त्वा बहूदकाः। ददर्श विपुलं शैलं महामेघमिवोन्नतम्॥ २॥ ततस्तदिक्ष्वाकुवरौ संततं विविधैर्द्रुमैः। काननं तौ विविशतुः सीतया सह राघवौ॥ ३॥ प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम्। ददर्शाश्रममेकान्ते चीरमालापरिष्कृतम्॥ ४॥ तत्र तापसमासीनं मलपङ्कजटाधारम्। रामः सुतीक्ष्णं विधिवत् तपोधनमभाषत॥ ५॥ रामोऽहमस्मि भगवन् भवन्तं द्रष्टुमागतः। तन्माभिवद धर्मज्ञ महर्षे सत्यविक्रम॥ ६॥ स निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम्। समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत्॥ ७॥ स्वागतं खलु ते वीर राम धर्मभृतां वर। आश्रमोऽयं त्वया प्राप्तः सनाथ इव साम्प्रतम्॥ ८॥ प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः। देवलोकमितो वीर देहं त्यक्त्वा महीतले॥ ९॥ चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः। इहोपयातः काकुत्स्थ देवराजः शतक्रतुः॥ १०॥ उपागम्य च मे देवो महादेवः सुरेश्वरः। सर्वाल्ँ लोकाञ्जितानाह मम पुण्येन कर्मणा॥ ११॥ तेषु देवर्षिजुष्टेषु जितेषु तपसा मया। मत्प्रसादात् सभार्यस्त्वं विहरस्व सलक्ष्मणः॥ १२॥ तमुग्रतपसा युक्तं महर्षिं सत्यवादिनम्। प्रत्युवाचात्मवान् रामो ब्रह्माणमिव वासवः॥ १३॥ अहमेवाहरिष्यामि स्वयं लोकान् महामुने। आवासं त्वहमिच्छामि प्रदिष्टमिह कानने॥ १४॥ भवान् सर्वत्र कुशलः सर्वभूतहिते रतः। आख्यातः शरभङ्गेण गौतमेन महात्मना॥ १५॥ एवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः। अब्रवीन्मधुरं वाक्यं हर्षेण महताप्लुतः॥ १६॥ अयमेवाश्रमो राम गुणवान् रम्यतामिह। ऋषिसङ्घानुचरितः सदा मूलफलान्वितः॥ १७॥ इममाश्रममागम्य मृगसङ्घा महीयसः। अहत्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः॥ १८॥ नान्यो दोषो भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै। तच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः॥ १९॥ उवाच वचनं धीरो विकृष्य सशरं धनुः। तानहं सुमहाभाग मृगसङ्घान् समागतान्॥ २०॥ हन्यां निशितधारेण शरेणाशनिवर्चसा। भवांस्तत्राभिषज्येत किं स्यात् कृच्छ्रतरं ततः॥ २१॥ एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये। तमेवमुक्त्वोपरमं रामः संध्यामुपागमत्॥ २२॥ अन्वास्य पश्चिमां सन्ध्यां तत्र वासमकल्पयत् । सुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च॥ २३॥ ततः शुभं तापसभोज्यमन्नं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम्। ताभ्यां सुसत्कृत्य ददौ महात्मा सन्ध्यानिवृत्तौ रजनीमवेक्ष्य॥ २४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अरण्यकाण्डे सुतीक्ष्णाभ्यनुज्ञा नाम सप्तमः सर्गः ॥३-७॥