header_image
Home
Tamil

दशमः स्कन्धः [पूर्वार्धः]


दशमः स्कन्धः। द्वौ भागौ स्तः। अयं पूर्वभागः
द्वितीय भागस्य विषय सारार्थं दक्षिणभागस्थचिह्नं नोदयतु

दशमः स्कन्धः [पूर्वार्धः] ~((००))~ उनपञ्चाशदध्यायानां विषयसारिणी

अध्या विषय सारम् पठसि
०१ श्रीकृष्णावतारोपक्रमः - ब्रह्मकर्तृकं पृथिव्या आश्वासनं कंसस्य देवकीवधोद्योगाद् वसुदेववचनेन निवृत्तिः. षण्णां देवकीपुत्राणां कंसकर्तृको वधश्च पाठम्
०२ भगवतो देवकीगर्भेऽनुप्रवेशस्तत्र ब्रह्मादिदेवकृतं तदीयं स्तवनं देवकीसान्त्वनं च पाठम्
०३ श्रीकृष्णप्रादुर्भावः, वसुदेवदेवकीकृता भगवतः स्तुतिः, भगवदादेशेन कंसभीतस्य वसुदेवस्य गोकुलं प्रति स्वपुत्रनयनं ततो यशोदासुताया आनयनं च पाठम्
०४ जिघांसोः कंसस्य हस्तादुन्मुक्ताया देव्या भगवदवतारसूचनं कंसानुतापः, तदीयदुर्मन्त्रिणां दुर्मन्त्रणं च पाठम्
०५ गोकुले भगवतो जातकर्मादिमहोत्सवः, नन्दस्य मथुरागमनं तत्र नन्दवसुदेवसंवादः पाठम्
०६ पूतनावधः पाठम्
०७ शकटभङ्गः, तृणावर्तवधः, जृम्भमाणस्य भगवतो मुखे यशोदयाऽऽकाशादिदर्शनं च पाठम्
०८ गर्गागमनं जातककथनपूर्वकं यशोदारोहिणीसुतयोर्नामकरणसंस्कारः, मृद्भक्षणव्याजेन यशोदायै विश्वरूपप्रकटीकरणम् च पाठम्
०९ श्रीकृष्णस्योलूखले बन्धनम् पाठम्
१० यमलार्जुनोद्धारः पाठम्
११ गोपानां गोकुलं परित्यज्य वृन्दावने गमनं तत्र श्रीकृष्णद्वारा वत्सासुरवकासुरयोर्वधः पाठम्
१२ अघासुरवधः पाठम्
१३ सबालवत्सवृन्दे ब्रह्मणापहृते श्रीकृष्णस्य तत्तद्रूपेणाब्दं यथापूर्वं विहरणं ब्रह्मणो मोहभङ्गश्च पाठम्
१४ ब्रह्मणा कृता भगवतः स्तुतिर्वत्सवत्सपालानयनं च पाठम्
१५ गोचारणम्, धेनुकासुरवधः कालियविषदूषिताम्बुपानान्मृतानां गवां गोपानां च पुनरुज्जीवनम् पाठम्
१६ कालियदमनम् - नागपत्नीकृतं नागकर्तृकं च भगवतः स्तवनं नागद्वारा ह्रदपरित्यागश्च पाठम्
१७ कालियस्य यमुनाह्रदे निवासस्य कारणवर्णनं ह्रदान्निर्गतेन श्रीकृष्णेन व्रजौकसां दावानलाद्रक्षणम् पाठम्
१८ प्रलम्बासुरवधः पाठम्
१९ मुञ्जाटव्यां गवां गोपानां च दावानलाद्रक्षणम् पाठम्
२० प्रावृड्‍वर्णनं शरद्वर्णनं च पाठम्
२१ वेणुगीतम् - भगवतो मधुरं वेणुनादमाकर्ण्य गोपीभिस्तद्गुणगानम् पाठम्
२२ चीरहरणलीला पाठम्
२३ अन्नयाच्ञामिषेण यज्ञपत्नीष्वनुग्रहः पाठम्
२४ इन्द्रमखभङ्गः पाठम्
२५ कोपान्मुसलधारावर्ष वर्षतीन्द्रे व्रजौकसां रक्षणार्थं गोवर्धनधारणम् पाठम्
२६ श्रीकृष्णस्यालौकिकं प्रभावं दृष्ट्वा चकितान् गोपान् प्रति नन्दस्य गर्गोक्तिकथनम् पाठम्
२७ विगतमदस्येन्द्रस्य श्रीकृष्णसन्निधौ क्षमाप्रार्थनं कामधेन्विन्द्राभ्यां श्रीकृष्णस्याभिषेकश्च पाठम्
२८ विकालेऽवगाहनाद् वरुणदूतेन वरुणालयं नीतस्य नन्दस्य भगवता पुनरानयनम् पाठम्
२९ वेणुनादं श्रुत्वाऽऽगतानां गोपीनां श्रीकृष्णेन सह संवादः, रासारम्भः, तासां मानापनोदाय भगवतोऽन्तर्धानं च पाठम्
३० गोपीद्वारा भगवतोऽनुसन्धानं तदाचरितानुकरणं यमुनापुलिने तदागमप्रतीक्षणं च पाठम्
३१ गोपीगीतम् - विरहार्तगोपीनां भगवदुपस्थानाय प्रार्थनम् पाठम्
३२ भगवतः प्रादुर्भावः, गोपीनामाश्वासनं च पाठम्
३३ महारासवर्णनं परीक्षित्कृतशङ्कायाः शुकद्वारा समाधानं च पाठम्
३४ अजगरमुखान्नन्दस्य मोचनम्, अजगरस्य पूर्वविद्याधरस्वरूपप्राप्तिः, शङ्खचूडवधः पाठम्
३५ युग्मगीतम् - गोचारणाय वनं गतस्य भगवतो गोपीजकृतं गुणगानम् पाठम्
३६ अरिष्टासुरवधः, कंसस्याक्रूरं प्रति नन्दगोकुलगमनायादेशश्च पाठम्
३७ केशिवधः, नारदकृतं भगवत्स्तवनं निलायनक्रीडायां व्योमासुरवधश्च पाठम्
३८ कंसाज्ञया रामकृष्णौ मथुरामानेतुमक्रूरस्य नन्दगोकुलं प्रति गमनं तत्र रामकृष्णद्वारा तस्य सत्कारश्च पाठम्
३९ श्रीकृष्णबलरामयोर्मथुरां प्रति प्रस्थानं विरहकातरगोपीनां करुणोद्गारः कालिन्द्यामक्रूरकर्तृकं भगवद्धामदर्शनं च पाठम्
४० अक्रूरकृता भगवत्स्तुतिः पाठम्
४१ रामकृष्णयोर्मथुरायं प्रवेशः, रजकवधः, वायकमालाकारयोरनुग्रहणं च पाठम्
४२ कुब्जायामनुग्रहः, धनुषो भङ्गः, मल्लशालासज्जीकरणं च पाठम्
४३ कुवलयापीडवधः, भगवतो मल्लशालायां प्रवेशः, चाणूरेण सह संवादश्च पाठम्
४४ चाणूरमुष्टिकादीनां मल्लानां निधनं कंसस्य वधश्च पाठम्
४५ वसुदेवदेवकीसान्त्वनम्, उग्रसेनस्य राज्याभिषेकः, रामकृष्णयोरुपनयनं विद्याध्ययनं गुरोर्मृतपुत्रस्यानयनं च पाठम्
४६ स्वविरहार्तगोपगोपीनां सान्त्वनाय भगवतोद्धवस्य प्रस्थापनम् नन्दोद्धवसंवदश्च पाठम्
४७ उद्धवगोपीसंवाद्ः भ्रमरगीतम् उद्धवस्य मथुरागमनं च पाठम्
४८ भगवता कुब्जामनोरथपूर्तिः, अक्रूरगृहं गत्वा पाण्डवसमाचारज्ञानायाक्रूरस्य हस्तिनापुरं प्रति प्रस्थापनं च पाठम्
४९ अक्रूरस्य हस्तिनापुरे गमनं कुन्त्याः करुणोद्गरः, अक्रूरधृतराष्ट्रसंवादः,अक्रूरस्य पुनर्यदुपुर्यामागमनं च पाठम्

स्कन्धः

1 2 3 4 5 6 7 8 9 10a 10b 11 12