header_image
Home
Tamil

दशमः स्कन्धः[पूर्वार्धः] :: अथ सप्तत्रिंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[पूर्वार्धः]
अथ सप्तत्रिंशोऽध्यायः
केशिवधः, नारदकृतं भगवत्स्तवनं निलायनक्रीडायां व्योमासुरवधश्च
श्रीशुक उवाच - केशी तु कंसप्रहितः खुरैर्महीं महाहयो निर्जरयन् मनोजवः । सटावधूताभ्रविमानसङ्‌कुलं कुर्वन् नभो हेषितभीषिताखिलः ॥ १ ॥ विशालनेत्रो विकटास्यकोटरो बृहद्‌गलो नीलमहाम्बुदोपमः । दुराशयः कंसहितं चिकीर्षु- र्व्रजं स नम्दस्य जगाम कम्पयन् ॥ २ ॥ तं त्रासयन्तं भगवान् स्वगोकुलं तद्धेषितैर्वालविघूर्णिताम्बुदम् । आत्मानमाजौ मृगयन्तमग्रणी रुपाह्वयत् स व्यनदन्मृगेन्द्रवत् ॥ ३ ॥ स तं निशाम्याभिमुखो मखेन खं पिबन्निवाभ्यद्रवदत्यमर्षणः । जघान पद्‍भ्यामरविन्दलोचनं दुरासदश्चण्डजवो दुरत्ययः ॥ ४ ॥ तद् वञ्चयित्वा तमधोक्षजो रुषा प्रगृह्य दोर्भ्यां परिविध्य पादयोः । सावज्ञमुत्सृज्य धनुःशतान्तरे यथोरगं तार्क्ष्यसुतो व्यवस्थितः ॥ ५ ॥ सः लब्धसंज्ञः पुनरुत्थितो रुषा व्यादाय केशी तरसाऽऽपतद्धरिम् । सोऽप्यस्य वक्त्रे भुजमुत्तरं स्मयन् प्रवेशयामास यथोरगं बिले ॥ ६ ॥ दन्ता निपेतुर्भगवद्‍भुजस्पृश- स्ते केशिनस्तप्तमयःस्पृशो यथा । बाहुश्च तद्देहगतो महात्मनो यथाऽऽमयः संववृधे उपेक्षितः ॥ ७ ॥ समेधमानेन स कृष्णबाहुना निरुद्धवायुश्चरणांश्च विक्षिपन् । प्रस्विन्नगात्रः परिवृत्तलोचनः पपात लेण्डं विसृजन् क्षितौ व्यसुः ॥ ८ ॥ तद्देहतः कर्कटिकाफलोपमाद् व्यसोरपाकृष्य भुजं महाभुजः । अविस्मितोऽयत्‍नहतारिरुत्स्मयैः प्रसूनवर्षैर्दिविषद्‌भिरीडितः ॥ ९ ॥ देवर्षिरुपसङ्‌गम्य भागवतप्रवरो नृप । कृष्णमक्लिष्टकर्माणं रहस्येतदभाषत ॥ १० ॥ कृष्ण कृष्णाप्रमेयात्मन् योगेश जगदीश्वर । वासुदेवाखिलावास सात्वतां प्रवर प्रभो ॥ ११ ॥ त्वमात्मा सर्वभूतानामेको ज्योतिरिवैधसाम् । गूढो गुहाशयः साक्षी महापुरुष ईश्वरः ॥ १२ ॥ आत्मनाऽऽत्माश्रयः पूर्वं मायया ससृजे गुणान् । तैरिदं सत्यसङ्‌कल्पः सृजस्यत्स्यवसीश्वरः ॥ १३ ॥ स त्वं भूधरभूतानां दैत्यप्रमथरक्षसाम् । अवतीर्णो विनाशाय सेतूनां रक्षणाय च ॥ १४ ॥ दिष्ट्या ते निहतो दैत्यो लीलयायं हयाकृतिः । यस्य हेषितसन्त्रस्तास्त्यजन्त्यनिमिषा दिवम् ॥ १५ ॥ चाणूरं मुष्टिकं चैव मल्लानन्यांश्च हस्तिनम् । कंसं च निहतं द्रक्ष्ये परश्वोऽहनि ते विभो ॥ १६ ॥ तस्यानु शङ्‌खयवनमुराणां नरकस्य च । पारिजातापहरणमिन्द्रस्य च पराजयम् ॥ १७ ॥ उद्वाहं वीरकन्यानां वीर्यशुल्कादिलक्षणम् । नृगस्य मोक्षणं पापाद् द्वारकायां जगत्पते ॥ १८ ॥ स्यमन्तकस्य च मणेरादानं सह भार्यया । मृतपुत्रप्रदानं च ब्राह्मणस्य स्वधामतः ॥ १९ ॥ पौण्ड्रकस्य वधं पश्चात् काशिपुर्याश्च दीपनम् । दन्तवक्रस्य निधनं चैद्यस्य च महाक्रतौ ॥ २० ॥ यानि चान्यानि वीर्याणि द्वारकामावसन् भवान् । कर्ता द्रक्ष्याम्यहं तानि गेयानि कविभिर्भुवि ॥ २१ ॥ अथ ते कालरूपस्य क्षपयिष्णोरमुष्य वै । अक्षौहिणीनां निधनं द्रक्ष्याम्यर्जुनसारथेः ॥ २२ ॥ विशुद्धविज्ञानघनं स्वसंस्थया समाप्तसर्वार्थममोघवाञ्छितम् । स्वतेजसा नित्यनिवृत्तमाया- गुणप्रवाहं भगवन्तमीमहि ॥ २३ ॥ त्वामीश्वरं स्वाश्रयमात्ममायया विनिर्मिताशेषविशेषकल्पनम् । क्रीडार्थमद्यात्तमनुष्यविग्रहं नतोऽस्मि धुर्यं यदुवृष्णिसात्वताम् ॥ २४ ॥ श्रीशुक उवाच - एवं यदुपतिं कृष्णं भागवतप्रवरो मुनिः । प्रणिपत्याभ्यनुज्ञातो ययौ तद्दर्शनोत्सवः ॥ २५ ॥ भगवानपि गोविन्दो हत्वा केशिनमाहवे । पशूनपालयत् पालैः प्रीतैर्व्रजसुखावहः ॥ २६ ॥ एकदा ते पशून् पालाश्चारयन्तोऽद्रिसानुषु । चक्रुर्निलायनक्रीडाश्चोरपालापदेशतः ॥ २७ ॥ तत्रासन् कतिचिच्चोराः पालाश्च कतिचिन्नृप । मेषायिताश्च तत्रैके विजह्रुरकुतोभयाः ॥ २८ ॥ मयपुत्रो महामायो व्योमो गोपालवेषधृक् । मेषायितानपोवाह प्रायश्चोरायितो बहून् ॥ २९ ॥ गिरिदर्यां विनिक्षिप्य नीतं नीतं महासुरः । शिलया पिदधे द्वारं चतुःपञ्चावशेषिताः ॥ ३० ॥ तस्य तत् कर्म विज्ञाय कृष्णः शरणदः सताम् । गोपान् नयन्तं जग्राह वृकं हरिरिवौजसा ॥ ३१ ॥ स निजं रूपमास्थाय गिरीन्द्रसदृशं बली । इच्छन् विमोक्तुमात्मानं नाशक्नोद् ग्रहणातुरः ॥३२ तं निगृह्याच्युतो दोर्भ्यां पातयित्वा महीतले । पश्यतां दिवि देवानां पशुमारममारयत् ॥ ३३ ॥ गुहापिधानं निर्भिद्य गोपान् निःसार्य कृच्छ्रतः । स्तूयमानः सुरैर्गोपैः प्रविवेश स्वगोकुलम् ॥ ३४ ॥ इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे व्योमासुरवधो नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
Tamil