header_image
Home
Tamil

तृतीयः स्कन्धः


तृतीयः स्कन्धः ~((००))~ अध्याय विषय सार सारिणी

अध्या विषय सारम् पठसि
०१ धृतराष्ट्रं परित्यज्य गतस्य विदुरस्योद्धवेन सह समागमः पाठम्
०२ प्रभुविरहविषण्णेनोद्धवेन संक्षेपतः श्रीकृष्णबाल लीलावर्णनम् पाठम्
०३ मथुरायां द्वारकायां च सम्पन्नानां श्रीकृष्णलीलानां वर्णनम्, यदूनां प्रभासक्षेत्रगमनं च पाठम्
०४ यदुवंशसंहारकथनम, स्वपदारोहणात् प्रागुद्धवायोपदिष्टस्य ज्ञानस्योपलब्धये विदुरस्य मैत्रेय सन्निधौ गमनम् पाठम्
०५ विदुरप्रश्नमनुसृत्य मैत्रेयद्वारा सृष्टिक्रमवर्णनम, तत्र महदादितत्त्वानामुत्पत्तिः, तत्त्वात्मकदेवैः कृतं भगवत्स्तवनं च पाठम्
०६ ईशशक्तिप्रवेशेन स्थूलभूतानां जगन्निर्माणशक्तित्वप्रदर्शनपूर्वकं विराड्विग्रहोत्पत्तिकथनम् पाठम्
०७ निर्गुणस्य भगवतो गुणक्रियादिसङ्गः कथमिति प्रश्नस्य मैत्रेयद्वारा समाधानं श्रुत्वा विदुरस्य पुनर्विविधाः प्रश्नाः पाठम्
०८ विष्णोर्नाभिकमलाद्ब्रह्मोत्पत्तिवर्णनम् पाठम्
०९ ब्रह्मकृता भगवत्स्तुतिः, भगवतो ब्रह्मणे वरप्रदानं च पाठम्
१० दशाविधसृष्टिवर्णनम् पाठम्
११ मन्वन्तरादिकालपरिमाणनिरूपणं मनुष्य-देवाद्यायुषो वर्णनं च पाठम्
१२ सनकादे रुद्रस्य मरीच्यादीनां सरस्वत्या वेदादीनां चोत्पत्तिवर्णनम्, ब्रह्मणो देहात् स्वायम्भुवमनोः शतरूपायाश्य जन्म पाठम्
१३ ब्रह्मणो नासारन्ध्रादाविर्भूतस्य भगवतो यज्ञवराहस्य संक्षिप्तचरितम्, ऋषिभिः कृतं भगवतः स्तवनं च पाठम्
१४ दितिकश्यपसंवादः, दित्यां कश्यपद्वारा गर्भस्थापनं च पाठम्
१५ वैकुण्ठधामवर्णनम्- तत्र गतानां सनकादीनां जय विजयावुद्दिश्य शापदानं भगवतो दर्शनं च पाठम्
१६ भगवत्कृतं सनकादीनां सान्त्वनम्, वैकुण्ठाज्जयविजययोः पतनं च पाठम्
१७ हिरण्याक्षहिरण्यकशिप्वोर्जन्म, तदानीमुत्पात दर्शनम्, हिरण्याक्षदिग्विजयश्च पाठम्
१८ पृथिव्या उद्धारकाले हिरण्याक्षवराहसमागमस्तयोर्युद्धवर्णनं च पाठम्
१९ ब्रह्मणः प्रार्थनामङ्गीकृत्य वराहकृतो हिरण्याक्षवधः पाठम्
२० ब्रह्मकृतविविधसृष्टिवर्णनम् पाठम्
२१ मनुवंशवर्णनं प्रस्त्युत्य कर्दमतपस्या, भगवद्वरप्रदानम्, कर्दमस्याश्रमे स्वायम्भुवमनोरागमनं च पाठम्
२२ मनुकर्दमसंवादः, कर्दमदेवहूतिविवाहः, मनोर्ब्रह्मावर्ताय प्रस्थानं च पाठम्
२३ समाधिस्थितस्य कर्दमस्य देवहूतिकृता परिचर्या, कर्दमद्वारा दिव्यविमाननिर्माणम्, तत्र दम्पत्योर्विहारो नवकन्यानामुत्पत्तिश्च पाठम्
२४ कपिलावतारः, नवकन्यानां विवाहः, कर्दमकपिलसंवादः, कर्दमस्य भगवत्पदप्राप्तिश्च पाठम्
२५ देवहूतिकपिलसंवादः, कपिलद्वारा भक्तियोगनिरूपणं च पाठम्
२६ महदादितत्त्वानामुत्पत्तिनिरूपणं सद्धर्मवर्णनं च पाठम्
२७ प्रकृतिपुरुषयोर्विवेकद्वारा मोक्षप्राप्तिवर्णनं भक्तियोगेन प्रकृतेस्तिरोधानकथनं च पाठम्
२८ सबीजयोगलक्षणं सगुणस्य भगवतः पृथगवयवध्यानवर्णनम् च पाठम्
२९ भक्तियोगरहस्यं कालप्रभाववर्णनम् च पाठम्
३० देहगेहासक्तपुरुषाणां पापादधोगतिकथनम् पाठम्
३१ मातुः कुक्षौ प्रविष्टस्य जीवस्य देहप्राप्तिवर्णनं गर्भस्थजीवकृता भगवत्स्तुतिः, जीवस्य बाल्याद्यवस्थाक्लेशवर्णनं च पाठम्
३२ धूमार्चिराख्यमार्गद्वयगतानां विभिन्नगतिः, कर्मासक्तचेतसां निन्दा, भक्तियोगस्योत्कर्षवर्णनं च पाठम्
३३ देवहूतिकृता भगवत्स्तुतिः, कपिलस्य प्रस्थानम्, देवहूतेर्बह्माभावापत्तिश्च पाठम्

स्कन्धः

1 2 3 4 5 6 7 8 9 10a 10b 11 12