header_image
Home
Tamil

तृतीयः स्कन्ध ~:०:~ अथ तृतीयोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: तृतीयः स्कन्ध
अथ तृतीयोऽध्यायः
मथुरायां द्वारकायां च सम्पन्नानां श्रीकृष्णलीलानां वर्णनम्, यदूनां प्रभासक्षेत्रगमनं च
उद्धव उवाच ततः स आगत्य पुरं स्वपित्रो- श्चिकीर्षया शं बलदेवसंयुतः। निपात्य तुङ्गाद्रिपुयूथनाथं हतं व्यकर्षद् व्यसुमोजसोर्व्याम्॥ 1 सान्दीपनेः सकृत्प्रोक्तं ब्रह्माधीत्य सविस्तरम्। तस्मै प्रादाद्वरं पुत्रं मृतं पञ्चजनोदरात्॥ 2 समाहुता भीष्मककन्यया ये श्रियः सवर्णेन बुभूषयैषाम्। गान्धर्ववृत्त्या मिषतां स्वभागं जह्रे पदं मूर्ध्नि दधत्सुपर्णः॥ 3 ककुद्मिनोऽविद्धनसो दमित्वा स्वयंवरे नाग्नजितीमुवाह। तद्भग्नमानानपि गृध्यतोऽज्ञा- ञ्जघ्नेऽक्षतः शस्त्रभृतः स्वशस्त्रैः॥ 4 प्रियं प्रभुर्ग्राम्य इव प्रियाया विधित्सुरार्च्छद् द्युतरुं यदर्थे। वज्र्याद्रवत्तं सगणो रुषान्धः क्रीडामृगो नूनमयं वधूनाम्॥ 5 सुतं मृधे खं वपुषा ग्रसन्तं दृष्ट्वा सुनाभोन्मथितं धरित्र्या। आमन्त्रितस्तत्तनयाय शेषं दत्त्वा तदन्तःपुरमाविवेश॥ 6 तत्राहृतास्ता नरदेवकन्याः कुजेन दृष्ट्वा हरिमार्तबन्धुम्। उत्थाय सद्यो जगृहुः प्रहर्ष- व्रीडानुरागप्रहितावलोकैः॥ 7 आसां मुहूर्त एकस्मिन्नानागारेषु योषिताम्। सविधं जगृहे पाणीननुरूपः स्वमायया॥ 8 तास्वपत्यान्यजनयदात्मतुल्यानि सर्वतः। एकैकस्यां दश दश प्रकृतेर्विबुभूषया॥ 9 कालमागधशाल्वादीननीकै रुन्धतः पुरम्। अजीघनत्स्वयं दिव्यं स्वपुंसां तेज आदिशत्॥ 10 शम्बरं द्विविदं बाणं मुरं बल्वलमेव च। अन्यांश्च दन्तवक्रादीनवधीत्कांश्च घातयत्॥ 11 अथ ते भ्रातृपुत्राणां पक्षयोः पतितान्नृपान्। चचाल भूः कुरुक्षेत्रं येषामापततां बलैः॥ 12 स कर्णदुःशासनसौबलानां कुमन्त्रपाकेन हतश्रियायुषम्। सुयोधनं सानुचरं शयानं भग्नोरुमूर्व्यां न ननन्द पश्यन्॥ 13 कियान् भुवोऽयं क्षपितोरुभारो यद्द्रोणभीष्मार्जुनभीममूलैः। अष्टादशाक्षौहिणिको मदंशै- रास्ते बलं दुर्विषहं यदूनाम्॥ 14 मिथो यदैषां भविता विवादो मध्वामदाताम्रविलोचनानाम्। नैषां वधोपाय इयानतोऽन्यो मय्युद्यतेऽन्तर्दधते स्वयं स्म॥ 15 एवं सञ्चिन्त्य भगवान् स्वराज्ये स्थाप्य धर्मजम्। नन्दयामास सुहृदः साधूनां वर्त्म दर्शयन्॥ 16 उत्तरायां धृतः पूरोर्वंशः साध्वभिमन्युना। स वै द्रौण्यस्त्रसंछिन्नः पुनर्भगवता धृतः॥ 17 अयाजयद्धर्मसुतमश्वमेधैस्त्रिभिर्विभुः। सोऽपि क्ष्मामनुजै रक्षन् रेमे कृष्णमनुव्रतः॥ 18 भगवानपि विश्वात्मा लोकवेदपथानुगः। कामान् सिषेवे द्वार्वत्यामसक्तः साङ्ख्यमास्थितः॥ 19 स्निग्धस्मितावलोकेन वाचा पीयूषकल्पया। चरित्रेणानवद्येन श्रीनिकेतेन चात्मना॥ 20 इमं लोकममुं चैव रमयन् सुतरां यदून्। रेमे क्षणदया दत्त क्षणस्त्रीक्षणसौहृदः॥ 21 तस्यैवं रममाणस्य संवत्सरगणान् बहून्। गृहमेधेषु योगेषु विरागः समजायत॥ 22 दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान्। को विश्रम्भेत योगेन योगेश्वरमनुव्रतः॥ 23 पुर्यां कदाचित्क्रीडद्भिर्यदुभोजकुमारकैः। कोपिता मुनयः शेपुर्भगवन्मतकोविदाः॥ 24 ततः कतिपयैर्मासैर्वृष्णिभोजान्धकादयः। ययुः प्रभासं संहृष्टा रथैर्देवविमोहिताः॥ 25 तत्र स्नात्वा पितॄन्देवानृषींश्चैव तदम्भसा। तर्पयित्वाथ विप्रेभ्यो गावो बहुगुणा ददुः॥ 26 हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान्। यानं रथानिभान् कन्या धरां वृत्तिकरीमपि॥ 27 अन्नं चोरुरसं तेभ्यो दत्त्वा भगवदर्पणम्। गोविप्रार्थासवः शूराः प्रणेमुर्भुवि मूर्धभिः॥ 28 ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे तृतीयोऽध्यायः ॥ 3
Tamil