header_image
Home
Tamil

चतुर्थः स्कन्धः


चतुर्थः स्कन्धः ~((००))~ अध्याय विषय सार सारिणी

अध्या विषय सारम् पठसि
०१ मनुकन्यानां वंशवर्णनम्, यज्ञदत्तयोरवतारः, नरनारायणावतारश्च पाठम्
०२ विश्वसृजां सत्रे दक्षशिवयोर्वैरकारणमुभयपक्षतोऽन्योन्यं शापप्रयोगश्च पाठम्
०३ पितुर्यज्ञोत्सवं द्रष्टुं जिगमिषन्त्याः सत्याः शिवात्स्वीकृतिप्रार्थनं शिवद्वारा तत्र गमननिषेधश्च पाठम्
०४ सत्याः स्वेच्छयैव यज्ञे गमनं तत्र पत्यवमानदर्शनात् पितरं निर्भर्त्स्य योगेन देहत्यागश्च पाठम्
०५ वीरभद्रकृतयज्ञविध्वंसः, दक्षवधश्च पाठम्
०६ ब्रह्मसहितानां देवानां कैलासे गमनं रुद्रस्य स्तवनं च पाठम्
०७ रुद्रवरदानं दक्षजीवनं यज्ञसन्धानं सर्वदेवकृत विष्णुस्तुतिश्च पाठम्
०८ प्रतिसर्गवर्णने ध्रुवोपाख्यानम्-विमातुर्दुरुक्तया विद्धस्य ध्रुवस्य वनगमनं तत्र नारदोपदेशेन भगवदाराधनं च पाठम्
०९ ध्रुवस्य भगवद्दर्शनं भगवत्स्तवनं वरं लब्ध्वा पुरप्रत्यागमनं राज्यप्राप्तिश्च पाठम्
१० स्वभ्रातुरुत्तमस्य यक्षद्वारा वधं श्रुत्वा क्रुद्धस्य ध्रुवस्य युद्धे यक्षाणां संहारारम्भः पाठम्
११ स्वायम्भुवमनुकृतं ध्रुवस्य सान्त्वनं यद्धविरामश्च पाठम्
१२ ध्रुवाय कुबेरस्य वरदानं ध्रुवस्य बदर्याश्रमे तपश्चरणं भगवत्पदारोहणं च पाठम्
१३ ध्रुवस्य वंशस्तत्रोत्पन्नस्याङ्गस्य स्वतनयवेनकृत दुराचारेण निर्वेदाधिक्याद् गृहत्यागश्च पाठम्
१४ पितू राज्येऽभिषिक्तस्य वेनस्याधर्मवर्त्तित्वाद् ऋषिभिर्वधः, तदूरुमथनान्निषादोत्पत्तिश्च पाठम्
१५ वेनभुजाभ्यां पृथोरर्चिषश्च प्रादुर्भावः, पृथो राज्याभिषेकश्च पाठम्
१६ मागधवन्दिजनकृतं महाराजपृथोः स्तवनम् पाठम्
१७ क्षुत्पीडितप्रजानामन्नदानार्थं ग्रस्तबीजां पृथिवीं हन्तुमुद्यतस्य पृथोस्तया स्तवनम् पाठम्
१८ पृथिवीवचनात्पृथक् पृथग्वत्सपात्रादिकल्पनया पृथिव्या दोहनम् पाठम्
१९ स्वकीयेऽश्वमेधयज्ञे विघ्नकारिणमिन्द्रं हन्तुकामस्य पृथोर्ब्रह्मसान्त्वनया यज्ञाद्विरतिः पाठम्
२० भगवतो दर्शनं भगवत्पृथुसंवादश्च पाठम्
२१ स्वकीयप्रजापरिषदि महाराजपृथुकृतभगवद्धर्मोपदेशः पाठम्
२२ महाराजाय पृथवे सनत्कृमारकृतो ज्ञानोपदेशः पाठम्
२३ पृथोर्वनं गत्वा तपश्चरणं योगधारणया त्यक्तदेहस्य पृथोः, चितायां दग्धतनोरर्चिषश्च सहैव वैकुण्ठप्राप्तिः पाठम्
२४ पृथुवंशः, रुद्रप्राचेतससमागमः, रुद्रगीतं च पाठम्
२५ प्राचीनबर्हिर्नारदसंवादः पुरञ्जनोपाख्यानारम्भश्च पाठम्
२६ पुरञ्जनस्य मृगयावर्णनं तत्प्रियायाः प्रणयकोपश्च पाठम्
२७ पुरञ्जनपुरे चण्डवेगस्याक्रमणं कालकन्याचरित्र वर्णनं च पाठम्
२८ पुरध्वंसे पुरञ्जनस्य शोकः, भयादिकृतयातनानुभवः, जन्मान्तरे स्त्रीभावापत्तिः, अविज्ञातनाम्नः सख्युरुपदेशान्मुक्तिश्च पाठम्
२९ पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च पाठम्
३० दशप्रचेतसां भगवद्दर्शनं वरप्राप्तिश्च, तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च पाठम्
३१ गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः पाठम्

स्कन्धः

1 2 3 4 5 6 7 8 9 10a 10b 11 12