header_image
Home
Tamil

चतुर्थः स्कन्ध ~:0:~ एकोनत्रंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: चतुर्थः स्कन्ध
अथ एकोनत्रंशोऽध्यायः
पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीन बर्हिषो मुक्तिश्च
प्राचीनबर्हिरुवाच भगवंस्ते वचोऽस्माभिर्न सम्यगवगम्यते। कवयस्तद्विजानन्ति न वयं कर्ममोहिताः॥ 01 नारद उवाच पुरुषं पुरञ्जनं विद्याद्यद्व्यनक्त्यात्मनः पुरम्। एकद्वित्रिचतुष्पादं बहुपादमपादकम्॥ 02 योऽविज्ञाताहृतस्तस्य पुरुषस्य सखेश्वरः। यन्न विज्ञायते पुम्भिर्नामभिर्वा क्रियागुणैः॥ 03 यदा जिघृक्षन् पुरुषः कार्त्स्न्येन प्रकृतेर्गुणान्। नवद्वारं द्विहस्ताङ्घ्रि तत्रामनुत साध्विति॥ 04 बुद्धिं तु प्रमदां विद्यान्ममाहमिति यत्कृतम्। यामधिष्ठाय देहेऽस्मिन् पुमान् भुङ्क्तेऽक्षभिर्गुणान्॥ 05 सखाय इन्द्रियगणा ज्ञानं कर्म च यत्कृतम्। सख्यस्तद्वृत्तयः प्राणः पञ्चवृत्तिर्यथोरगः॥ 06 बृहद्बलं मनो विद्यादुभयेन्द्रियनायकम्। पञ्चालाः पञ्च विषया यन्मध्ये नवखं पुरम्॥ 07 अक्षिणी नासिके कर्णौ मुखं शिश्नगुदाविति। द्वे द्वे द्वारौ बहिर्याति यस्तदिन्द्रियसंयुतः॥ 08 अक्षिणी नासिके आस्यमिति पञ्च पुरः कृताः। दक्षिणा दक्षिणः कर्ण उत्तरा चोत्तरः स्मृतः॥ 09 पश्चिमे इत्यधो द्वारौ गुदं शिश्नमिहोच्यते। खद्योताऽऽविर्मुखी चात्र नेत्रे एकत्र निर्मिते। रूपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वरः॥ 10 नलिनी नालिनी नासे गन्धः सौरभ उच्यते। घ्राणोऽवधूतो मुख्यास्यं विपणो वाग्रसविद्रसः॥ 11 आपणो व्यवहारोऽत्र चित्रमन्धो बहूदनम्। पितृहूर्दक्षिणः कर्ण उत्तरो देवहूः स्मृतः॥ 12 प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चालसञ्ज्ञितम्। पितृयानं देवयानं श्रोत्राच्छ्रुतधराद्व्रजेत्॥ 13 आसुरी मेढ्रमर्वाग्द्वार्व्यवायो ग्रामिणां रतिः। उपस्थो दुर्मदः प्रोक्तो निरृतिर्गुद उच्यते॥ 14 वैशसं नरकं पायुर्लुब्धकोऽन्धौ तु मे शृणु। हस्तपादौ पुमांस्ताभ्यां युक्तो याति करोति च॥ 15 अन्तःपुरं च हृदयं विषूचिर्मन उच्यते। तत्र मोहं प्रसादं वा हर्षं प्राप्नोति तद्गुणैः॥ 16 यथा यथा विक्रियते गुणाक्तो विकरोति वा। तथा तथोपद्रष्टाऽऽत्मा तद्वृत्तीरनुकार्यते॥ 17 देहो रथस्त्विन्द्रियाश्वः संवत्सररयोऽगतिः। द्विकर्मचक्रस्त्रिगुण ध्वजः पञ्चासुबन्धुरः॥ 18 मनोरश्मिर्बुद्धिसूतो हृन्नीडो द्वन्द्वकूबरः। पञ्चेन्द्रियार्थप्रक्षेपः सप्तधातुवरूथकः॥ 19 आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति। एकादशेन्द्रियचमूः पञ्चसूनाविनोदकृत्॥ 20 संवत्सरश्चण्डवेगः कालो येनोपलक्षितः। तस्याहानीह गन्धर्वा गन्धर्व्यो रात्रयः स्मृताः। हरन्त्यायुः परिक्रान्त्या षष्ट्युत्तरशतत्रयम्॥ 21 कालकन्या जरा साक्षाल्लोकस्तां नाभिनन्दति। स्वसारं जगृहे मृत्युः क्षयाय यवनेश्वरः॥ 22 आधयो व्याधयस्तस्य सैनिका यवनाश्चराः। भूतोपसर्गाशुरयः प्रज्वारो द्विविधो ज्वरः॥ 23 एवं बहुविधैर्दुःखैर्दैवभूतात्मसम्भवैः। क्लिश्यमानः शतं वर्षं देहे देही तमोवृतः॥ 24 प्राणेन्द्रियमनोधर्मानात्मन्यध्यस्य निर्गुणः। शेते कामलवान्ध्यायन्ममाहमिति कर्मकृत्॥ 25 यदाऽऽत्मानमविज्ञाय भगवन्तं परं गुरुम्। पुरुषस्तु विषज्जेत गुणेषु प्रकृतेः स्वदृक्॥ 26 गुणाभिमानी स तदा कर्माणि कुरुतेऽवशः। शुक्लं कृष्णं लोहितं वा यथाकर्माभिजायते॥ 27 शुक्लात्प्रकाशभूयिष्ठाँल्लोकानाप्नोति कर्हिचित्। दुःखोदर्कान् क्रियायासांस्तमः शोकोत्कटान् क्वचित्॥ 28 क्वचित्पुमान् क्वचिच्च स्त्री क्वचिन्नोभयमन्धधीः। देवो मनुष्यस्तिर्यग्वा यथाकर्मगुणं भवः॥ 29 क्षुत्परीतो यथा दीनः सारमेयो गृहं गृहम्। चरन् विन्दति यद्दिष्टं दण्डमोदनमेव वा॥ 30 तथा कामाशयो जीव उच्चावचपथा भ्रमन्। उपर्यधो वा मध्ये वा याति दिष्टं प्रियाप्रियम्॥ 31 दुःखेष्वेकतरेणापि दैवभूतात्महेतुषु। जीवस्य न व्यवच्छेदः स्याच्चेत्तत्तत्प्रतिक्रिया॥ 32 यथा हि पुरुषो भारं शिरसा गुरुमुद्वहन्। तं स्कन्धेन स आधत्ते तथा सर्वाः प्रतिक्रियाः॥ 33 नैकान्ततः प्रतीकारः कर्मणां कर्म केवलम्। द्वयं ह्यविद्योपसृतं स्वप्ने स्वप्न इवानघ॥ 34 अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते। मनसा लिङ्गरूपेण स्वप्ने विचरतो यथा॥ 35 अथात्मनोऽर्थभूतस्य यतोऽनर्थपरम्परा। संसृतिस्तद्व्यवच्छेदो भक्त्या परमया गुरौ॥ 36 वासुदेवे भगवति भक्तियोगः समाहितः। सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति॥ 37 सोऽचिरादेव राजर्षे स्यादच्युतकथाश्रयः। शृण्वतः श्रद्दधानस्य नित्यदा स्यादधीयतः॥ 38 यत्र भागवता राजन् साधवो विशदाशयाः। भगवद्गुणानुकथन श्रवणव्यग्रचेतसः॥ 39 तस्मिन्महन्मुखरिता मधुभिच् चरित्र पीयूषशेषसरितः परितः स्रवन्ति। ता ये पिबन्त्यवितृषो नृप गाढकर्णैः तान्न स्पृशन्त्यशनतृड्भयशोकमोहाः॥ 40 एतैरुपद्रुतो नित्यं जीवलोकः स्वभावजैः। न करोति हरेर्नूनं कथामृतनिधौ रतिम्॥ 41 प्रजापतिपतिः साक्षाद्भगवान् गिरिशो मनुः। दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः॥ 42 मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः। भृगुर्वसिष्ठ इत्येते मदन्ता ब्रह्मवादिनः॥ 43 अद्यापि वाचस्पतयस्तपोविद्यासमाधिभिः। पश्यन्तोऽपि न पश्यन्ति पश्यन्तं परमेश्वरम्॥ 44 शब्दब्रह्मणि दुष्पारे चरन्त उरुविस्तरे। मन्त्रलिङ्गैर्व्यवच्छिन्नं भजन्तो न विदुः परम्॥ 45 यदा यमनुगृह्णाति भगवानात्मभावितः। स जहाति मतिं लोके वेदे च परिनिष्ठिताम्॥ 46 तस्मात्कर्मसु बर्हिष्मन्नज्ञानादर्थकाशिषु। मार्थदृष्टिं कृथाः श्रोत्र स्पर्शिष्वस्पृष्टवस्तुषु॥ 47 स्वं लोकं न विदुस्ते वै यत्र देवो जनार्दन। आहुर्धूम्रधियो वेदं सकर्मकमतद्विदः॥ 48 आस्तीर्य दर्भैः प्रागग्रैः कार्त्स्न्येन क्षितिमण्डलम्। स्तब्धो बृहद्वधान्मानी कर्म नावैषि यत्परम्। तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया॥ 49 हरिर्देहभृतामात्मा स्वयं प्रकृतिरीश्वरः। तत्पादमूलं शरणं यतः क्षेमो नृणामिह॥ 50 स वै प्रियतमश्चात्मा यतो न भयमण्वपि। इति वेद स वै विद्वान् यो विद्वान् स गुरुर्हरिः॥ 51 नारद उवाच प्रश्न एवं हि सञ्छिन्नो भवतः पुरुषर्षभ। अत्र मे वदतो गुह्यं निशामय सुनिश्चितम्॥ 52 क्षुद्रं चरं सुमनसां शरणे मिथित्वा रक्तं षडङ्घ्रिगणसामसु लुब्धकर्णम्। अग्रे वृकानसुतृपोऽविगणय्य यान्तं पृष्ठे मृगं मृगय लुब्धकबाणभिन्नम्॥ 53
अस्यार्थः सुमनःसमधर्मणां स्त्रीणां शरण आश्रमे पुष्पमधुगन्धवत्क्षुद्रतमं काम्यकर्मविपाकजं कामसुखलवं जैह्व्यौपस्थ्यादि विचिन्वन्तं मिथुनीभूय तदभिनिवेशित मनसं षडङ्घ्रिगणसामगीतवदतिमनोहरवनितादिजनालापेष्वतितरामतिप्रलोभितकर्णमग्रे वृकयूथवदात्मन आयुर्हरतोऽहोरात्रान्तान्काललवविशेषानविगणय्य गृहेषु विहरन्तं पृष्ठत एव परोक्षमनुप्रवृत्तो लुब्धकः कृतान्तोऽन्तः शरेण यमिह पराविध्यति तमिममात्मानमहो राजन् भिन्नहृदयं द्रष्टुमर्हसीति॥ 54
स त्वं विचक्ष्य मृगचेष्टितमात्मनोऽन्तश् चित्तं नियच्छ हृदि कर्णधुनीं च चित्ते। जह्यङ्गनाश्रममसत्तमयूथगाथं प्रीणीहि हंसशरणं विरम क्रमेण॥ 55 राजोवाच श्रुतमन्वीक्षितं ब्रह्मन् भगवान् यदभाषत। नैतज्जानन्त्युपाध्यायाः किं न ब्रूयुर्विदुर्यदि॥ 56 संशयोऽत्र तु मे विप्र सञ्छिन्नस्तत्कृतो महान्। ऋषयोऽपि हि मुह्यन्ति यत्र नेन्द्रियवृत्तयः॥ 57 कर्माण्यारभते येन पुमानिह विहाय तम्। अमुत्रान्येन देहेन जुष्टानि स यदश्नुते॥ 58 इति वेदविदां वादः श्रूयते तत्र तत्र ह। कर्म यत्क्रियते प्रोक्तं परोक्षं न प्रकाशते॥ 59 नारद उवाच येनैवारभते कर्म तेनैवामुत्र तत्पुमान्। भुङ्क्ते ह्यव्यवधानेन लिङ्गेन मनसा स्वयम्॥ 60 शयानमिममुत्सृज्य श्वसन्तं पुरुषो यथा। कर्मात्मन्याहितं भुङ्क्ते तादृशेनेतरेण वा॥ 61 ममैते मनसा यद्यदसावहमिति ब्रुवन्। गृह्णीयात्तत्पुमान् राद्धं कर्म येन पुनर्भवः॥ 62 यथानुमीयते चित्तमुभयैरिन्द्रियेहितैः। एवं प्राग्देहजं कर्म लक्ष्यते चित्तवृत्तिभिः॥ 63 नानुभूतं क्व चानेन देहेनादृष्टमश्रुतम्। कदाचिदुपलभ्येत यद्रूपं यादृगात्मनि॥ 64 तेनास्य तादृशं राजँल्लिङ्गिनो देहसम्भवम्। श्रद्धत्स्वाननुभूतोऽर्थो न मनः स्प्रष्टुमर्हति॥ 65 मन एव मनुष्यस्य पूर्वरूपाणि शंसति। भविष्यतश्च भद्रं ते तथैव न भविष्यतः॥ 66 अदृष्टमश्रुतं चात्र क्वचिन्मनसि दृश्यते। यथा तथानुमन्तव्यं देशकालक्रियाश्रयम्॥ 67 सर्वे क्रमानुरोधेन मनसीन्द्रियगोचराः। आयान्ति वर्गशो यान्ति सर्वे समनसो जनाः॥ 68 सत्त्वैकनिष्ठे मनसि भगवत्पार्श्ववर्तिनि। तमश्चन्द्रमसीवेदमुपरज्यावभासते॥ 69 नाहं ममेति भावोऽयं पुरुषे व्यवधीयते। यावद् बुद्धिमनोऽक्षार्थ गुणव्यूहो ह्यनादिमान्॥ 70 सुप्तिमूर्च्छोपतापेषु प्राणायनविघाततः। नेहतेऽहमिति ज्ञानं मृत्युप्रज्वारयोरपि॥ 71 गर्भे बाल्येऽप्यपौष्कल्यादेकादशविधं तदा। लिङ्गं न दृश्यते यूनः कुह्वां चन्द्रमसो यथा॥ 72 अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते। ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा॥ 73 एवं पञ्चविधं लिङ्गं त्रिवृत् षोडश विस्तृतम्। एष चेतनया युक्तो जीव इत्यभिधीयते॥ 74 अनेन पुरुषो देहानुपादत्ते विमुञ्चति। हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति॥ 75 यथा तृणजलूकेयं नापयात्यपयाति च। न त्यजेन्म्रियमाणोऽपि प्राग्देहाभिमतिं जनः॥ 76 यावदन्यं न विन्देत व्यवधानेन कर्मणाम्। मन एव मनुष्येन्द्र भूतानां भवभावनम्॥ 77 यदाक्षैश्चरितान् ध्यायन् कर्माण्याचिनुतेऽसकृत्। सति कर्मण्यविद्यायां बन्धः कर्मण्यनात्मनः॥ 78 अतस्तदपवादार्थं भज सर्वात्मना हरिम्। पश्यंस्तदात्मकं विश्वं स्थित्युत्पत्त्यप्यया यतः॥ 79 मैत्रेय उवाच भागवतमुख्यो भगवान्नारदो हंसयोर्गतिम्। प्रदर्श्य ह्यमुमामन्त्र्य सिद्धलोकं ततोऽगमत्॥ 80 प्राचीनबर्ही राजर्षिः प्रजासर्गाभिरक्षणे। आदिश्य पुत्रानगमत्तपसे कपिलाश्रमम्॥ 81 तत्रैकाग्रमना वीरो गोविन्दचरणाम्बुजम्। विमुक्तसङ्गोऽनुभजन् भ्क्त्या तत्साम्यतामगात्॥ 82 एतदध्यात्मपारोक्ष्यं गीतं देवर्षिणानघ। यः श्रावयेद्यः शृणुयात्स लिङ्गेन विमुच्यते॥ 83 एतन्मुकुन्दयशसा भुवनं पुनानं देवर्षिवर्यमुखनिःसृतमात्मशौचम्। यः कीर्त्यमानमधिगच्छति पारमेष्ठ्यं नास्मिन् भवे भ्रमति मुक्तसमस्तबन्धः॥ 84 अध्यात्मपारोक्ष्यमिदं मयाधिगतमद्भुतम्। एवं स्त्रियाऽऽश्रमः पुंसश्छिन्नोऽमुत्र च संशयः॥ 85 ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे विदुरमैत्रेयसंवादे प्राचीनबर्हिर्नारदसंवादो नामैकोनत्रिंशोऽध्यायः ॥ 29
Tamil