header_image
Home
Tamil

चतुर्थः स्कन्ध ~:0:~ त्रिंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: चतुर्थः स्कन्ध
अथ त्रिंशोऽध्यायः
दशप्रचेतसां भगवद्दर्शनं वरप्राप्तिश्च, तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च
विदुर उवाच ये त्वयाभिहिता ब्रह्मन् सुताः प्राचीनबर्हिषः। ते रुद्रगीतेन हरिं सिद्धिमापुः प्रतोष्य काम्॥ 01 किं बार्हस्पत्येह परत्र वाथ कैवल्यनाथप्रियपार्श्ववर्तिनः। आसाद्य देवं गिरिशं यदृच्छया प्रापुः परं नूनमथ प्रचेतसः॥ 02 मैत्रेय उवाच प्रचेतसोऽन्तरुदधौ पितुरादेशकारिणः। जपयज्ञेन तपसा पुरञ्जनमतोषयन्॥ 03 दशवर्षसहस्रान्ते पुरुषस्तु सनातनः। तेषामाविरभूत्कृच्छ्रं शान्तेन शमयन् रुचा॥ 04 सुपर्णस्कन्धमारूढो मेरुशृङ्गमिवाम्बुदः। पीतवासा मणिग्रीवः कुर्वन् वितिमिरा दिशः॥ 05 काशिष्णुना कनकवर्णविभूषणेन भ्राजत्कपोलवदनो विलसत्किरीटः। अष्टायुधैरनुचरैर्मुनिभिः सुरेन्द्रैर् आसेवितो गरुडकिन्नरगीतकीर्तिः॥ 06 पीनायताष्टभुजमण्डलमध्यलक्ष्म्या स्पर्धच्छ्रिया परिवृतो वनमालयाऽऽद्यः। बर्हिष्मतः पुरुष आह सुतान् प्रपन्नान् पर्जन्यनादरुतया सघृणावलोकः॥ 07 श्रीभगवानुवाच वरं वृणीध्वं भद्रं वो यूयं मे नृपनन्दनाः। सौहार्देनापृथग्धर्मास्तुष्टोऽहं सौहृदेन वः॥ 08 योऽनुस्मरति सन्ध्यायां युष्माननुदिनं नरः। तस्य भ्रातृष्वात्मसाम्यं तथा भूतेषु सौहृदम्॥ 09 ये तु मां रुद्रगीतेन सायं प्रातः समाहिताः। स्तुवन्त्यहं कामवरान्दास्ये प्रज्ञां च शोभनाम्॥ 10 यद्यूयं पितुरादेशमग्रहीष्ट मुदान्विताः। अथो व उशती कीर्तिर्लोकाननु भविष्यति॥ 11 भविता विश्रुतः पुत्रोऽनवमो ब्रह्मणो गुणैः। य एतामात्मवीर्येण त्रिलोकीं पूरयिष्यति॥ 12 कण्डोः प्रम्लोचया लब्धा कन्या कमललोचना। तां चापविद्धां जगृहुर्भूरुहा नृपनन्दनाः॥ 13 क्षुत्क्षामाया मुखे राजा सोमः पीयूषवर्षिणीम्। देशिनीं रोदमानाया निदधे स दयान्वितः॥ 14 प्रजाविसर्ग आदिष्टाः पित्रा मामनुवर्तता। तत्र कन्यां वरारोहां तामुद्वहत मा चिरम्॥ 15 अपृथग्धर्मशीलानां सर्वेषां वः सुमध्यमा। अपृथग्धर्मशीलेयं भूयात्पत्न्यर्पिताशया॥ 16 दिव्यवर्षसहस्राणां सहस्रमहतौजसः। भौमान् भोक्ष्यथ भोगान् वै दिव्यांश्चानुग्रहान्मम॥ 17 अथ मय्यनपायिन्या भक्त्या पक्वगुणाशयाः। उपयास्यथ मद्धाम निर्विद्य निरयादतः॥ 18 गृहेष्वाविशतां चापि पुंसां कुशलकर्मणाम्। मद्वार्तायातयामानां न बन्धाय गृहा मताः॥ 19 नव्यवद्धृदये यज्ज्ञो ब्रह्मैतद्ब्रह्मवादिभिः। न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः॥ 20 मैत्रेय उवाच एवं ब्रुवाणं पुरुषार्थभाजनं जनार्दनं प्राञ्जलयः प्रचेतसः। तद्दर्शनध्वस्ततमोरजोमला गिरागृणन् गद्गदया सुहृत्तमम्॥ 21 प्रचेतस ऊचुः नमो नमः क्लेशविनाशनाय निरूपितोदारगुणाह्वयाय। मनोवचोवेगपुरोजवाय सर्वाक्षमार्गैरगताध्वने नमः॥ 22 शुद्धाय शान्ताय नमः स्वनिष्ठया मनस्यपार्थं विलसद्द्वयाय। नमो जगत्स्थानलयोदयेषु गृहीतमायागुणविग्रहाय॥ 23 नमो विशुद्धसत्त्वाय हरये हरिमेधसे। वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम्॥ 24 नमः कमलनाभाय नमः कमलमालिने। नमः कमलपादाय नमस्ते कमलेक्षण॥ 25 नमः कमलकिञ्जल्क पिशङ्गामलवाससे। सर्वभूतनिवासाय नमोऽयुङ्क्ष्महि साक्षिणे॥ 26 रूपं भगवता त्वेतदशेषक्लेशसङ्क्षयम्। आविष्कृतं नः क्लिष्टानां किमन्यदनुकम्पितम्॥ 27 एतावत्त्वं हि विभुभिर्भाव्यं दीनेषु वत्सलैः। यदनुस्मर्यते काले स्वबुद्ध्याभद्ररन्धन॥ 28 येनोपशान्तिर्भूतानां क्षुल्लकानामपीहताम्। अन्तर्हितोऽन्तर्हृदये कस्मान्नो वेद नाशिषः॥ 29 असावेव वरोऽस्माकमीप्सितो जगतः पते। प्रसन्नो भगवान् येषामपवर्गः गुरुर्गतिः॥ 30 वरं वृणीमहेऽथापि नाथ त्वत्परतः परात्। न ह्यन्तस्त्वद्विभूतीनां सोऽनन्त इति गीयसे॥ 31 पारिजातेऽञ्जसा लब्धे सारङ्गोऽन्यन्न सेवते। त्वदङ्घ्रिमूलमासाद्य साक्षात्किं किं वृणीमहि॥ 32 यावत्ते मायया स्पृष्टा भ्रमाम इह कर्मभिः। तावद्भवत्प्रसङ्गानां सङ्गः स्यान्नो भवे भवे॥ 33 तुलयाम लवेनापि न स्वर्गं नापुनर्भवम्। भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः॥ 34 यत्रेड्यन्ते कथा मृष्टास्तृष्णायाः प्रशमो यतः। निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन॥ 35 यत्र नारायणः साक्षाद्भगवान्न्यासिनां गतिः। संस्तूयते सत्कथासु मुक्तसङ्गैः पुनः पुनः॥ 36 तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया। भीतस्य किं न रोचेत तावकानां समागमः॥ 37 वयं तु साक्षाद्भगवन् भवस्य प्रियस्य सख्युः क्षणसङ्गमेन। सुदुश्चिकित्स्यस्य भवस्य मृत्योः भिषक्तमं त्वाद्य गतिं गताः स्म॥ 38 यन्नः स्वधीतं गुरवः प्रसादिता विप्राश्च वृद्धाश्च सदानुवृत्त्या। आर्या नताः सुहृदो भ्रातरश्च सर्वाणि भूतान्यनसूययैव॥ 39 यन्नः सुतप्तं तप एतदीश निरन्धसां कालमदभ्रमप्सु। सर्वं तदेतत्पुरुषस्य भूम्नो वृणीमहे ते परितोषणाय॥ 40 मनुः स्वयम्भूर्भगवान् भवश्च येऽन्ये तपोज्ञानविशुद्धसत्त्वाः। अदृष्टपारा अपि यन्महिम्नः स्तुवन्त्यथो त्वाऽऽत्मसमं गृणीमः॥ 41 नमः समाय शुद्धाय पुरुषाय पराय च। वासुदेवाय सत्त्वाय तुभ्यं भगवते नमः॥ 42 मैत्रेय उवाच इति प्रचेतोभिरभिष्टुतो हरिः प्रीतस्तथेत्याह शरण्यवत्सलः। अनिच्छतां यानमतृप्तचक्षुषां ययौ स्वधामानपवर्गवीर्यः॥ 43 अथ निर्याय सलिलात्प्रचेतस उदन्वतः। वीक्ष्याकुप्यन्द्रुमैश्छन्नां गां गां रोद्धुमिवोच्छ्रितैः॥ 44 ततोऽग्निमारुतौ राजन्नमुञ्चन्मुखतो रुषा। महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये॥ 45 भस्मसात्क्रियमाणांस्तान्द्रुमान् वीक्ष्य पितामहः। आगतः शमयामास पुत्रान् बर्हिष्मतो नयैः॥ 46 तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा। उज्जह्रुस्ते प्रचेतोभ्य उपदिष्टाः स्वयम्भुवा॥ 47 ते च ब्रह्मण आदेशान्मारिषामुपयेमिरे। यस्यां महदवज्ञानादजन्यजनयोनिजः॥ 48 चाक्षुषे त्वन्तरे प्राप्ते प्राक्सर्गे कालविद्रुते। यः ससर्ज प्रजा इष्टाः स दक्षो दैवचोदितः॥ 49 यो जायमानः सर्वेषां तेजस्तेजस्विनां रुचा। स्वयोपादत्त दाक्ष्याच्च कर्मणां दक्षमब्रुवन्॥ 50 तं प्रजासर्गरक्षायामनादिरभिषिच्य च। युयोज युयुजेऽन्यांश्च स वै सर्वप्रजापतीन्॥ 51 ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे त्रिंशोऽध्यायः ॥ 30
Tamil