header_image
Home
Tamil

चतुर्थः स्कन्ध ~:0:~ षोडशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: चतुर्थः स्कन्ध
अथ षोडशोऽध्यायः
मागधवन्दिजनकृतं महाराजपृथोः स्तवनम्
मैत्रेय उवाच इति ब्रुवाणं नृपतिं गायका मुनिचोदिताः। तुष्टुवुस्तुष्टमनसस्तद्वागमृतसेवया॥ 01 नालं वयं ते महिमानुवर्णने यो देववर्योऽवततार मायया। वेनाङ्गजातस्य च पौरुषाणि ते वाचस्पतीनामपि बभ्रमुर्धियः॥ 02 अथाप्युदारश्रवसः पृथोर्हरेः कलावतारस्य कथामृतादृताः। यथोपदेशं मुनिभिः प्रचोदिताः श्लाघ्यानि कर्माणि वयं वितन्महि॥ 03 एष धर्मभृतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन्। गोप्ता च धर्मसेतूनां शास्ता तत्परिपन्थिनाम्॥ 04 एष वै लोकपालानां बिभर्त्येकस्तनौ तनूः। काले काले यथाभागं लोकयोरुभयोर्हितम्॥ 05 वसु काल उपादत्ते काले चायं विमुञ्चति। समः सर्वेषु भूतेषु प्रतपन् सूर्यवद्विभुः॥ 06 तितिक्षत्यक्रमं वैन्य उपर्याक्रमतामपि। भूतानां करुणः शश्वदार्तानां क्षितिवृत्तिमान्॥ 07 देवेऽवर्षत्यसौ देवो नरदेववपुर्हरिः। कृच्छ्रप्राणाः प्रजा ह्येष रक्षिष्यत्यञ्जसेन्द्रवत्॥ 08 आप्याययत्यसौ लोकं वदनामृतमूर्तिना। सानुरागावलोकेन विशदस्मितचारुणा॥ 09 अव्यक्तवर्त्मैष निगूढकार्यो गम्भीरवेधा उपगुप्तवित्तः। अनन्तमाहात्म्यगुणैकधामा पृथुः प्रचेता इव संवृतात्मा॥ 10 दुरासदो दुर्विषह आसन्नोऽपि विदूरवत्। नैवाभिभवितुं शक्यो वेनारण्युत्थितोऽनलः॥ 11 अन्तर्बहिश्च भूतानां पश्यन् कर्माणि चारणैः। उदासीन इवाध्यक्षो वायुरात्मेव देहिनाम्॥ 12 नादण्ड्यं दण्डयत्येष सुतमात्मद्विषामपि। दण्डयत्यात्मजमपि दण्ड्यं धर्मपथे स्थितः॥ 13 अस्याप्रतिहतं चक्रं पृथोरामानसाचलात्। वर्तते भगवानर्को यावत्तपति गोगणैः॥ 14 रञ्जयिष्यति यल्लोकमयमात्मविचेष्टितैः। अथामुमाहू राजानं मनोरञ्जनकैः प्रजाः॥ 15 दृढव्रतः सत्यसन्धो ब्रह्मण्यो वृद्धसेवकः। शरण्यः सर्वभूतानां मानदो दीनवत्सलः॥ 16 मातृभक्तिः परस्त्रीषु पत्न्यामर्ध इवात्मनः। प्रजासु पितृवत्स्निग्धः किङ्करो ब्रह्मवादिनाम्॥ 17 देहिनामात्मवत्प्रेष्ठः सुहृदां नन्दिवर्धनः। मुक्तसङ्गप्रसङ्गोऽयं दण्डपाणिरसाधुषु॥ 18 अयं तु साक्षाद्भगवांस्त्र्यधीशः कूटस्थ आत्मा कलयावतीर्णः। यस्मिन्नविद्यारचितं निरर्थकं पश्यन्ति नानात्वमपि प्रतीतम्॥ 19 अयं भुवो मण्डलमोदयाद्रेः गोप्तैकवीरो नरदेवनाथः। आस्थाय जैत्रं रथमात्तचापः पर्यस्यते दक्षिणतो यथार्कः॥ 20 अस्मै नृपालाः किल तत्र तत्र बलिं हरिष्यन्ति सलोकपालाः। मंस्यन्त एषां स्त्रिय आदिराजं चक्रायुधं तद्यश उद्धरन्त्यः॥ 21 अयं महीं गां दुदुहेऽधिराजः प्रजापतिर्वृत्तिकरः प्रजानाम्। यो लीलयाद्रीन् स्वशरासकोट्या भिन्दन् समां गामकरोद्यथेन्द्रः॥ 22 विस्फूर्जयन्नाजगवं धनुः स्वयं यदाचरत्क्ष्मामविषह्यमाजौ। तदा निलिल्युर्दिशि दिश्यसन्तो लाङ्गूलमुद्यम्य यथा मृगेन्द्रः॥ 23 एषोऽश्वमेधान् शतमाजहार सरस्वती प्रादुरभावि यत्र। अहार्षीद्यस्य हयं पुरन्दरः शतक्रतुश्चरमे वर्तमाने॥ 24 एष स्वसद्मोपवने समेत्य सनत्कुमारं भगवन्तमेकम्। आराध्य भक्त्या लभतामलं तद् ज्ञानं यतो ब्रह्म परं विदन्ति॥ 25 तत्र तत्र गिरस्तास्ता इति विश्रुतविक्रमः। श्रोष्यत्यात्माश्रिता गाथाः पृथुः पृथुपराक्रमः॥ 26 दिशो विजित्याप्रतिरुद्धचक्रः स्वतेजसोत्पाटितलोकशल्यः। सुरासुरेन्द्रैरुपगीयमान- महानुभावो भविता पतिर्भुवः॥ 27 ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे षोडशोऽध्याय: ॥ 16
Tamil