श्रीमद्भागवतमहापुराणम् :: चतुर्थः स्कन्ध
अथ पञ्चमोऽध्यायः
वीरभद्रकृतयज्ञविध्वंसः, दक्षवधश्च
मैत्रेय उवाच
भवो भवान्या निधनं प्रजापतेः
असत्कृताया अवगम्य नारदात्।
स्वपार्षदसैन्यं च तदध्वरर्भुभिः
विद्रावितं क्रोधमपारमादधे॥ 01
क्रुद्धः सुदष्टोष्ठपुटः स धूर्जटिः
जटां तडिद्वह्निसटोग्ररोचिषम्।
उत्कृत्य रुद्रः सहसोत्थितो हसन्
गम्भीरनादो विससर्ज तां भुवि॥ 02
ततोऽतिकायस्तनुवा स्पृशन्दिवं
सहस्रबाहुर्घनरुक् त्रिसूर्यदृक्।
करालदंष्ट्रो ज्वलदग्निमूर्धजः
कपालमाली विविधोद्यतायुधः॥ 03
तं किं करोमीति गृणन्तमाह
बद्धाञ्जलिं भगवान् भूतनाथः।
दक्षं सयज्ञं जहि मद्भटानां
त्वमग्रणी रुद्र भटांशको मे॥ 04
आज्ञप्त एवं कुपितेन मन्युना
स देवदेवं परिचक्रमे विभुम्।
मेने तदाऽऽत्मानमसङ्गरंहसा
महीयसां तात सहः सहिष्णुम्॥ 05
अन्वीयमानः स तु रुद्रपार्षदैः
भृशं नदद्भिर्व्यनदत्सुभैरवम्।
उद्यम्य शूलं जगदन्तकान्तकं
स प्राद्रवद् घोषणभूषणाङ्घ्रिः॥ 06
अथर्त्विजो यजमानः सदस्याः
ककुभ्युदीच्यां प्रसमीक्ष्य रेणुम्।
तमः किमेतत्कुत एतद्रजोऽभू
दिति द्विजा द्विजपत्न्यश्च दध्युः॥ 07
वाता न वान्ति न हि सन्ति दस्यवः
प्राचीनबर्हिर्जीवति होग्रदण्डः।
गावो न काल्यन्त इदं कुतो रजो
लोकोऽधुना किं प्रलयाय कल्पते॥ 08
प्रसूतिमिश्राः स्त्रिय उद्विग्नचित्ता
ऊचुर्विपाको वृजिनस्यैव तस्य।
यत्पश्यन्तीनां दुहितॄणां प्रजेशः
सुतां सतीमवदध्यावनागाम्॥ 09
यस्त्वन्तकाले व्युप्तजटाकलापः
स्वशूलसूच्यर्पितदिग्गजेन्द्रः।
वितत्य नृत्यत्युदितास्त्रदोर्ध्वजान्
उच्चाट्टहासस्तनयित्नुभिन्नदिक्॥ 10
अमर्षयित्वा तमसह्यतेजसं
मन्युप्लुतं दुर्विषहं भ्रुकुट्या।
करालदंष्ट्राभिरुदस्तभागणं
स्यात्स्वस्ति किं कोपयतो विधातुः॥ 11
बह्वेवमुद्विग्नदृशोच्यमाने
जनेन दक्षस्य मुहुर्महात्मनः।
उत्पेतुरुत्पाततमाः सहस्रशो
भयावहा दिवि भूमौ च पर्यक्॥ 12
तावत्स रुद्रानुचरैर्मखो महान्
नानायुधैर्वामनकैरुदायुधैः।
पिङ्गैः पिशङ्गैर्मकरोदराननैः
पर्याद्रवद्भिर्विदुरान्वरुध्यत॥ 13
केचिद्बभञ्जुः प्राग्वंशं पत्नीशालां तथापरे।
सद आग्नीध्रशालां च तद्विहारं महानसम्॥ 14
रुरुजुर्यज्ञपात्राणि तथैकेऽग्नीननाशयन्।
कुण्डेष्वमूत्रयन् केचिद्बिभिदुर्वेदिमेखलाः॥ 15
अबाधन्त मुनीनन्ये एके पत्नीरतर्जयन्।
अपरे जगृहुर्देवान् प्रत्यासन्नान् पलायितान्॥ 16
भृगुं बबन्ध मणिमान् वीरभद्रः प्रजापतिम्।
चण्डेशः पूषणं देवं भगं नन्दीश्वरोऽग्रहीत्॥ 17
सर्व एवर्त्विजो दृष्ट्वा सदस्याः सदिवौकसः।
तैरर्द्यमानाः सुभृशं ग्रावभिर्नैकधाद्रवन्॥ 18
जुह्वतः स्रुवहस्तस्य श्मश्रूणि भगवान् भवः।
भृगोर्लुलुञ्चे सदसि योऽहसच्छ्मश्रु दर्शयन्॥ 19
भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि।
उज्जहार सदःस्थोऽक्ष्णा यः शपन्तमसूसुचत्॥ 20
पूष्णश्चापातयद्दन्तान् कालिङ्गस्य यथा बलः।
शप्यमाने गरिमणि योऽहसद्दर्शयन्दतः॥ 21
आक्रम्योरसि दक्षस्य शितधारेण हेतिना।
छिन्दन्नपि तदुद्धर्तुं नाशक्नोत् त्र्यम्बकस्तदा॥ 22
शस्त्रैरस्त्रान्वितैरेवमनिर्भिन्नत्वचं हरः।
विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम्॥ 23
दृष्ट्वा सञ्ज्ञपनं योगं पशूनां स पतिर्मखे।
यजमानपशोः कस्य कायात्तेनाहरच्छिरः॥ 24
साधुवादस्तदा तेषां कर्म तत्तस्य शंसताम्।
भूतप्रेतपिशाचानामन्येषां तद्विपर्ययः॥ 25
जुहावैतच्छिरस्तस्मिन्दक्षिणाग्नावमर्षितः।
तद्देवयजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम्॥ 26
॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे दक्षयज्ञविध्वंसो नाम पञ्चमोऽध्यायः ॥ 5