header_image
Home
Tamil

तृतीयः स्कन्ध ~:०:~ अथाष्टमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: तृतीयः स्कन्ध
अथाष्टमोऽध्यायः
विष्णोर्नाभिकमलाद्ब्रह्मोत्पत्तिवर्णनम्
मैत्रेय उवाच सत्सेवनीयो बत पूरुवंशो यल्लोकपालो भगवत्प्रधानः। बभूविथेहाजितकीर्तिमालां पदे पदे नूतनयस्यभीक्ष्णम्॥ 1 सोऽहं नृणां क्षुल्लसुखाय दुःखं महद्गतानां विरमाय तस्य। प्रवर्तये भागवतं पुराणं यदाह साक्षाद्भगवानृषिभ्यः॥ 2 आसीनमुर्व्यां भगवन्तमाद्यं सङ्कर्षणं देवमकुण्ठसत्त्वम्। विवित्सवस्तत्त्वमतः परस्य कुमारमुख्या मुनयोऽन्वपृच्छन्॥ 3 स्वमेव धिष्ण्यं बहु मानयन्तं यं वासुदेवाभिधमामनन्ति। प्रत्यग्धृताक्षाम्बुजकोशमीष- दुन्मीलयन्तं विबुधोदयाय॥ 4 स्वर्धुन्युदार्द्रैः स्वजटाकलापै- रुपस्पृशन्तश्चरणोपधानम्। पद्मं यदर्चन्त्यहिराजकन्याः सप्रेम नाना बलिभिर्वरार्थाः॥ 5 मुहुर्गृणन्तो वचसानुराग स्खलत्पदेनास्य कृतानि तज्ज्ञाः। किरीटसाहस्रमणिप्रवेक प्रद्योतितोद्दामफणासहस्रम्॥ 6 प्रोक्तं किलैतद्भगवत्तमेन निवृत्तिधर्माभिरताय तेन। सनत्कुमाराय स चाह पृष्टः साङ्ख्यायनायाङ्ग धृतव्रताय॥ 7 साङ्ख्यायनः पारमहंस्यमुख्यो विवक्षमाणो भगवद्विभूतीः। जगाद सोऽस्मद्गुरवेऽन्विताय पराशरायाथ बृहस्पतेश्च॥ 8 प्रोवाच मह्यं स दयालुरुक्तो मुनिः पुलस्त्येन पुराणमाद्यम्। सोऽहं तवैतत्कथयामि वत्स श्रद्धालवे नित्यमनुव्रताय॥ 9 उदाप्लुतं विश्वमिदं तदाऽऽसीद् यन्निद्रयामीलितदृङ् न्यमीलयत्। अहीन्द्रतल्पेऽधिशयान एकः कृतक्षणः स्वात्मरतौ निरीहः॥ 10 सोऽन्तः शरीरेऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिमुदीरयाणः। उवास तस्मिन् सलिले पदे स्वे यथानलो दारुणि रुद्धवीर्यः॥ 11 चतुर्युगानां च सहस्रमप्सु स्वपन् स्वयोदीरितया स्वशक्त्या। कालाख्ययाऽऽसादितकर्मतन्त्रो लोकानपीतान्ददृशे स्वदेहे॥ 12 तस्यार्थसूक्ष्माभिनिविष्टदृष्टे- रन्तर्गतोऽर्थो रजसा तनीयान्। गुणेन कालानुगतेन विद्धः सूष्यंस्तदाभिद्यत नाभिदेशात्॥ 13 स पद्मकोशः सहसोदतिष्ठत् कालेन कर्मप्रतिबोधनेन। स्वरोचिषा तत्सलिलं विशालं विद्योतयन्नर्क इवात्मयोनिः॥ 14 तल्लोकपद्मं स उ एव विष्णुः प्रावीविशत्सर्वगुणावभासम्। तस्मिन् स्वयं वेदमयो विधाता स्वयम्भुवं यं स्म वदन्ति सोऽभूत्॥ 15 तस्यां स चाम्भोरुहकर्णिकाया- मवस्थितो लोकमपश्यमानः। परिक्रमन् व्योम्नि विवृत्तनेत्र- श्चत्वारि लेभेऽनुदिशं मुखानि॥ 16 तस्माद्युगान्तश्वसनावघूर्ण- जलोर्मिचक्रात्सलिलाद्विरूढम्। उपाश्रितः कञ्जमु लोकतत्त्वं नात्मानमद्धाविददादिदेवः॥ 17 क एष योऽसावहमब्जपृष्ठ एतत्कुतो वाब्जमनन्यदप्सु। अस्ति ह्यधस्तादिह किञ्चनैत- दधिष्ठितं यत्र सता नु भाव्यम्॥ 18 स इत्थमुद्वीक्ष्य तदब्जनाल- नाडीभिरन्तर्जलमाविवेश। नार्वाग्गतस्तत्खरनालनाल- नाभिं विचिन्वंस्तदविन्दताजः॥ 19 तमस्यपारे विदुरात्मसर्गं विचिन्वतोऽभूत्सुमहांस्त्रिणेमिः। यो देहभाजां भयमीरयाणः परिक्षिणोत्यायुरजस्य हेतिः॥ 20 ततो निवृत्तोऽप्रतिलब्धकामः स्वधिष्ण्यमासाद्य पुनः स देवः। शनैर्जितश्वासनिवृत्तचित्तो न्यषीददारूढसमाधियोगः॥ 21 कालेन सोऽजः पुरुषायुषाभि- प्रवृत्तयोगेन विरूढबोधः। स्वयं तदन्तर्हृदयेऽवभात- मपश्यतापश्यत यन्न पूर्वम्॥ 22 मृणालगौरायतशेषभोग- पर्यङ्क एकं पुरुषं शयानम्। फणातपत्रायुतमूर्धरत्न- द्युभिर्हतध्वान्तयुगान्ततोये॥ 23 प्रेक्षां क्षिपन्तं हरितोपलाद्रेः सन्ध्याभ्रनीवेरुरुरुक्ममूर्ध्नः। रत्नोदधारौषधिसौमनस्य- वनस्रजो वेणुभुजाङ्घ्रिपाङ्घ्रेः॥ 24 आयामतो विस्तरतः स्वमान- देहेन लोकत्रयसङ्ग्रहेण। विचित्रदिव्याभरणांशुकानां कृतश्रियापाश्रितवेषदेहम्॥ 25 पुंसां स्वकामाय विविक्तमार्गै- रभ्यर्चतां कामदुघाङ्घ्रिपद्मम्। प्रदर्शयन्तं कृपया नखेन्दु- मयूखभिन्नाङ्गुलिचारुपत्रम्॥ 26 मुखेन लोकार्तिहरस्मितेन परिस्फुरत्कुण्डलमण्डितेन। शोणायितेनाधरबिम्बभासा प्रत्यर्हयन्तं सुनसेन सुभ्र्वा॥ 27 कदम्बकिञ्जल्कपिशङ्गवाससा स्वलङ्कृतं मेखलया नितम्बे। हारेण चानन्तधनेन वत्स श्रीवत्सवक्षःस्थलवल्लभेन॥ 28 परार्ध्यकेयूरमणिप्रवेक पर्यस्तदोर्दण्डसहस्रशाखम्। अव्यक्तमूलं भुवनाङ्घ्रिपेन्द्र- महीन्द्रभोगैरधिवीतवल्शम्॥ 29 चराचरौको भगवन्महीध्र- महीन्द्रबन्धुं सलिलोपगूढम्। किरीटसाहस्रहिरण्यशृङ्ग- माविर्भवत्कौस्तुभरत्नगर्भम्॥ 30 निवीतमाम्नायमधुव्रतश्रिया स्वकीर्तिमय्या वनमालया हरिम्। सूर्येन्दुवाय्वग्न्यगमं त्रिधामभिः परिक्रमत्प्राधनिकैर्दुरासदम्॥ 31 तर्ह्येव तन्नाभिसरःसरोज- मात्मानमम्भः श्वसनं वियच्च। ददर्श देवो जगतो विधाता नातः परं लोकविसर्गदृष्टिः॥ 32 स कर्मबीजं रजसोपरक्तः प्रजाः सिसृक्षन्नियदेव दृष्ट्वा। अस्तौद्विसर्गाभिमुखस्तमीड्य- मव्यक्तवर्त्मन्यभिवेशितात्मा॥ 33 ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धेऽष्टमोऽध्यायः ॥ 8
Tamil