header_image
Home
Tamil

तृतीयः स्कन्ध ~:०:~ अथाष्टाविंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: तृतीयः स्कन्ध
अथाष्टाविंशोऽध्यायः
सबीजयोगलक्षणं सगुणस्य भगवतः पृथगवयवध्यानवर्णनम् च
श्रीभगवानुवाच योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे। मनो येनैव विधिना प्रसन्नं याति सत्पथम्॥ 1 स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम्। दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्चनम्॥ 2 ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा। मितमेध्यादनं शश्वद्विविक्तक्षेमसेवनम्॥ 3 अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः। ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम्॥ 4 मौनं सदाऽऽसनजयः स्थैर्यं प्राणजयः शनैः। प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि॥ 5 स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणम्। वैकुण्ठलीलाभिध्यानं समाधानं तथाऽऽत्मनः॥ 6 एतैरन्यैश्च पथिभिर्मनो दुष्टमसत्पथम्। बुद्ध्या युञ्जीत शनकैर्जितप्राणो ह्यतन्द्रितः॥ 7 शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम्। तस्मिन् स्वस्ति समासीन ऋजुकायः समभ्यसेत्॥ 8 प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः। प्रतिकूलेन वा चित्तं यथा स्थिरमचञ्चलम्॥ 9 मनोऽचिरात्स्याद्विरजं जितश्वासस्य योगिनः। वाय्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम्॥ 10 प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषान्। प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान् गुणान्॥ 11 यदा मनः स्वं विरजं योगेन सुसमाहितम्। काष्ठां भगवतो ध्यायेत्स्वनासाग्रावलोकनः॥ 12 प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम्। नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम्॥ 13 लसत्पङ्कजकिञ्जल्क पीतकौशेयवाससम्। श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम्॥ 14 मत्तद्विरेफकलया परीतं वनमालया। परार्ध्यहारवलय किरीटाङ्गदनूपुरम्॥ 15 काञ्चीगुणोल्लसच्छ्रोणिं हृदयाम्भोजविष्टरम्। दर्शनीयतमं शान्तं मनोनयनवर्धनम्॥ 16 अपीच्यदर्शनं शश्वत्सर्वलोकनमस्कृतम्। सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम्॥ 17 कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम्। ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मनः॥ 18 स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम्। प्रेक्षणीयेहितं ध्यायेच्छुद्धभावेन चेतसा॥ 19 तस्मिँल्लब्धपदं चित्तं सर्वावयवसंस्थितम्। विलक्ष्यैकत्र संयुज्यादङ्गे भगवतो मुनिः॥ 20 सञ्चिन्तयेद्भगवतश्चरणारविन्दं वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम्। उत्तुङ्गरक्तविलसन्नखचक्रवाल- ज्योत्स्नाभिराहतमहद्धृदयान्धकारम्॥ 21 यच्छौचनिःसृतसरित्प्रवरोदकेन तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत्। ध्यातुर्मनःशमलशैलनिसृष्टवज्रं ध्यायेच्चिरं भगवतश्चरणारविन्दम्॥ 22 जानुद्वयं जलजलोचनया जनन्या लक्ष्म्याखिलस्य सुरवन्दितया विधातुः। ऊर्वोर्निधाय करपल्लवरोचिषा यत् संलालितं हृदि विभोरभवस्य कुर्यात्॥ 23 ऊरू सुपर्णभुजयोरधि शोभमाना- वोजोनिधी अतसिकाकुसुमावभासौ। व्यालम्बिपीतवरवाससि वर्तमान- काञ्चीकलापपरिरम्भि नितम्बबिम्बम्॥ 24 नाभिह्रदं भुवनकोशगुहोदरस्थं यत्रात्मयोनिधिषणाखिललोकपद्मम्। व्यूढं हरिन्मणिवृषस्तनयोरमुष्य ध्यायेद् दूयं विशदहारमयूखगौरम्॥ 25 वक्षोऽधिवासमृषभस्य महाविभूतेः पुंसां मनोनयननिर्वृतिमादधानम्। कण्ठं च कौस्तुभमणेरधिभूषणार्थं कुर्यान्मनस्यखिललोकनमस्कृतस्य॥ 26 बाहूंश्च मन्दरगिरेः परिवर्तनेन निर्णिक्तबाहुवलयानधिलोकपालान्। सञ्चिन्तयेद्दशशतारमसह्यतेजः शङ्खं च तत्करसरोरुहराजहंसम्॥ 27 कौमोदकीं भगवतो दयितां स्मरेत दिग्धामरातिभटशोणितकर्दमेन। मालां मधुव्रतवरूथगिरोपघुष्टां चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे॥ 28 भृत्यानुकम्पितधियेह गृहीतमूर्तेः सञ्चिन्तयेद्भगवतो वदनारविन्दम्। यद्विस्फुरन्मकरकुण्डलवल्गितेन विद्योतितामलकपोलमुदारनासम्॥ 29 यच्छ्रीनिकेतमलिभिः परिसेव्यमानं भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम्। मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रु॥ 30 तस्यावलोकमधिकं कृपयातिघोर- तापत्रयोपशमनाय निसृष्टमक्ष्णोः। स्निग्धस्मितानुगुणितं विपुलप्रसादं ध्यायेच्चिरं विपुलभावनया गुहायाम्॥ 31 हासं हरेरवनताखिललोकतीव्र- शोकाश्रुसागरविशोषणमत्युदारम्। सम्मोहनाय रचितं निजमाययास्य भ्रूमण्डलं मुनिकृते मकरध्वजस्य॥ 32 ध्यानायनं प्रहसितं बहुलाधरोष्ठ- भासारुणायिततनुद्विजकुन्दपङ्क्ति। ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णो- र्भक्त्याऽऽर्द्रयार्पितमना न पृथग्दिदृक्षेत्॥ 33 एवं हरौ भगवति प्रतिलब्धभावो भक्त्या द्रवद्धृदय उत्पुलकः प्रमोदात्। औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमान- स्तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते॥ 34 मुक्ताश्रयं यर्हि निर्विषयं विरक्तं निर्वाणमृच्छति मनः सहसा यथार्चिः। आत्मानमत्र पुरुषोऽव्यवधानमेक- मन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः॥ 35 सोऽप्येतया चरमया मनसो निवृत्त्या तस्मिन्महिम्न्यवसितः सुखदुःखबाह्ये। हेतुत्वमप्यसति कर्तरि दुःखयोर्यत् स्वात्मन् विधत्त उपलब्धपरात्मकाष्ठः॥ 36 देहं च तं न चरमः स्थितमुत्थितं वा सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम्। दैवादुपेतमथ दैववशादपेतं वासो यथा परिकृतं मदिरामदान्धः॥ 37 देहोऽपि दैववशगः खलु कर्म यावत् स्वारम्भकं प्रतिसमीक्षत एव सासुः। तं सप्रपञ्चमधिरूढसमाधियोगः स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः॥ 38 यथा पुत्राच्च वित्ताच्च पृथङ्मर्त्यः प्रतीयते। अप्यात्मत्वेनाभिमताद्देहादेः पुरुषस्तथा॥ 39 यथोल्मुकाद्विस्फुलिङ्गाद्धूमाद्वापि स्वसम्भवात्। अप्यात्मत्वेनाभिमताद्यथाग्निः पृथगुल्मुकात्॥ 40 भूतेन्द्रियान्तः करणात्प्रधानाज्जीवसञ्ज्ञितात्। आत्मा तथा पृथग्द्रष्टा भगवान् ब्रह्मसञ्ज्ञितः॥ 41 सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि। ईक्षेतानन्यभावेन भूतेष्विव तदात्मताम्॥ 42 स्वयोनिषु यथा ज्योतिरेकं नाना प्रतीयते। योनीनां गुणवैषम्यात्तथाऽऽत्मा प्रकृतौ स्थितः॥ 43 तस्मादिमां स्वां प्रकृतिं दैवीं सदसदात्मिकाम्। दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते॥ 44 ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेये साधनानुष्ठानं नामाष्टाविंशोऽध्यायः ॥ 28
Tamil