header_image
Home
Tamil

तृतीयः स्कन्ध ~:०:~ अथ सप्तविंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: तृतीयः स्कन्ध
अथ सप्तविंशोऽध्यायः
प्रकृतिपुरुषयोर्विवेकद्वारा मोक्षप्राप्तिवर्णनं भक्तियोगेन प्रकृतेस्तिरोधानकथनं च
श्रीभगवानुवाच प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैः। अविकारादकर्तृत्वान्निर्गुणत्वाज्जलार्कवत्॥ 1 स एष यर्हि प्रकृतेर्गुणेष्वभिविषज्जते। अहङ्क्रियाविमूढात्मा कर्तास्मीत्यभिमन्यते॥ 2 तेन संसारपदवीमवशोऽभ्येत्यनिर्वृतः। प्रासङ्गिकैः कर्मदोषैः सदसन्मिश्रयोनिषु॥ 3 अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते। ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा॥ 4 अत एव शनैश्चित्तं प्रसक्तमसतां पथि। भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम्॥ 5 यमादिभिर्योगपथैरभ्यसन् श्रद्धयान्वितः। मयि भावेन सत्येन मत्कथाश्रवणेन च॥ 6 सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गतः। ब्रह्मचर्येण मौनेन स्वधर्मेण बलीयसा॥ 7 यदृच्छयोपलब्धेन सन्तुष्टो मितभुङ् मुनिः। विविक्तशरणः शान्तो मैत्रः करुण आत्मवान्॥ 8 सानुबन्धे च देहेऽस्मिन्नकुर्वन्नसदाग्रहम्। ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य च॥ 9 निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः। उपलभ्यात्मनाऽऽत्मानं चक्षुषेवार्कमात्मदृक्॥ 10 मुक्तलिङ्गं सदाभासमसति प्रतिपद्यते। सतो बन्धुमसच्चक्षुः सर्वानुस्यूतमद्वयम्॥ 11 यथा जलस्थ आभासः स्थलस्थेनावदृश्यते। स्वाभासेन तथा सूर्यो जलस्थेन दिवि स्थितः॥ 12 एवं त्रिवृदहङ्कारो भूतेन्द्रियमनोमयैः। स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यदृक्॥ 13 भूतसूक्ष्मेन्द्रियमनो बुद्ध्यादिष्विह निद्रया। लीनेष्वसति यस्तत्र विनिद्रो निरहङ्क्रियः॥ 14 मन्यमानस्तदाऽऽत्मानमनष्टो नष्टवन्मृषा। नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुरः॥ 15 एवं प्रत्यवमृश्यासावात्मानं प्रतिपद्यते। साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः॥ 16 देवहूतिरुवाच पुरुषं प्रकृतिर्ब्रह्मन्न विमुञ्चति कर्हिचित्। अन्योन्यापाश्रयत्वाच्च नित्यत्वादनयोः प्रभो॥ 17 यथा गन्धस्य भूमेश्च न भावो व्यतिरेकतः। अपां रसस्य च यथा तथा बुद्धेः परस्य च॥ 18 अकर्तुः कर्मबन्धोऽयं पुरुषस्य यदाश्रयः। गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्वतः कथम्॥ 19 क्वचित् तत्त्वावमर्शेन निवृत्तं भयमुल्बणम्। अनिवृत्तनिमित्तत्वात्पुनः प्रत्यवतिष्ठते॥ 20 श्रीभगवानुवाच अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना। तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम्॥ 21 ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा। तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना॥ 22 प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम्। तिरोभवित्री शनकैरग्नेर्योनिरिवारणिः॥ 23 भुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यशः। नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च॥ 24 यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत्। स एव प्रतिबुद्धस्य न वै मोहाय कल्पते॥ 25 एवं विदिततत्त्वस्य प्रकृतिर्मयि मानसम्। युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित्॥ 26 यदैवमध्यात्मरतः कालेन बहुजन्मना। सर्वत्र जातवैराग्य आब्रह्मभुवनान्मुनिः॥ 27 मद्भक्तः प्रतिबुद्धार्थो मत्प्रसादेन भूयसा। निःश्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम्॥ 28 प्राप्नोतीहाञ्जसा धीरः स्वदृशा छिन्नसंशयः। यद्गत्वा न निवर्तेत योगी लिङ्गाद्विनिर्गमे॥ 29 यदा न योगोपचितासु चेतो मायासु सिद्धस्य विषज्जतेऽङ्ग। अनन्यहेतुष्वथ मे गतिः स्याद् आत्यन्तिकी यत्र न मृत्युहासः॥ 30 ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने सप्तविंशोऽध्यायः ॥27
Tamil