header_image
Home
Tamil

तृतीयः स्कन्ध ~:०:~ अथ षड्विंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: तृतीयः स्कन्ध
अथ षड्विंशोऽध्यायः
महदादितत्त्वानामुत्पत्तिनिरूपणं सद्धर्मवर्णनं च
श्रीभगवानुवाच अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक्। यद्विदित्वा विमुच्येत पुरुषः प्राकृतैर्गुणैः॥ 1 ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्मदर्शनम्। यदाहुर्वर्णये तत्ते हृदयग्रन्थिभेदनम्॥ 2 अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः। प्रत्यग्धामा स्वयञ्ज्योतिर्विश्वं येन समन्वितम्॥ 3 स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः। यदृच्छयैवोपगतामभ्यपद्यत लीलया॥ 4 गुणैर्विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः। विलोक्य मुमुहे सद्यः स इह ज्ञानगूहया॥ 5 एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान्। कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते॥ 6 तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम्। भवत्यकर्तुरीशस्य साक्षिणो निर्वृतात्मनः॥ 7 कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः। भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम्॥ 8 देवहूतिरुवाच प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम। ब्रूहि कारणयोरस्य सदसच्च यदात्मकम्॥ 9 श्रीभगवानुवाच यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम्। प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत्॥ 10 पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः॥ 11 महाभूतानि पञ्चैव भूरापोऽग्निर्मरुन्नभः। तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे॥ 12 इन्द्रियाणि दश श्रोत्रं त्वग्दृग्रसननासिकाः। वाक्करौ चरणौ मेढ्रं पायुर्दशम उच्यते॥ 13 मनो बुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम्। चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया॥ 14 एतावानेव सङ्ख्यातो ब्रह्मणः सगुणस्य ह। सन्निवेशो मया प्रोक्तो यः कालः पञ्चविंशकः॥ 15 प्रभावं पौरुषं प्राहुः कालमेके यतो भयम्। अहङ्कारविमूढस्य कर्तुः प्रकृतिमीयुषः॥ 16 प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवि। चेष्टा यतः स भगवान् काल इत्युपलक्षितः॥ 17 अन्तः पुरुषरूपेण कालरूपेण यो बहिः। समन्वेत्येष सत्त्वानां भगवानात्ममायया॥ 18 दैवात्क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान्। आधत्त वीर्यं सासूत महत्तत्त्वं हिरण्मयम्॥ 19 विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्कुरः। स्वतेजसापिबत्तीव्रमात्मप्रस्वापनं तमः॥ 20 यत्तत्सत्त्वगुणं स्वच्छं शान्तं भगवतः पदम्। यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम्॥ 21 स्वच्छत्वमविकारित्वं शान्तत्वमिति चेतसः। वृत्तिभिर्लक्षणं प्रोक्तं यथापां प्रकृतिः परा॥ 22 महत्तत्त्वाद्विकुर्वाणाद्भगवद्वीर्यसम्भवात्। क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत॥ 23 वैकारिकस्तैजसश्च तामसश्च यतो भवः। मनसश्चेन्द्रियाणां च भूतानां महतामपि॥ 24 सहस्रशिरसं साक्षाद्यमनन्तं प्रचक्षते। सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम्॥ 25 कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम्। शान्तघोरविमूढत्वमिति वा स्यादहङ्कृतेः॥ 26 वैकारिकाद्विकुर्वाणान्मनस्तत्त्वमजायत। यत्सङ्कल्पविकल्पाभ्यां वर्तते कामसम्भवः॥ 27 यद्विदुर्ह्यनिरुद्धाख्यं हृषीकाणामधीश्वरम्। शारदेन्दीवरश्यामं संराध्यं योगिभिः शनैः॥ 28 तैजसात्तु विकुर्वाणाद् बुद्धितत्त्वमभूत्सति। द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रहः॥ 29 संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च। स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक्॥ 30 तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागशः। प्राणस्य हि क्रिया शक्तिर्बुद्धेर्विज्ञानशक्तिता॥ 31 तामसाच्च विकुर्वाणाद्भगवद्वीर्यचोदितात्। शब्दमात्रमभूत्तस्मान्नभः श्रोत्रं तु शब्दगम्॥ 32 अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च। तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः॥ 33 भूतानां छिद्रदातृत्वं बहिरन्तरमेव च। प्राणेन्द्रियात्मधिष्ण्यत्वं नभसो वृत्तिलक्षणम्॥ 34 नभसः शब्दतन्मात्रात्कालगत्या विकुर्वतः। स्पर्शोऽभवत्ततो वायुस्त्वक् स्पर्शस्य च सङ्ग्रहः॥ 35 मृदुत्वं कठिनत्वं च शैत्यमुष्णत्वमेव च। एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वतः॥ 36 चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः। सर्वेन्द्रियाणामात्मत्वं वायोः कर्माभिलक्षणम्॥ 37 वायोश्च स्पर्शतन्मात्राद्रूपं दैवेरितादभूत्। समुत्थितं ततस्तेजश्चक्षू रूपोपलम्भनम्॥ 38 द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च। तेजस्त्वं तेजसः साध्वि रूपमात्रस्य वृत्तयः॥ 39 द्योतनं पचनं पानमदनं हिममर्दनम्। तेजसो वृत्तयस्त्वेताः शोषणं क्षुत्तृडेव च॥ 40 रूपमात्राद्विकुर्वाणात्तेजसो दैवचोदितात्। रसमात्रमभूत्तस्मादम्भो जिह्वा रसग्रहः॥ 41 कषायो मधुरस्तिक्तः कट्वम्ल इति नैकधा। भौतिकानां विकारेण रस एको विभिद्यते॥ 42 क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम्। तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः॥ 43 रसमात्राद्विकुर्वाणादम्भसो दैवचोदितात्। गन्धमात्रमभूत्तस्मात्पृथ्वी घ्राणस्तु गन्धगः॥ 44 करम्भपूतिसौरभ्य शान्तोग्राम्लादिभिः पृथक्। द्रव्यावयववैषम्याद्गन्ध एको विभिद्यते॥ 45 भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम्। सर्वसत्त्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम्॥ 46 नभोगुणविशेषोऽर्थो यस्य तच्छ्रोत्रमुच्यते। वायोर्गुणविशेषोऽर्थो यस्य तत्स्पर्शनं विदुः॥ 47 तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते। अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदुः। भूमेर्गुणविशेषोऽर्थो यस्य स घ्राण उच्यते॥ 48 परस्य दृश्यते धर्मो ह्यपरस्मिन्समन्वयात्। अतो विशेषो भावानां भूमावेवोपलक्ष्यते॥ 49 एतान्यसंहत्य यदा महदादीनि सप्त वै। कालकर्मगुणोपेतो जगदादिरुपाविशत्॥ 50 ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डमचेतनम्। उत्थितं पुरुषो यस्मादुदतिष्ठदसौ विराट्॥ 51 एतदण्डं विशेषाख्यं क्रमवृद्धैर्दशोत्तरैः। तोयादिभिः परिवृतं प्रधानेनावृतैर्बहिः। यत्र लोकवितानोऽयं रूपं भगवतो हरेः॥ 52 हिरण्मयादण्डकोशादुत्थाय सलिले शयात्। तमाविश्य महादेवो बहुधा निर्बिभेद खम्॥ 53 निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत्। वाण्या वह्निरथो नासे प्राणोतो घ्राण एतयोः॥ 54 घ्राणाद्वायुरभिद्येतामक्षिणी चक्षुरेतयोः। तस्मात्सूर्यो व्यभिद्येतां कर्णौ श्रोत्रं ततो दिशः॥ 55 निर्बिभेद विराजस्त्वग् रोमश्मश्र्वादयस्ततः। तत ओषधयश्चासन् शिश्नं निर्बिभिदे ततः॥ 56 रेतस्तस्मादाप आसन्निरभिद्यत वै गुदम्। गुदादपानोऽपानाच्च मृत्युर्लोकभयङ्करः॥ 57 हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट्। पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः॥ 58 नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितमाभृतम्। नद्यस्ततः समभवन्नुदरं निरभिद्यत॥ 59 क्षुत्पिपासे ततः स्यातां समुद्रस्त्वेतयोरभूत्। अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम्॥ 60 मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरां पतिः। अहङ्कारस्ततो रुद्रश्चित्तं चैत्यस्ततोऽभवत्॥ 61 एते ह्यभ्युत्थिता देवा नैवास्योत्थापनेऽशकन्। पुनराविविशुः खानि तमुत्थापयितुं क्रमात्॥ 62 वह्निर्वाचा मुखं भेजे नोदतिष्ठत्तदा विराट्। घ्राणेन नासिके वायुर्नोदतिष्ठत्तदा विराट्॥ 63 अक्षिणी चक्षुषाऽऽदित्यो नोदतिष्ठत्तदा विराट्। श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत्तदा विराट्॥ 64 त्वचं रोमभिरोषध्यो नोदतिष्ठत्तदा विराट्। रेतसा शिश्नमापस्तु नोदतिष्ठत्तदा विराट्॥ 65 गुदं मृत्युरपानेन नोदतिष्ठत्तदा विराट्। हस्ताविन्द्रो बलेनैव नोदतिष्ठत्तदा विराट्॥ 66 विष्णुर्गत्यैव चरणौ नोदतिष्ठत्तदा विराट्। नाडीर्नद्यो लोहितेन नोदतिष्ठत्तदा विराट्॥ 67 क्षुत्तृड्भ्यामुदरं सिन्धुर्नोदतिष्ठत्तदा विराट्। हृदयं मनसा चन्द्रो नोदतिष्ठत्तदा विराट्॥ 68 बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत्तदा विराट्। रुद्रोऽभिमत्या हृदयं नोदतिष्ठत्तदा विराट्॥ 69 चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद्यदा। विराट् तदैव पुरुषः सलिलादुदतिष्ठत॥ 70 यथा प्रसुप्तं पुरुषं प्राणेन्द्रियमनोधियः। प्रभवन्ति विना येन नोत्थापयितुमोजसा॥ 71 तमस्मिन् प्रत्यगात्मानं धिया योगप्रवृत्तया। भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत्॥ 72 ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेये तत्त्वसमाम्नाये षड्विंशोऽध्यायः ॥26
Tamil