header_image
Home
Tamil

तृतीयः स्कन्ध ~:०:~ अथ दशमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: तृतीयः स्कन्ध
अथ दशमोऽध्यायः
दशाविधसृष्टिवर्णनम्
विदुर उवाच अन्तर्हिते भगवति ब्रह्मा लोकपितामहः। प्रजाः ससर्ज कतिधा दैहिकीर्मानसीर्विभुः॥ 1 ये च मे भगवन् पृष्टास्त्वय्यर्था बहुवित्तम। तान् वदस्वानुपूर्व्येण छिन्धि नः सर्वसंशयान्॥ 2 सूत उवाच एवं सञ्चोदितस्तेन क्षत्त्रा कौषारवो मुनिः। प्रीतः प्रत्याह तान् प्रश्नान् हृदिस्थानथ भार्गव॥ 3 मैत्रेय उवाच विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः। आत्मन्यात्मानमावेश्य यथाह भगवानजः॥ 4 तद्विलोक्याब्जसम्भूतो वायुना यदधिष्ठितः। पद्ममम्भश्च तत्काल कृतवीर्येण कम्पितम्॥ 5 तपसा ह्येधमानेन विद्यया चात्मसंस्थया। विवृद्धविज्ञानबलो न्यपाद् वायुं सहाम्भसा॥ 6 तद्विलोक्य वियद्व्यापि पुष्करं यदधिष्ठितम्। अनेन लोकान् प्राग्लीनान् कल्पितास्मीत्यचिन्तयत्॥ 7 पद्मकोशं तदाऽऽविश्य भगवत्कर्मचोदितः। एकं व्यभाङ्क्षीदुरुधा त्रिधा भाव्यं द्विसप्तधा॥ 8 एतावाञ्जीवलोकस्य संस्थाभेदः समाहृतः। धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठ्यसौ॥ 9 विदुर उवाच यथात्थ बहुरूपस्य हरेरद्भुतकर्मणः। कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो॥ 10 मैत्रेय उवाच गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः। पुरुषस्तदुपादानमात्मानं लीलयासृजत्॥ 11 विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया। ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना॥ 12 यथेदानीं तथाग्रे च पश्चादप्येतदीदृशम्। सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः॥ 13 कालद्रव्यगुणैरस्य त्रिविधः प्रतिसङ्क्रमः। आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः॥ 14 द्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयः। भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान्॥ 15 चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः। वैकारिको देवसर्गः पञ्चमो यन्मयं मनः॥ 16 षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः। षडिमे प्राकृताः सर्गा वैकृतानपि मे शृणु॥ 17 रजोभाजो भगवतो लीलेयं हरिमेधसः। सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां च यः॥ 18 वनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाः। उत्स्रोतसस्तमः प्राया अन्तःस्पर्शा विशेषिणः॥ 19 तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः। अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः॥ 20 गौरजो महिषः कृष्णः सूकरो गवयो रुरुः। द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम॥ 21 खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा। एते चैकशफाः क्षत्तः शृणु पञ्चनखान् पशून्॥ 22 श्वा सृगालो वृको व्याघ्रो मार्जारः शशशल्लकौ। सिंहः कपिर्गजः कूर्मो गोधा च मकरादयः॥ 23 कङ्कगृध्रवटश्येन भासभल्लूकबर्हिणः। हंससारसचक्राह्व काकोलूकादयः खगाः॥ 24 अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम्। रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः॥ 25 वैकृतास्त्रय एवैते देवसर्गश्च सत्तम। वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः॥ 26 देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः। गन्धर्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः॥ 27 भूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयः। दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः॥ 28 अतः परं प्रवक्ष्यामि वंशान्मन्वन्तराणि च। एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः। सृजत्यमोघसङ्कल्प आत्मैवात्मानमात्मना॥ 29 ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे दशमोऽध्यायः ॥ 10
Tamil