header_image
Home
Tamil

तृतीयः स्कन्ध ~:०:~ अथैकादशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: तृतीयः स्कन्ध
अथैकादशोऽध्यायः
मन्वन्तरादिकालपरिमाणनिरूपणं मनुष्य देवाद्यायुषो वर्णनं च
मैत्रेय उवाच चरमः सद्विशेषाणामनेकोऽसंयुतः सदा। परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः॥ 1 सत एव पदार्थस्य स्वरूपावस्थितस्य यत्। कैवल्यं परममहानविशेषो निरन्तरः॥ 2 एवं कालोऽप्यनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम। संस्थानभुक्त्या भगवानव्यक्तो व्यक्तभुग्विभुः॥ 3 स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम्। सतोऽविशेषभुग्यस्तु स कालः परमो महान्॥ 4 अणुर्द्वौ परमाणू स्यात्त्रसरेणुस्त्रयः स्मृतः। जालार्करश्म्यवगतः खमेवानुपतन्नगात्॥ 5 त्रसरेणुत्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः। शतभागस्तु वेधः स्यात्तैस्त्रिभिस्तु लवः स्मृतः॥ 6 निमेषस्त्रिलवो ज्ञेय आम्नातस्ते त्रयः क्षणः। क्षणान् पञ्च विदुः काष्ठां लघु ता दश पञ्च च॥ 7 लघूनि वै समाम्नाता दश पञ्च च नाडिका। ते द्वे मुहूर्तः प्रहरः षड्यामः सप्त वा नृणाम्॥ 8 द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः। स्वर्णमाषैः कृतच्छिद्रं यावत्प्रस्थजलप्लुतम्॥ 9 यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभे। पक्षः पञ्चदशाहानि शुक्लः कृष्णश्च मानद॥ 10 तयोः समुच्चयो मासः पितॄणां तदहर्निशम्। द्वौ तावृतुः षडयनं दक्षिणं चोत्तरं दिवि॥ 11 अयने चाहनी प्राहुर्वत्सरो द्वादश स्मृतः। संवत्सरशतं नॄणां परमायुर्निरूपितम्॥ 12 ग्रहर्क्षताराचक्रस्थः परमाण्वादिना जगत्। संवत्सरावसानेन पर्येत्यनिमिषो विभुः॥ 13 संवत्सरः परिवत्सर इडावत्सर एव च। अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते॥ 14 यः सृज्यशक्तिमुरुधोच्छ्वसयन् स्वशक्त्या पुंसोऽभ्रमाय दिवि धावति भूतभेदः। कालाख्यया गुणमयं क्रतुभिर्वितन्वं- स्तस्मै बलिं हरत वत्सरपञ्चकाय॥ 15 विदुर उवाच पितृदेवमनुष्याणामायुः परमिदं स्मृतम्। परेषां गतिमाचक्ष्व ये स्युः कल्पाद् बहिर्विदः॥ 16 भगवान् वेद कालस्य गतिं भगवतो ननु। विश्वं विचक्षते धीरा योगराद्धेन चक्षुषा॥ 17 मैत्रेय उवाच कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम्। दिव्यैर्द्वादशभिर्वर्षैः सावधानं निरूपितम्॥ 18 चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम्। सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च॥ 19 सन्ध्यांशयोरन्तणः यः कालः शतसङ्ख्ययोः। तमेवाहुर्युगं तज्ज्ञा यत्र धर्मो विधीयते॥ 20 धर्मश्चतुष्पान्मनुजान् कृते समनुवर्तते। स एवान्येष्वधर्मेण व्येति पादेन वर्धता॥ 21 त्रिलोक्या युगसाहस्रं बहिराब्रह्मणो दिनम्। तावत्येव निशा तात यन्निमीलति विश्वसृक्॥ 22 निशावसान आरब्धो लोककल्पोऽनुवर्तते। यावद्दिनं भगवतो मनून् भुञ्जंश्चतुर्दश॥ 23 स्वं स्वं कालं मनुर्भुङ्क्ते साधिकां ह्येकसप्ततिम्। मन्वन्तरेषु मनवस्तद्वंश्या ऋषयः सुराः। भवन्ति चैव युगपत्सुरेशाश्चानु ये च तान्॥ 24 एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः। तिर्यङ्नृपितृदेवानां सम्भवो यत्र कर्मभिः॥ 25 मन्वन्तरेषु भगवान् बिभ्रत्सत्त्वं स्वमूर्तिभिः। मन्वादिभिरिदं विश्वमवत्युदितपौरुषः॥ 26 तमोमात्रामुपादाय प्रतिसंरुद्धविक्रमः। कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये॥ 27 तमेवान्वपि धीयन्ते लोका भूरादयस्त्रयः। निशायामनुवृत्तायां निर्मुक्तशशिभास्करम्॥ 28 त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना। यान्त्यूष्मणा महर्लोकाज्जनं भृग्वादयोऽर्दिताः॥ 29 तावत्त्रिभुवनं सद्यः कल्पान्तैधितसिन्धवः। प्लावयन्त्युत्कटाटोप चण्डवातेरितोर्मयः॥ 30 अन्तः स तस्मिन् सलिल आस्तेऽनन्तासनो हरिः। योगनिद्रानिमीलाक्षः स्तूयमानो जनालयैः॥ 31 एवंविधैरहोरात्रैः कालगत्योपलक्षितैः। अपक्षितमिवास्यापि परमायुर्वयःशतम्॥ 32 यदर्धमायुषस्तस्य परार्धमभिधीयते। पूर्वः परार्धोऽपक्रान्तो ह्यपरोऽद्य प्रवर्तते॥ 33 पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत्। कल्पो यत्राभवद् ब्रह्मा शब्दब्रह्मेति यं विदुः॥ 34 तस्यैव चान्ते कल्पोऽभूद् यं पाद्ममभिचक्षते। यद्धरेर्नाभिसरस आसील्लोकसरोरुहम्॥ 35 अयं तु कथितः कल्पो द्वितीयस्यापि भारत। वाराह इति विख्यातो यत्रासीच्छूकरो हरिः॥ 36 कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते। अव्याकृतस्यानन्तस्य अनादेर्जगदात्मनः॥ 37 कालोऽयं परमाण्वादिर्द्विपरार्धान्त ईश्वरः। नैवेशितुं प्रभुर्भूम्न ईश्वरो धाममानिनाम्॥ 38 विकारैः सहितो युक्तैर्विशेषादिभिरावृतः। आण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः॥ 39 दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत्। लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः॥ 40 तदाहुरक्षरं ब्रह्म सर्वकारणकारणम्। विष्णोर्धाम परं साक्षात्पुरुषस्य महात्मनः॥ 41 ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे एकादशोऽध्यायः ॥ 11
Tamil