header_image
Home
Tamil

दशमः स्कन्धः[पूर्वार्धः] :: अथाष्टाविंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[पूर्वार्धः]
अथाष्टाविंशोऽध्यायः
विकालेऽवगाहनाद् वरुणदूतेन वरुणालयं नीतस्य नन्दस्य भगवता पुनरानयनम्
श्रीशुक उवाच - एकादश्यां निराहारः समभ्यर्च्य जनार्दनम्। स्नातुं नन्दस्तु कालिन्द्यां द्वादश्यां जलमाविशत्॥ 1 तं गृहीत्वानयद् भृत्यो वरुणस्यासुरोऽन्तिकम्। अविज्ञायासुरीं वेलां प्रविष्टमुदकं निशि॥ 2 चुक्रुशुस्तमपश्यन्तः कृष्ण रामेति गोपकाः। भगवांस्तदुपश्रुत्य पितरं वरुणाहृतम्। तदन्तिकं गतो राजन् स्वानामभयदो विभुः॥ 3 प्राप्तं वीक्ष्य हृषीकेशं लोकपालः सपर्यया। महत्या पूजयित्वाऽऽह तद्दर्शनमहोत्सवः॥ 4 श्रीवरुण उवाच - अद्य मे निभृतो देहोऽद्यैवार्थोऽधिगतः प्रभो। त्वत्पादभाजो भगवन् अवापुः पारमध्वनः॥ 5 नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने। न यत्र श्रूयते माया लोकसृष्टिविकल्पना॥ 6 अजानता मामकेन मूढेनाकार्यवेदिना। आनीतोऽयं तव पिता तद् भवान् क्षन्तुमर्हति॥ 7 ममाप्यनुग्रहं कृष्ण कर्तुमर्हस्यशेषदृक्। गोविन्द नीयतामेष पिता ते पितृवत्सल॥ 8 श्रीशुक उवाच - एवं प्रसादितः कृष्णो भगवानीश्वरेश्वरः। आदायागात् स्वपितरं बन्धूनां चावहन् मुदम्॥ 9 नन्दस्त्वतीन्द्रियं दृष्ट्वा लोकपालमहोदयम्। कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत्॥10 ते त्वौत्सुक्यधियो राजन् मत्वा गोपास्तमीश्वरम्। अपि नः स्वगतिं सूक्ष्मामुपाधास्यदधीश्वरः॥ 11 इति स्वानां स भगवान् विज्ञायाखिलदृक् स्वयम्। सङ्‌कल्पसिद्धये तेषां कृपयैतदचिन्तयत्॥ 12 जनो वै लोक एतस्मिन्नविद्याकामकर्मभिः। उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन्॥ 13 इति सञ्चिन्त्य भगवान् महाकारुणिको हरिः। दर्शयामास लोकं स्वं गोपानां तमसः परम्॥ 14 सत्यं ज्ञानमनन्तं यद् ब्रह्म ज्योतिः सनातनम्। यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः॥ 15 ते तु ब्रह्मह्रदं नीता मग्नाः कृष्णेन चोद्‌धृताः। ददृशुर्ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा॥ 16 नन्दादयस्तु तं दृष्ट्वा परमानन्दनिर्वृताः। कृष्णं च तत्रच्छन्दोभिः स्तूयमानं सुविस्मिताः॥ 17 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टाविंशोऽध्यायः॥28॥
Tamil