header_image
Home
Tamil

दशमः स्कन्धः[पूर्वार्धः] :: अथैकोनत्रंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[पूर्वार्धः]
अथैकोनत्रंशोऽध्यायः
वेणुनादं श्रुत्वाऽऽगतानां गोपीनां श्रीकृष्णेन सह संवादः, रासारम्भः, तासां मानापनोदाय भगवतोऽन्तर्धानं च
श्रीशुक उवाच - भगवानपि ता रात्रीः शरदोत्फुल्लमल्लिकाः। वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः॥ 1 तदोडुराजः ककुभः करैर्मुखं प्राच्या विलिम्पन्नरुणेन शन्तमैः। स चर्षणीनामुदगाच्छुचो मृजन् प्रियः प्रियाया इव दीर्घदर्शनः॥ 2 दृष्ट्वा कुमुद्वन्तमखण्डमण्डलं रमाननाभं नवकुङ्‌कुमारुणम्। वनं च तत्कोमलगोऽभी रञ्जितं जगौ कलं वामदृशां मनोहरम्॥ 3 निशम्य गीतां तदनङ्‌गवर्धनं व्रजस्त्रियः कृष्णगृहीतमानसाः। आजग्मुरन्योन्यमलक्षितोद्यमाः स यत्र कान्तो जवलोलकुण्डलाः॥ 4 दुहन्त्योऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः। पयोऽधिश्रित्य संयावमनुद्वास्यापरा ययुः॥ 5 परिवेषयन्त्यस्तद्धित्वा पाययन्त्यः शिशून् पयः। शुश्रूषन्त्यः पतीन् काश्चिद् अश्नन्त्योऽपास्य भोजनम्॥6 लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने। व्यत्यस्तवस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः॥ 7 ता वार्यमाणाः पतिभिः पितृभिर्भ्रातृबन्धुभिः। गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः॥ 8 अन्तर्गृहगताः काश्चिद् गोप्योऽलब्धविनिर्गमाः। कृष्णं तद्‍भावनायुक्ता दध्युर्मीलितलोचनाः॥ 9 दुःसहप्रेष्ठविरह तीव्रतापधुताशुभाः। ध्यानप्राप्ताच्युताश्लेष निर्वृत्या क्षीणमङ्‌गलाः॥ 10 तमेव परमात्मानं जारबुद्ध्यापि सङ्‌गताः। जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः॥ 11 राजोवाच - कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने। गुणप्रवाहोपरमस्तासां गुणधियां कथम्॥ 12 श्रीशुक उवाच - उक्तं पुरस्तादेतत् ते चैद्यः सिद्धिं यथा गतः। द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः॥ 13 नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप। अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः॥ 14 कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव च। नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते॥ 15 न चैवं विस्मयः कार्यो भवता भगवत्यजे। योगेश्वरेश्वरे कृष्णे यत एतद् विमुच्यते॥ 16 ता दृष्ट्वान्तिकमायाता भगवान् व्रजयोषितः। अवदद् वदतां श्रेष्ठो वाचः पेशैर्विमोहयन्॥ 17 श्रीभगवानुवाच - स्वागतं वो महाभागाः प्रियं किं करवाणि वः। व्रजस्यानामयं कच्चिद् ब्रूतागमनकारणम्॥ 18 रजन्येषा घोररूपा घोरसत्त्वनिषेविता। प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः॥ 19 मातरः पितरः पुत्रा भ्रातरः पतयश्च वः। विचिन्वन्ति ह्यपश्यन्तो मा कृढ्वं बन्धुसाध्वसम्॥ 20 दृष्टं वनं कुसुमितं राकेश कररञ्जितम्। यमुनानिललीलैजत् तरुपल्लवशोभितम्॥ 21 तद् यात माचिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः। क्रन्दन्ति वत्सा बालाश्च तान् पाययत दुह्यत॥ 22 अथवा मदभिस्नेहाद् भवत्यो यन्त्रिताशयाः। आगता ह्युपपन्नं वः प्रीयन्ते मयि जन्तवः॥ 23 भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया। तद्‍बन्धूनां च कल्याण्यः प्रजानां चानुपोषणम्॥ 24 दुःशीलो दुर्भगो वृद्धो जडो रोग्यधनोऽपि वा। पतिः स्त्रीभिर्न हातव्यो लोकेप्सुभिरपातकी॥ 25 अस्वर्ग्यमयशस्यं च फल्गु कृच्छ्रं भयावहम्। जुगुप्सितं च सर्वत्र औपपत्यं कुलस्त्रियः॥ 26 श्रवणाद् दर्शनाद् ध्यानान्मयि भावोऽनुकीर्तनात्। न तथा सन्निकर्षेण प्रतियात ततो गृहान्॥ 27 श्रीशुक उवाच - इति विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितम्। विषण्णा भग्नसङ्‌कल्पाः चिन्तामापुर्दुरत्ययाम्॥ 28 कृत्वा मुखान्यव शुचः श्वसनेन शुष्यद् बिम्बाधराणि चरणेन भुवं लिखन्त्यः। अस्रैरुपात्तमषिभिः कुचकुङ्‌कुमानि तस्थुर्मृजन्त्य उरुदुःखभराः स्म तूष्णीम्॥ 29 प्रेष्ठं प्रियेतरमिव प्रतिभाषमाणं कृष्णं तदर्थविनिवर्तितसर्वकामाः। नेत्रे विमृज्य रुदितोपहते स्म किञ्चित् संरम्भगद्‍गदगिरोऽब्रुवतानुरक्ताः॥ 30 श्रीगोप्य ऊचुः। मैवं विभोऽर्हति भवान् गदितुं नृशंसं सन्त्यज्य सर्वविषयांस्तव पादमूलम्। भक्ता भजस्व दुरवग्रह मा त्यजास्मान् देवो यथाऽऽदिपुरुषो भजते मुमुक्षून्॥ 31 यत्पत्यपत्यसुहृदामनुवृत्तिरङ्‌ग स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम्। अस्त्वेवमेतदुपदेशपदे त्वयीशे प्रेष्ठो भवांस्तनुभृतां किल बन्धुरात्मा॥ 32 कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन् नित्यप्रिये पतिसुतादिभिरार्तिदैः किम्। तन्नः प्रसीद परमेश्वर मा स्म छिन्द्या आशां भृतां त्वयि चिरादरविन्दनेत्र॥ 33 चित्तं सुखेन भवतापहृतं गृहेषु यन्निर्विशत्युत करावपि गृह्यकृत्ये। पादौ पदं न चलतस्तव पादमूलाद् यामः कथं व्रजमथो करवाम किं वा॥ 34 सिञ्चाङ्‌ग नस्त्वदधरामृतपूरकेण हासावलोककलगीतजहृच्छयाग्निम्। नो चेद् वयं विरहजाग्न्युपयुक्तदेहा ध्यानेन याम पदयोः पदवीं सखे ते॥ 35 यर्ह्यम्बुजाक्ष तव पादतलं रमाया दत्तक्षणं क्वचिदरण्यजनप्रियस्य। अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षमङ्ग स्थातुं त्वयाभिरमिता बत पारयामः॥ 36 श्रीर्यत्पदाम्बुजरजश्चकमे तुलस्या लब्ध्वापि वक्षसि पदं किल भृत्यजुष्टम्। यस्याः स्ववीक्षण कृतेऽन्यसुरप्रयासः तद्वद् वयं च तव पादरजः प्रपन्नाः॥ 37 तन्नः प्रसीद वृजिनार्दन तेऽन्घ्रिमूलं प्राप्ता विसृज्य वसतीस्त्वदुपासनाशाः। त्वत्सुन्दरस्मित निरीक्षणतीव्रकाम तप्तात्मनां पुरुषभूषण देहि दास्यम्॥ 38 वीक्ष्यालकावृतमुखं तव कुण्डलश्री गण्डस्थलाधरसुधं हसितावलोकम्। दत्ताभयं च भुजदण्डयुगं विलोक्य वक्षः श्रियैकरमणं च भवाम दास्यः॥ 39 का स्त्र्यङ्‌ग ते कलपदायतमूर्च्छितेन सम्मोहिताऽऽर्यचरितान्न चलेत् त्रिलोक्याम्। त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं यद् गोद्विजद्रुममृगाः पुलकान्यबिभ्रन्॥ 40 व्यक्तं भवान् व्रजभयार्तिहरोऽभिजातो देवो यथाऽऽदिपुरुषः सुरलोकगोप्ता। तन्नो निधेहि करपङ्‌कजमार्तबन्धो तप्तस्तनेषु च शिरःसु च किङ्‌करीणाम्॥ 41 श्रीशुक उवाच - इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः। प्रहस्य सदयं गोपीरात्मारामोऽप्यरीरमत्॥ 42 ताभिः समेताभिरुदारचेष्टितः प्रियेक्षणोत्फुल्लमुखीभिरच्युतः। उदारहासद्विजकुन्ददीधतिः व्यरोचतैणाङ्‌क इवोडुभिर्वृतः॥ 43 उपगीयमान उद्‍गायन् वनिताशतयूथपः। मालां बिभ्रद् वैजयन्तीं व्यचरन्मण्डयन् वनम्॥ 44 नद्याः पुलिनमाविश्य गोपीभिर्हिमवालुकम्। रेमे तत्तरलानन्द कुमुदामोदवायुना॥ 45 बाहुप्रसारपरिरम्भकरालकोरु नीवीस्तनालभननर्मनखाग्रपातैः। क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणां उत्तम्भयन् रतिपतिं रमयाञ्चकार॥ 46 एवं भगवतः कृष्णात् लब्धमाना महात्मनः। आत्मानं मेनिरे स्त्रीणां मानिन्योऽभ्यधिकं भुवि॥ 47 तासां तत् सौभगमदं वीक्ष्य मानं च केशवः। प्रशमाय प्रसादाय तत्रैवान्तरधीयत॥ 48॥ इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे भगवतो रासक्रीडावर्णनं नाम एकोन्त्रिंशोऽध्यायः ॥ 29 ॥
Tamil