header_image
Home
Tamil

दशमः स्कन्धः[पूर्वार्धः] :: अथ त्रिंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[पूर्वार्धः]
अथ त्रिंशोऽध्यायः
गोपीद्वारा भगवतोऽनुसन्धानं तदाचरितानुकरणं यमुनापुलिने तदागमप्रतीक्षणं च
श्रीशुक उवाच अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः। अतप्यंस्तमचक्षाणाः करिण्य इव यूथपम्॥ 1 गत्यानुरागस्मितविभ्रमेक्षितै- र्मनोरमालापविहारविभ्रमैः। आक्षिप्तचित्ताः प्रमदा रमापते- स्तास्ता विचेष्टा जगृहुस्तदात्मिकाः॥ 2 गतिस्मितप्रेक्षणभाषणादिषु प्रियाः प्रियस्य प्रतिरूढमूर्तयः। असावहं त्वित्यबलास्तदात्मिका न्यवेदिषुः कृष्णविहारविभ्रमाः॥ 3 गायन्त्य उच्चैरमुमेव संहता विचिक्युरुन्मत्तकवद् वनाद् वनम्। पप्रच्छुराकाशवदन्तरं बहि- र्भूतेषु सन्तं पुरुषं वनस्पतीन्॥ 4 दृष्टो वः कच्चिदश्वत्थ प्लक्ष न्यग्रोध नो मनः। नन्दसूनुर्गतो हृत्वा प्रेमहासावलोकनैः॥ 5 कच्चित् कुरबकाशोक नागपुन्नागचम्पकाः। रामानुजो मानिनीनामितो दर्पहरस्मितः॥ 6 कच्चित् तुलसि कल्याणि गोविन्दचरणप्रिये। सह त्वालिकुलैर्बिभ्रद् दृष्टस्तेऽतिप्रियोऽच्युतः॥ 7 मालत्यदर्शि वः कच्चिन्मल्लिके जाति यूथिके। प्रीतिं वो जनयन् यातः करस्पर्शेन माधवः॥ 8 चूतप्रियालपनसासनकोविदार जम्ब्वर्कबिल्वबकुलाम्रकदम्बनीपाः। येऽन्ये परार्थभवका यमुनोपकूलाः शंसन्तु कृष्णपदवीं रहितात्मनां नः॥ 9 किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि स्पर्शोत्सवोत्पुलकिताङ्गरुहैर्विभासि। अप्यङ्घ्रिसम्भव उरुक्रमविक्रमाद् वा आहो वराहवपुषः परिरम्भणेन॥ 10 अप्येणपत्न्युपगतः प्रिययेह गात्रै- स्तन्वन् दृशां सखि सुनिर्वृतिमच्युतो वः। कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः कुन्दस्रजः कुलपतेरिह वाति गन्धः॥ 11 बाहुं प्रियांस उपधाय गृहीतपद्मो रामानुजस्तुलसिकालिकुलैर्मदान्धैः। अन्वीयमान इह वस्तरवः प्रणामं किं वाभिनन्दति चरन् प्रणयावलोकैः॥ 12 पृच्छतेमा लता बाहूनप्याश्लिष्टा वनस्पतेः। नूनं तत्करजस्पृष्टा बिभ्रत्युत्पुलकान्यहो॥ 13 इत्युन्मत्तवचो गोप्यः कृष्णान्वेषणकातराः। लीला भगवतस्तास्ता ह्यनुचक्रुस्तदात्मिकाः॥ 14 कस्याश्चित् पूतनायन्त्याः कृष्णायन्त्यपिबत् स्तनम्। तोकायित्वा रुदत्यन्या पदाहन् शकटायतीम्॥ 15 दैत्यायित्वा जहारान्यामेको कृष्णार्भभावनाम्। रिङ्गयामास काप्यङ्घ्री कर्षन्ती घोषनिःस्वनैः॥ 16 कृष्णरामायिते द्वे तु गोपायन्त्यश्च काश्चन। वत्सायतीं हन्ति चान्या तत्रैका तु बकायतीम्॥ 17 आहूय दूरगा यद्वत् कृष्णस्तमनुकुर्वतिम्। वेणुं क्वणन्तीं क्रीडन्तीमन्याः शंसन्ति साध्विति॥ 18 कस्याञ्चित् स्वभुजं न्यस्य चलन्त्याहापरा ननु। कृष्णोऽहं पश्यत गतिं ललितामिति तन्मनाः॥ 19 मा भैष्ट वातवर्षाभ्यां तत्त्राणं विहितं मय। इत्युक्त्वैकेन हस्तेन यतन्त्युन्निदधेऽम्बरम्॥ 20 आरुह्यैका पदाऽऽक्रम्य शिरस्याहापरां नृप। दुष्टाहे गच्छ जातोऽहं खलानां ननु दण्डकृत्॥ 21 तत्रैकोवाच हे गोपा दावाग्निं पश्यतोल्बणम्। चक्षूंष्याश्वपिदध्वं वो विधास्ये क्षेममञ्जसा॥ 22 बद्धान्यया स्रजा काचित् तन्वी तत्र उलूखले। भीता सुदृक्पिधायास्यं भेजे भीतिविडम्बनम्॥ 23 एवं कृष्णं पृच्छमाना वृन्दावनलतास्तरून्। व्यचक्षत वनोद्देशे पदानि परमात्मनः॥ 24 पदानि व्यक्तमेतानि नन्दसूनोर्महात्मनः। लक्ष्यन्ते हि ध्वजाम्भोज वज्राङ्कुशयवादिभिः॥ 25 तैस्तैः पदैस्तत्पदवीमन्विच्छन्त्योऽग्रतोऽबलाः। वध्वाः पदैः सुपृक्तानि विलोक्यार्ताः समब्रुवन्॥ 26 कस्याः पदानि चैतानि याताया नन्दसूनुना। अंसन्यस्तप्रकोष्ठायाः करेणोः करिणा यथा॥ 27 अनयाऽऽराधितो नूनं भगवान् हरिरीश्वरः। यन्नो विहाय गोविन्दः प्रीतो यामनयद् रहः॥ 28 धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्यब्जरेणवः। यान् ब्रह्मेशौ रमा देवी दधुर्मूर्ध्न्यघनुत्तये॥ 29 तस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत्। यैकापहृत्य गोपीनां रहो भुन्क्तेऽच्युताधरम्॥ 30 न लक्ष्यन्ते पदान्यत्र तस्या नूनं तृणाङ्कुरैः। खिद्यत्सुजाताङ्घ्रितलामुन्निन्ये प्रेयसीं प्रियः॥ 31 इमान्यधिकमग्नानि पदानि वहतो वधूम्। गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः॥ 32 अत्रावरोपिता कान्ता पुष्पहेतोर्महात्मना। अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः। प्रपदाक्रमण एते पश्यतासकले पदे॥ 33 केशप्रसाधनं त्वत्र कामिन्याः कामिना कृतम्। तानि चूडयता कान्तामुपविष्टमिह ध्रुवम्॥ 34 रेमे तया चात्मरत आत्मारामोऽप्यखण्डितः। कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम्॥ 35 इत्येवं दर्शयन्त्यस्ताश्चेरुर्गोप्यो विचेतसः। यां गोपीमनयत् कृष्णो विहायान्याः स्त्रियो वने॥ 36 सा च मेने तदाऽऽत्मानं वरिष्ठं सर्वयोषिताम्। हित्वा गोपीः कामयाना मामसौ भजते प्रियः॥ 37 ततो गत्वा वनोद्देशं दृप्ता केशवमब्रवीत्। न पारयेऽहं चलितुं नय मां यत्र ते मनः॥ 38 एवमुक्तः प्रियामाह स्कन्ध आरुह्यतामिति। ततश्चान्तर्दधे कृष्णः सा वधूरन्वतप्यत॥ 39 हा नाथ रमण प्रेष्ठ क्वासि क्वासि महाभुज। दास्यास्ते कृपणाया मे सखे दर्शय सन्निधिम्॥ 40 अन्विच्छन्त्यो भगवतो मार्गं गोप्योऽविदूरितः। ददृशुः प्रियविश्लेषमोहितां दुःखितां सखीम्॥ 41 तया कथितमाकर्ण्य मानप्राप्तिं च माधवात्। अवमानं च दौरात्म्याद् विस्मयं परमं ययुः॥ 42 ततोऽविशन् वनं चन्द्रज्योत्स्ना यावद् विभाव्यते। तमः प्रविष्टमालक्ष्य ततो निववृतुः स्त्रियः॥ 43 तन्मनस्कास्तदलापास्तद्विचेष्टास्तदात्मिकाः। तद्गुणानेव गायन्त्यो नात्मगाराणि सस्मरुः॥ 44 पुनः पुलिनमागत्य कालिन्द्याः कृष्णभावनाः। समवेता जगुः कृष्णं तदागमनकाङ्क्षिताः॥ 45 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां कृष्णान्वेषणं नाम त्रिंशोऽध्यायः ॥ 30 ॥
Tamil