header_image
Home
Tamil

दशमः स्कन्धः[पूर्वार्धः] :: अथैकत्रिंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[पूर्वार्धः]
अथैकत्रिंशोऽध्यायः
गोपीगीतम् - विरहार्तगोपीनां भगवदुपस्थानाय प्रार्थनम्
गोप्य ऊचुः - जयति तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वदत्र हि। दयित दृश्यतां दिक्षु तावका स्त्वयि धृतासवस्त्वां विचिन्वते॥ 1 शरदुदाशये साधुजातसत् सरसिजोदरश्रीमुषा दृशा। सुरतनाथ तेऽशुल्कदासिका वरद निघ्नतो नेह किं वधः॥ 2 विषजलाप्ययाद् व्यालराक्षसाद् वर्षमारुताद् वैद्युतानलात्। वृषमयात्मजाद् विश्वतो भयाद् ऋषभ ते वयं रक्षिता मुहुः॥ 3 न खलु गोपीकानन्दनो भवा- नखिलदेहिनामन्तरात्मदृक्। विखनसार्थितो विश्वगुप्तये सख उदेयिवान् सात्वतां कुले॥ 4 विरचिताभयं वृष्णिधूर्य ते चरणमीयुषां संसृतेर्भयात्। करसरोरुहं कान्त कामदं शिरसि धेहि नः श्रीकरग्रहम्॥ 5 व्रजजनार्तिहन् वीर योषितां निजजनस्मयध्वंसनस्मित। भज सखे भवत् किङ्‌करीः स्म नो जलरुहाननं चारु दर्शय॥ 6 प्रणतदेहिनां पापकर्सनं तृणचरानुगं श्रीनिकेतनम्। फणिफणार्पितं ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्छयम्॥ 7 मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करेक्षण। विधिकरीरिमा वीर मुह्यती रधरसीधुनाऽऽप्याययस्व नः॥ 8 तव कथामृतं तप्तजीवनं कविभिरीडितं कल्मषापहम्। श्रवणमङ्‌गलं श्रीमदाततं भुवि गृणन्ति ते भूरिदा जनाः॥ 9 प्रहसितं प्रिय प्रेमवीक्षणं विहरणं च ते ध्यानमङ्‌गलम्। रहसि संविदो या हृदिस्पृशः कुहक नो मनः क्षोभयन्ति हि॥ 10 चलसि यद् व्रजाच्चारयन् पशून् नलिनसुन्दरं नाथ ते पदम्। शिलतृणाङ्‌कुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति॥ 11 दिनपरिक्षये नीलकुन्तलै- र्वनरुहाननं बिभ्रदावृतम्। घनरजस्वलं दर्शयन् मुहु- र्मनसि नः स्मरं वीर यच्छसि॥ 12 प्रणतकामदं पद्मजार्चितं धरणिमण्डनं ध्येयमापदि। चरणपङ्‌कजं शन्तमं च ते रमण नः स्तनेष्वर्पयाधिहन्॥ 13 सुरतवर्धनं शोकनाशनं स्वरितवेणुना सुष्ठु चुम्बितम्। इतररागविस्मारणं नृणां वितर वीर नस्तेऽधरामृतम्॥ 14 अटति यद् भवानह्नि काननं त्रुटिर्युगायते त्वामपश्यताम्। कुटिलकुन्तलं श्रीमुखं च ते जड उदीक्षतां पक्ष्मकृद् दृशाम्॥ 15 पतिसुतान्वयभ्रातृबान्धवा- नतिविलङ्‌घ्य तेऽन्त्यच्युतागताः। गतिविदस्तवोद्‍गीतमोहिताः कितव योषितः कस्त्यजेन्निशि॥ 16 रहसि संविदं हृच्छयोदयं प्रहसिताननं प्रेमवीक्षणम्। बृहदुरः श्रियो वीक्ष्य धाम ते मुहुरतिस्पृहा मुह्यते मनः॥ 17 व्रजवनौकसां व्यक्तिरङ्‌ग ते वृजिनहन्त्र्यलं विश्वमङ्‌गलम्। त्यज मनाक् च नस्त्वत्स्पृहात्मनां स्वजनहृद्रुजां यन्निषूदनम्॥ 18 यत्ते सुजातचरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु। तेनाटवीमटसि तद् व्यथते न किं स्वित् कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः॥ 19 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥
Tamil