header_image
Home
Tamil

दशमः स्कन्धः[पूर्वार्धः] :: अथ अष्टमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[पूर्वार्धः]
अथ अष्टमोऽध्यायः
गर्गागमनं जातककथनपूर्वकं यशोदारोहिणीसुतयोर्नामकरणसंस्कारः, मृद्भक्षणव्याजेन यशोदायै विश्वरूपप्रकटीकरणम् च
श्रीशुक उवाच गर्गः पुरोहितो राजन् यदूनां सुमहातपाः। व्रजं जगाम नन्दस्य वसुदेव प्रचोदितः॥ 1 तं दृष्ट्वा परमप्रीतः प्रत्युत्थाय कृताञ्जलिः। आनर्चाधोक्षजधिया प्रणिपातपुरस्सरम्॥ 2 सूपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम्। नन्दयित्वाब्रवीद् ब्रह्मन् पूर्णस्य करवाम किम्॥ 3 महद्विचलनं नॄणां गृहिणां दीनचेतसाम्। निःश्रेयसाय भगवन् कल्पते नान्यथा क्वचित्॥ 4 ज्योतिषामयनं साक्षाद् यत् तज्ज्ञानमतीन्द्रियम्। प्रणीतं भवता येन पुमान्वेद परावरम्॥ 5 त्वं हि ब्रह्मविदां श्रेष्ठः संस्कारान् कर्तुमर्हसि। बालयोरनयोर्नॄणां जन्मना ब्राह्मणो गुरुः॥ 6 श्रीगर्ग उवाच। यदूनामहमाचार्यः ख्यातश्च भुवि सर्वतः। सुतं मया संस्कृतं ते मन्यते देवकीसुतम्॥ 7 कंसः पापमतिः सख्यं तव चानकदुन्दुभेः। देवक्या अष्टमो गर्भो न स्त्री भवितुमर्हति॥ 8 इति सञ्चिन्तयञ्छुत्वा देवक्या दारिकावचः। अपि हन्ताऽऽगताशङ्‌कः तर्हि तन्नोऽनयो भवेत्॥ 9 श्रीनन्द उवाच। अलक्षितोऽस्मिन् रहसि मामकैरपि गोव्रजे। कुरु द्विजातिसंस्कारं स्वस्तिवाचनपूर्वकम्॥ 10 श्रीशुक उवाच। एवं संप्रार्थितो विप्रः स्वचिकीर्षितमेव तत्। चकार नामकरणं गूढो रहसि बालयोः॥ 11 श्रीगर्ग उवाच। अयं हि रोहिणीपुत्रो रमयन् सुहृदो गुणैः। आख्यास्यते राम इति बलाधिक्याद् बलं विदुः। यदूनामपृथग्भावात् सङ्‌कर्षणमुशन्त्युत॥ 12 आसन् वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुगं तनूः। शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः॥ 13 प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मजः। वासुदेव इति श्रीमानभिज्ञाः संप्रचक्षते॥ 14 बहूनि सन्ति नामानि रूपाणि च सुतस्य ते। गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः॥ 15 एष वः श्रेय आधास्यद् गोपगोकुल-नन्दनः। अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ॥ 16 पुरानेन व्रजपते साधवो दस्युपीडिताः। अराजके रक्ष्यमाणा जिग्युर्दस्यून् समेधिताः॥ 17 य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः। नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः॥ 18 तस्मान्नन्दात्मजोऽयं ते नारायणसमो गुणैः। श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः॥ 19 इत्यात्मानं समादिश्य गर्गे च स्वगृहं गते। नन्दः प्रमुदितो मेने आत्मानं पूर्णमाशिषाम्॥ 20 कालेन व्रजताल्पेन गोकुले रामकेशवौ। जानुभ्यां सह पाणिभ्यां रिङ्‌गमाणौ विजह्रतुः॥ 21 तावङ्‌घ्रियुग्ममनुकृष्य सरीसृपन्तौ      घोषप्रघोषरुचिरं व्रजकर्दमेषु। तन्नादहृष्टमनसावनुसृत्य लोकं      मुग्धप्रभीतवदुपेयतुरन्ति मात्रोः॥ 22 तन्मातरौ निजसुतौ घृणया स्नुवन्त्यौ      पङ्‌काङ्‌गरागरुचिरावुपगृह्य दोर्भ्याम्। दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य      मुग्धस्मिताल्पदशनं ययतुः प्रमोदम्॥ 23 यर्ह्यङ्‌गनादर्शनीय-कुमारलीलौ।      अन्तर्व्रजे तदबलाः प्रगृहीतपुच्छैः। वत्सैरितस्तत उभावनुकृष्यमाणौ      प्रेक्षन्त्य उज्झितगृहा जहृषुर्हसन्त्यः॥ 24 शृङ्‌ग्यग्निदंष्ट्र्यसिजल द्विजकण्टकेभ्यः      क्रीडापरावतिचलौ स्वसुतौ निषेद्धुम्। गृह्याणि कर्तुमपि यत्र न तज्जनन्यौ      शेकात आपतुरलं मनसोऽनवस्थाम्॥ 25 कालेनाल्पेन राजर्षे रामः कृष्णश्च गोकुले। अघृष्टजानुभिः पद्‌भिर्विचक्रमतुरञ्जसा॥ 26 ततस्तु भगवान् कृष्णो वयस्यैर्व्रजबालकैः। सहरामो व्रजस्त्रीणां चिक्रीडे जनयन् मुदम्॥ 27 कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमारचापलम्। श्रृण्वन्त्याः किल तन्मातुरिति होचुः समागताः॥ 28 वत्सान् मुञ्चन् क्वचिदसमये क्रोशसञ्जातहासः स्तेयं स्वाद्वत्त्यथ दधि पयः कल्पितैः स्तेययोगैः। मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्डं भिनत्ति द्रव्यालाभे सगृहकुपितो यात्युपक्रोश्य तोकान्॥ 29 हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यैः छिद्रं ह्यन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित्। ध्वान्तागारे धृतमणिगणं स्वाङ्‌गमर्थप्रदीपं काले गोप्यो यर्हि गृहकृत्येषु सुव्यग्रचित्ताः॥ 30 एवं धार्ष्ट्यान्युशति कुरुते मेहनादीनि वास्तौ स्तेयोपायैर्विरचितकृतिः सुप्रतीको यथाऽऽस्ते। इत्थं स्त्रीभिः सभयनयन श्रीमुखालोकिनीभिर् व्याख्यातार्था प्रहसितमुखी न ह्युपालब्धुमैच्छत्॥ 31 एकदा क्रीडमानास्ते रामाद्या गोपदारकाः। कृष्णो मृदं भक्षितवानिति मात्रे न्यवेदयन्॥ 32 सा गृहीत्वा करे कृष्णमुपालभ्य हितैषिणी। यशोदा भयसंभ्रान्त प्रेक्षणाक्षमभाषत॥ 33 कस्मान् मृदमदान्तात्मन् भवान् भक्षितवान् रहः। वदन्ति तावका ह्येते कुमारास्तेऽग्रजोऽप्ययम्॥ 34 श्रीकृष्ण उवाच नाहं भक्षितवानम्ब सर्वे मिथ्याभिशंसिनः। यदि सत्यगिरस्तर्हि समक्षं पश्य मे मुखम्॥ 35 यद्येवं तर्हि व्यादेहीत्युक्तः स भगवान् हरिः। व्यादत्ताव्याहतैश्वर्यः क्रीडामनुजबालकः॥ 36 सा तत्र ददृशे विश्वं जगत् स्थास्नु च खं दिशः। साद्रि-द्वीपाब्धि-भूगोलं सवाय्वग्नीन्दुतारकम्॥ 37 ज्योतिश्चक्रं जलं तेजो नभस्वान् वियदेव च। वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास्त्रयः॥ 38 एतद्विचित्रं सहजीवकाल      स्वभावकर्माशयलिङ्‌गभेदम्। सूनोस्तनौ वीक्ष्य विदारितास्ये      व्रजं सहात्मानमवाप शङ्‌काम्॥ 39 किं स्वप्न एतदुत देवमाया      किं वा मदीयो बत बुद्धिमोहः। अथो अमुष्यैव ममार्भकस्य      यः कश्चनौत्पत्तिक आत्मयोगः॥ 40 अथो यथावन्न वितर्कगोचरं      चेतोमनःकर्मवचोभिरञ्जसा। यदाश्रयं येन यतः प्रतीयते      सुदुर्विभाव्यं प्रणतास्मि तत्पदम्॥ 41 अहं ममासौ पतिरेष मे सुतो      व्रजेश्वरस्याखिलवित्तपा सती। गोप्यश्च गोपाः सहगोधनाश्च मे      यन्माययेत्थं कुमतिः स मे गतिः॥ 42 इत्थं विदित तत्त्वायां गोपिकायां स ईश्वरः। वैष्णवीं व्यतनोन्मायां पुत्रस्नेहमयीं विभुः॥ 43 सद्यो नष्टस्मृतिर्गोपी साऽऽरोप्यारोहमात्मजम्। प्रवृद्धस्नेहकलिल हृदयाऽऽसीद् यथा पुरा॥ 44 त्रय्या चोपनिषद्‌भिश्च साङ्‌ख्ययोगैश्च सात्वतैः। उपगीयमान माहात्म्यं हरिं सामन्यतात्मजम्॥ 45 श्रीराजोवाच नन्दः किमकरोद् ब्रह्मन् श्रेय एवं महोदयम्। यशोदा च महाभागा पपौ यस्याः स्तनं हरिः॥ 46 पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम्। गायन्त्यद्यापि कवयो यल्लोकशमलापहम्॥ 47 श्रीशुक उवाच द्रोणो वसूनां प्रवरो धरया सह भार्यया। करिष्यमाण आदेशान् ब्रह्मणस्तमुवाच ह॥ 48 जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ। भक्तिः स्यात्परमा लोके ययाञ्जो दुर्गतिं तरेत्॥ 49 अस्त्वित्युक्तः स भगवान् व्रजे द्रोणो महायशाः। जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत्॥ 50 ततो भक्तिर्भगवति पुत्रीभूते जनार्दने। दम्पत्योर्नितरामासीत् गोपगोपीषु भारत॥ 51 कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः। सहरामो वसंश्चक्रे तेषां प्रीतिं स्वलीलया॥ 52 ॥ इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टमोऽध्यायः ॥ 8 ॥
Tamil