header_image
Home
Tamil

दशमः स्कन्धः[पूर्वार्धः] :: अथ सप्तदशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[पूर्वार्धः]
अथ सप्तदशोऽध्यायः
कालियस्य यमुनाह्रदे निवासस्य कारणवर्णनं ह्रदान्निर्गतेन श्रीकृष्णेन व्रजौकसां दावानलाद्रक्षणम्
श्रीराजोवाच। नागालयं रमणकं कस्मात् तत्याज कालियः। कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम्॥ 1 श्रीशुक उवाच। उपहार्यैः सर्पजनैर्मासि मासीह यो बलिः। वानस्पत्यो महाबाहो नागानां प्राङ्‌निरूपितः॥ 2 स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि। गोपीथायात्मनः सर्वे सुपर्णाय महात्मने॥ 3 विषवीर्य मदाविष्टः काद्रवेयस्तु कालियः। कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिम्॥ 4 तच्छ्रुत्वा कुपितो राजन् भगवान् भगवत्प्रियः। विजिघांसुर्महावेगः कालियं समुपाद्रवत्॥ 5 तमापतन्तं तरसा विषायुधः प्रत्यभ्ययाद् उच्छ्रितनैकमस्तकः। तद्‌भिः सुपर्णं व्यदशद् ददायुधः कराल जिह्रोच्छ्वसितोग्र लोचनः॥ 6 तं तार्क्ष्यपुत्रः स निरस्य मन्युमान् प्रचण्डवेगो मधुसूदनासनः। पक्षेण सव्येन हिरण्यरोचिषा जघान कद्रुसुतमुग्रविक्रमः॥ 7 सुपर्णपक्षाभिहतः कालियोऽतीव विह्वलः। ह्रदं विवेश कालिन्द्यास्तदगम्यं दुरासदम्॥ 8 तत्रैकदा जलचरं गरुडो भक्ष्यमीप्सितम्। निवारितः सौभरिणा प्रसह्य क्षुधितोऽहरत्॥ 9 मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ हते। कृपया सौभरिः प्राह तत्रत्यक्षेममाचरन्॥ 10 अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति। सद्यः प्राणैर्वियुज्येत सत्यमेतद् ब्रवीम्यहम्॥ 11 तं कालियः परं वेद नान्यः कश्चन लेलिहः। अवात्सीद् गरुडाद् भीतः कृष्णेन च विवासितः॥ 12 कृष्णं ह्रदाद् विनिष्क्रान्तं दिव्यस्रग् गन्धवाससम्। महामणिगणाकीर्णं जाम्बूनदपरिष्कृतम्॥ 13 उपलभ्योत्थिताः सर्वे लब्धप्राणा इवासवः। प्रमोदनिभृतात्मानो गोपाः प्रीत्याभिरेभिरे॥ 14 यशोदा रोहिणी नन्दो गोप्यो गोपाश्च कौरव। कृष्णं समेत्य लब्धेहा आसँल्लब्धमनोरथा॥ 15 रामश्चाच्युतमालिङ्‌ग्य जहासास्यानुभाववित्। नगा गावो वृषा वत्सा लेभिरे परमां मुदम्॥ 16 नन्दं विप्राः समागत्य गुरवः सकलत्रकाः। ऊचुस्ते कालियग्रस्तो दिष्ट्या मुक्तस्तवात्मजः॥ 17 देहि दानं द्विजातीनां कृष्णनिर्मुक्तिहेतवे। नन्दः प्रीतमना राजन् गाः सुवर्णं तदादिशत्॥ 18 यशोदापि महाभागा नष्टलब्धप्रजा सती। परिष्वज्याङ्‌कमारोप्य मुमोचाश्रुकलां मुहुः॥ 19 तां रात्रिं तत्र राजेन्द्र क्षुत्तृड्भ्यां श्रमकर्षिताः। ऊषुर्व्रयौकसो गावः कालिन्द्या उपकूलतः॥ 20 तदा शुचिवनोद्‍भूतो दावाग्निः सर्वतो व्रजम्। सुप्तं निशीथ आवृत्य प्रदग्धुमुपचक्रमे॥ 21 तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकसः। कृष्णं ययुस्ते शरणं मायामनुजमीश्वरम्॥ 22 कृष्ण कृष्ण महाभाग हे रामामितविक्रम। एष घोरतमो वह्निस्तावकान् ग्रसते हि नः॥ 23 सुदुस्तरान्नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो। न शक्नुमस्त्वच्चरणं संत्यक्तुमकुतोभयम्॥ 24 इत्थं स्वजनवैक्लव्यं निरीक्ष्य जगदीश्वरः। तमग्निमपिबत् तीव्रमनंतोऽनन्त शक्तिधृक्॥ 25 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे दावाग्निमोचनं नाम सप्तदशोऽध्यायः ॥ 17 ॥
Tamil