श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[पूर्वार्धः]
अथ षोडशोऽध्यायः
कालियदमनम् - नागपत्नीकृतं नागकर्तृकं च भगवतः स्तवनं नागद्वारा ह्रदपरित्यागश्च
श्रीशुक उवाच।
विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः।
तस्या विशुद्धिमन्विच्छन् सर्पं तमुदवासयत्॥ 1
श्रीराजोवाच।
कथमन्तर्जलेऽगाधे न्यगृह्णाद् भगवानहिम्।
स वै बहुयुगावासं यथाऽऽसीद् विप्र कथ्यताम्॥ 2
ब्रह्मन् भगवतस्तस्य भूम्नः स्वच्छन्दवर्तिनः।
गोपालोदारचरितं कस्तृप्येतामृतं जुषन्॥ 3
श्रीशुक उवाच।
कालिन्द्यां कालियस्यासीद् ह्रदः कश्चिद् विषाग्निना।
श्रप्यमाणपया यस्मिन् पतन्त्युपरिगाः खगाः॥ 4
विप्रुष्मता विषदोर्मि मारुतेनाभिमर्शिताः।
म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजङ्गमाः॥ 5
तं चण्डवेगविषवीर्यमवेक्ष्य तेन
दुष्टां नदीं च खलसंयमनावतारः।
कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्गम्
आस्फोट्य गाढरशनो न्यपतद् विषोदे॥ 6
सर्पह्रदः पुरुषसारनिपातवेग
संक्षोभितोरगविषोच्छ्वसिताम्बुराशिः।
पर्यक्प्लुतो विषकषायविभीषणोर्मिः
धावन् धनुःशतमनन्तबलस्य किं तत्॥ 7
तस्य ह्रदे विहरतो भुजदण्डघूर्ण
वार्घोषमङ्ग वरवारणविक्रमस्य।
आश्रुत्य तत् स्वसदनाभिभवं निरीक्ष्य
चक्षुःश्रवाः समसरत् तदमृष्यमाणः॥ 8
तं प्रेक्षणीयसुकुमारघनावदातं
श्रीवत्सपीतवसनं स्मितसुन्दरास्यम्।
क्रीडन्तमप्रतिभयं कमलोदराङ्घ्रिं
सन्दश्य मर्मसु रुषा भुजया चछाद॥ 9
तं नागभोगपरिवीतमदृष्टचेष्टम्
आलोक्य तत्प्रियसखाः पशुपा भृशार्ताः।
कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा
दुःखानुशोकभयमूढधियो निपेतुः॥ 10
गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः।
कृष्णे न्यस्तेक्षणा भीता रुदत्य इव तस्थिरे॥ 11
अथ व्रजे महोत्पाताः त्रिविधा ह्यतिदारुणाः।
उत्पेतुर्भुवि दिव्यात्मन् यासन्नभयशंसिनः॥ 12
तानालक्ष्य भयोद्विग्ना गोपा नन्दपुरोगमाः।
विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम्॥ 13
तैर्दुर्निमित्तैर्निधनं मत्वा प्राप्तमतद् विदः।
तत् प्राणास्तन्मनस्कास्ते दुःखशोकभयातुराः॥ 14
आबालवृद्धवनिताः सर्वेऽङ्ग पशुवृत्तयः।
निर्जग्मुर्गोकुलाद् दीनाः कृष्णदर्शनलालसाः॥ 15
तांस्तथा कातरान् वीक्ष्य भगवान् माधवो बलः।
प्रहस्य किञ्चिन्नोवाच प्रभावज्ञोऽनुजस्य सः॥ 16
तेऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः।
भगवत् लक्षणैर्जग्मुः पदव्या यमुनातटम्॥ 17
ते तत्र तत्राब्जयवाङ्कुशाशनि
ध्वजोपपन्नानि पदानि विश्पतेः।
मार्गे गवामन्यपदान्तरान्तरे
निरीक्षमाणा ययुरङ्ग सत्वराः॥ 18
अन्तर्ह्रदे भुजगभोगपरीतमारात्
कृष्णं निरीहमुपलभ्य जलाशयान्ते।
गोपांश्च मूढधिषणान् परितः पशूंश्च
संक्रन्दतः परमकश्मलमापुरार्ताः॥ 19
गोप्योऽनुरक्तमनसो भगवत्यनन्ते।
तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः।
ग्रस्तेऽहिना प्रियतमे भृशदुःखतप्ताः
शून्यं प्रियव्यतिहृतं ददृशुस्त्रिलोकम्॥ 20
ताः कृष्णमातरमपत्यमनु प्रविष्टां
तुल्यव्यथाः समनुगृह्य शुचः स्रवन्त्यः।
तास्ता व्रजप्रियकथाः कथयन्त्य आसन्
कृष्णाननेऽर्पितदृशो मृतकप्रतीकाः॥ 21
कृष्णप्राणान् निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम्।
प्रत्यषेधत् स भगवान् रामः कृष्णानुभाववित्॥ 22
इत्थं स्वगोकुलमनन्यगतिं निरीक्ष्य
सस्त्रीकुमारमतिदुःखितमात्महेतोः।
आज्ञाय मर्त्यपदवीमनुवर्तमानः
स्थित्वा मुहूर्तमुदतिष्ठदुरङ्गबन्धात्॥ 23
तत्प्रथ्यमानवपुषा व्यथितात्मभोगः
त्यक्त्वोन्नमय्य कुपितः स्वफणान् भुजङ्गः।
तस्थौ श्वसन् श्वसनरन्ध्रविषाम्बरीष
स्तब्धेक्षणोल्मुकमुखो हरिमीक्षमाणः॥ 24
तं जिह्वया द्विशिखया परिलेलिहानं
द्वे सृक्किणी ह्यतिकरालविषाग्निदृष्टिम्।
क्रीडन्नमुं परिससार यथा खगेन्द्रो
बभ्राम सोऽप्यवसरं प्रसमीक्षमाणः॥ 25
एवं परिभ्रमहतौजसमुन्नतांसम्
आनम्य तत्पृथुशिरःस्वधिरूढ आद्यः।
तन्मूर्धरत्ननिकरस्पर्शातिताम्र
पादाम्बुजोऽखिलकलादिगुरुर्ननर्त॥ 26
तं नर्तुमुद्यतमवेक्ष्य तदा तदीय
गन्धर्वसिद्धसुरचारणदेववध्वः।
प्रीत्या मृदङ्गपणवानकवाद्यगीत
पुष्पोपहारनुतिभिः सहसोपसेदुः॥ 27
यद् यद् शिरो न नमतेऽङ्ग शतैकशीर्ष्णः
तत् तन्ममर्द खरदण्डधरोऽङ्घ्रिपातैः।
क्षीणायुषो भ्रमत उल्बणमास्यतोऽसृङ्
नस्तो वमन् परमकश्मलमाप नागः॥ 28
तस्याक्षिभिर्गरलमुद्वमतः शिरःसु
यद् यत् समुन्नमति निःश्वसतो रुषोच्चैः।
नृत्यन् पदानुनमयन् दमयां बभूव
पुष्पैः प्रपूजित इवेह पुमान् पुराणः॥ 29
तच्चित्रताण्डवविरुग्णफणातपत्रो
रक्तं मुखैरुरु वमन् नृप भग्नगात्रः।
स्मृत्वा चराचरगुरुं पुरुषं पुराणं
नारायणं तमरणं मनसा जगाम॥ 30
कृष्णस्य गर्भजगतोऽतिभरावसन्नं
पार्ष्णिप्रहारपरिरुग्णफणातपत्रम्।
दृष्ट्वाहिमाद्यमुपसेदुरमुष्य पत्न्य
आर्ताः श्लथद्वसन भूषणकेशबन्धाः॥ 31
तास्तं सुविग्नमनसोऽथ पुरस्कृतार्भाः
कायं निधाय भुवि भूतपतिं प्रणेमुः।
साध्व्यः कृताञ्जलिपुटाः शमलस्य भर्तुः
मोक्षेप्सवः शरणदं शरणं प्रपन्नाः॥ 32
नागपत्न्य ऊचुः।
न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिन्
तवावतारः खलनिग्रहाय।
रिपोः सुतानामपि तुल्यदृष्टेः
धत्से दमं फलमेवानुशंसन्॥ 33
अनुग्रहोऽयं भवतः कृतो हि नो
दण्डोऽसतां ते खलु कल्मषापहः।
यद् दन्दशूकत्वममुष्य देहिनः
क्रोधोऽपि तेऽनुग्रह एव सम्मतः॥ 34
तपः सुतप्तं किमनेन पूर्वं
निरस्तमानेन च मानदेन।
धर्मोऽथ वा सर्वजनानुकम्पया
यतो भवांस्तुष्यति सर्वजीवः॥ 35
कस्यानुभावोऽस्य न देव विद्महे
तवाङ्घ्रिरेणु स्पर्शाधिकारः।
यद्वाञ्छया श्रीर्ललनाऽऽचरत् तपो
विहाय कामान् सुचिरं धृतव्रता॥ 36
न नाकपृष्ठं न च सार्वभौमं
न पारमेष्ठ्यं न रसाधिपत्यम्।
न योगसिद्धीरपुनर्भवं वा
वाञ्छन्ति यत्पादरजः प्रपन्नाः॥ 37
तदेष नाथाप दुरापमन्यैः
तमोजनिः क्रोधवशोऽप्यहीशः।
संसारचक्रे भ्रमतः शरीरिणो
यदिच्छतः स्याद् विभवः समक्षः॥ 38
नमस्तुभ्यं भगवते पुरुषाय महात्मने।
भूतावासाय भूताय पराय परमात्मने॥ 39
ज्ञानविज्ञाननिधये ब्रह्मणेऽनन्तशक्तये।
अगुणायाविकाराय नमस्तेऽप्राकृताय च॥ 40
कालाय कालनाभाय कालावयवसाक्षिणे।
विश्वाय तदुपद्रष्ट्रे तत्कर्त्रे विश्वहेतवे॥ 41
भूतमात्रेन्द्रियप्राण मनोबुद्ध्याशयात्मने।
त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये॥ 42
नमोऽनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते।
नानावादानुरोधाय वाच्यवाचक शक्तये॥ 43
नमः प्रमाणमूलाय कवये शास्त्रयोनये।
प्रवृत्ताय निवृत्ताय निगमाय नमो नमः॥ 44
नमः कृष्णाय रामाय वसुदेवसुताय च।
प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः॥ 45
नमो गुणप्रदीपाय गुणात्मच्छादनाय च।
गुणवृत्त्युपलक्ष्याय गुणद्रष्टे स्वसंविदे॥ 46
अव्याकृतविहाराय सर्वव्याकृतसिद्धये।
हृषीकेश नमस्तेऽस्तु मुनये मौनशीलिने॥ 47
परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः।
अविश्वाय च विश्वाय तद्द्रष्टेऽस्य च हेतवे॥ 48
त्वं ह्यस्य जन्मस्थितिसंयमान् प्रभो
गुणैरनीहोऽकृत कालशक्तिधृक्।
तत्तत् स्वभावान् प्रतिबोधयन् सतः
समीक्षयामोघविहार ईहसे॥ 49
तस्यैव तेऽमूस्तनवस्त्रिलोक्यां
शान्ता अशान्ता उत मूढयोनयः।
शान्ताः प्रियास्ते ह्यधुनावितुं सतां
स्थातुश्च ते धर्मपरीप्सयेहतः॥ 50
अपराधः सकृद् भर्त्रा सोढव्यः स्वप्रजाकृतः।
क्षन्तुमर्हसि शान्तात्मम् मूढस्य त्वामजानतः॥ 51
अनुगृह्णीष्व भगवन् प्राणांस्त्यजति पन्नगः।
स्त्रीणां नः साधुशोच्यानां पतिः प्राणः प्रदीयताम्॥ 52
विधेहि ते किङ्करीणां अनुष्ठेयं तवाज्ञया।
यच्छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतो भयात्॥ 53
श्रीशुक उवाच।
इत्थं स नागपत्नीभिः भगवान् समभिष्टुतः।
मूर्च्छितं भग्नशिरसं विससर्जाङ्घ्रिकुट्टनैः॥ 54
प्रतिलब्धेन्द्रियप्राणः कालियः शनकैर्हरिम्।
कृच्छ्राद् समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः॥ 55
कालिय उवाच
वयं खलाः सहोत्पत्त्या तमसा दीर्घमन्यवः।
स्वभावो दुस्त्यजो नाथ लोकानां यदसद्ग्रहः॥ 56
त्वया सृष्टमिदं विश्वं धातर्गुणविसर्जनम्।
नानास्वभाववीर्यौजो योनिबीजाशयाकृति॥ 57
वयं च तत्र भगवन् सर्पा जात्युरुमन्यवः।
कथं त्यजामस्त्वन्मायां दुस्त्यजां मोहिताः स्वयम्॥ 58
भवान् हि कारणं तत्र सर्वज्ञो जगदीश्वरः।
अनुग्रहं निग्रहं वा मन्यसे तद् विधेहि नः॥ 59
श्रीशुक उवाच।
इत्याकर्ण्य वचः प्राह भगवान् कार्यमानुषः।
नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम्।
स्वज्ञात्यपत्यदाराढ्यो गोनृभिर्भुज्यतां नदी॥ 60
य एतत् संस्मरेन्मर्त्यः तुभ्यं मदनुशासनम्।
कीर्तयन्नुभयोः सन्ध्योः न युष्मद् भयमाप्नुयात्॥ 61
योऽस्मिन् स्नात्वा मदाक्रीडे देवादीन् तर्पयेज्जलैः।
उपोष्य मां स्मरन्नर्चेत् सर्वपापैः प्रमुच्यते॥ 62
द्वीपं रमणकं हित्वा ह्रदमेतमुपाश्रितः।
यद्भयात् स सुपर्णस्त्वां नाद्यान्मत्पाद लाञ्छितम्॥ 63
श्रीशुक उवाच।
एवमुक्तो भगवता कृष्णेनाद्भुतकर्मणा।
तं पूजयामास मुदा नागपत्न्यश्च सादरम्॥ 64
दिव्याम्बरस्रङ् मणिभिः परार्ध्यैरपि भूषणैः।
दिव्यगन्धानुलेपैश्च महत्योत्पलमालया॥ 65
पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम्।
ततः प्रीतोऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम्॥ 66
सकलत्रसुहृत्पुत्रो द्वीपमब्धेर्जगाम ह।
तदैव सामृतजला यमुना निर्विषाभवत्।
अनुग्रहाद् भगवतः क्रीडामानुषरूपिणः॥ 67
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे पूर्वार्धे कालियमोक्षणं नाम
षोडशोऽध्यायः ॥ 16 ॥