header_image
Home
Tamil

दशमः स्कन्धः[पूर्वार्धः] :: अथ चतुर्थोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[पूर्वार्धः]
अथ चतुर्थोऽध्यायः
जिघांसोः कंसस्य हस्तादुन्मुक्ताया देव्या भगवदवतारसूचनं कंसानुतापः, तदीयदुर्मन्त्रिणां दुर्मन्त्रणं च
श्रीशुक उवाच।  बहिरन्तःपुरद्वारः सर्वाः पूर्ववदावृताः।   ततो बालध्वनिं श्रुत्वा गृहपालाः समुत्थिताः॥ 1  ते तु तूर्णमुपव्रज्य देवक्या गर्भजन्म तत्।  आचख्युर्भोजराजाय यदुद्विग्नः प्रतीक्षते॥ 2 स तल्पात् तूर्णमुत्थाय कालोऽयमिति विह्वलः।  सूतीगृहमगात् तूर्णं प्रस्खलन् मुक्तमूर्धजः॥ 3 तमाह भ्रातरं देवी कृपणा करुणं सती।  स्नुषेयं तव कल्याण स्त्रियं मा हन्तुमर्हसि॥ 4 बहवो हिंसिता भ्रातः शिशवः पावकोपमाः।  त्वया दैवनिसृष्टेन पुत्रिकैका प्रदीयताम्॥ 5 नन्वहं ते ह्यवरजा दीना हतसुता प्रभो।  दातुमर्हसि मन्दाया अङ्‌गेमां चरमां प्रजाम्॥ 6 श्रीशुक उवाच।  उपगुह्यात्मजामेवं रुदत्या दीन अदीनवत्।  याचितस्तां विनिर्भर्त्स्य हस्तादाचिच्छिदे खलः॥ 7 तां गृहीत्वा चरणयोर्जातमात्रां स्वसुः सुताम्।  अपोथयत् शिलापृष्ठे स्वार्थोन्मूलितसौहृदः॥ 8 सा तद्‌हस्तात् समुत्पत्य सद्यो देव्यंबरं गता।  अदृश्यतानुजा विष्णोः सायुधाष्टमहाभुजा॥ 9 दिव्यस्रगम्बरालेप रत्‍नाभरणभूषिता।  धनुःशूलेषुचर्मासि शंखचक्रगदाधरा॥ 10 सिद्धचारणगन्धर्वैरप्सरःकिन्नरोरगैः।  उपाहृतोरुबलिभिः स्तूयमानेदमब्रवीत्॥ 11 किं मया हतया मन्द जातः खलु तवान्तकृत्।  यत्र क्व वा पूर्वशत्रुर्मा हिंसीः कृपणान्वृथा॥ 12 इति प्रभाष्य तं देवी माया भगवती भुवि।  बहुनामनिकेतेषु बहुनामा बभूव ह॥ 13 तयाभिहितमाकर्ण्य कंसः परमविस्मितः।  देवकीं वसुदेवं च विमुच्य प्रश्रितोऽब्रवीत्॥ 14 अहो भगिन्यहो भाम मया वां बत पाप्मना।  पुरुषाद इवापत्यं बहवो हिंसिताः सुताः॥ 15 स त्वहं त्यक्तकारुण्यः त्यक्तज्ञातिसुहृत् खलः।  काँल्लोकान् वै गमिष्यामि ब्रह्महेव मृतः श्वसन्॥ 16 दैवमप्यनृतं वक्ति न मर्त्या एव केवलम्।  यद्विश्रम्भादहं पापः स्वसुर्निहतवान् शिशून्॥ 17 मा शोचतं महाभागावात्मजान् स्वकृतंभुजः।  जन्तवो न सदैकत्र दैवाधीनास्तदाऽऽसते॥ 18 भुवि भौमानि भूतानि यथा यान्त्यपयान्ति च।  नायमात्मा तथैतेषु विपर्येति यथैव भूः॥ 19 यथानेवंविदो भेदो यत आत्मविपर्ययः।  देहयोगवियोगौ च संसृतिर्न निवर्तते॥ 20 तस्माद्‍भद्रे स्वतनयान् मया व्यापादितानपि।  मानुशोच यतः सर्वः स्वकृतं विन्दतेऽवशः॥ 21 यावद्धतोऽस्मि हन्तास्मीत्यात्मानं मन्यतेऽस्वदृक्।  तावत् तदभिमान्यज्ञो बाध्यबाधकतामियात्॥ 22 क्षमध्वं मम दौरात्म्यं साधवो दीनवत्सलाः।  इत्युक्त्वाश्रुमुखः पादौ श्यालः स्वस्रोरथाग्रहीत्॥ 23 मोचयामास निगडात् विश्रब्धः कन्यकागिरा।  देवकीं वसुदेवं च दर्शयन् आत्मसौहृदम्॥ 24 भ्रातुः समनुतप्तस्य क्षान्त्वा रोषं च देवकी।  व्यसृजत् वसुदेवश्च प्रहस्य तमुवाच ह॥ 25 एवमेतन्महाभाग यथा वदसि देहिनाम्।  अज्ञानप्रभवाहंधीः स्वपरेति भिदा यतः॥ 26 शोकहर्षभयद्वेष लोभमोहमदान्विताः।  मिथो घ्नन्तं न पश्यन्ति भावैर्भावं पृथग्दृशः॥ 27 श्रीशुक उवाच।  कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषितः।  देवकी वसुदेवाभ्यामनुज्ञातो ऽविशद् गृहम्॥ 28 तस्यां रात्र्यां व्यतीतायां कंस आहूय मंत्रिणः।  तेभ्य आचष्ट तत् सर्वं यदुक्तं योगनिद्रया॥ 29 आकर्ण्य भर्तुर्गदितं तं ऊचुः देवशत्रवः।  देवान् प्रति कृतामर्षा दैतेया नातिकोविदाः॥ 30 एवं चेत् तर्हि भोजेन्द्र पुरग्रामव्रजादिषु।  अनिर्दशान् निर्दशांश्च हनिष्यामोऽद्य वै शिशून्॥ 31 किमुद्यमैः करिष्यन्ति देवाः समरभीरवः।  नित्यमुद्विग्नमनसो ज्याघोषैर्धनुषस्तव॥ 32 अस्यतस्ते शरव्रातैः हन्यमानाः समन्ततः।  जिजीविषव उत्सृज्य पलायनपरा ययुः॥ 33 केचित् प्राञ्जलयो दीना न्यस्तशस्त्रा दिवौकसः।  मुक्तकच्छशिखाः केचिद् भीताः स्म इति वादिनः॥ 34 न त्वं विस्मृतशस्त्रास्त्रान् विरथान् भयसंवृतान्।  हंस्यन्यासक्तविमुखान् भग्नचापानयुध्यतः॥ 35 किं क्षेमशूरैर्विबुधैरसंयुगविकत्थनैः।  रहोजुषा किं हरिणा शंभुना वा वनौकसा।  किमिन्द्रेणाल्पवीर्येण ब्रह्मणा वा तपस्यता॥ 36 तथापि देवाः सापत्‍न्यान् नोपेक्ष्या इति मन्महे।  ततस्तन्मूलखनने नियुंक्ष्वास्माननुव्रतान्॥ 37 यथामयोंऽगे समुपेक्षितो नृभिः       न शक्यते रूढपदश्चिकित्सितुम्।  यथेन्द्रियग्राम उपेक्षितस्तथा       रिपुर्महान् बद्धबलो न चाल्यते॥ 38 मूलं हि विष्णुर्देवानां यत्र धर्मः सनातनः।  तस्य च ब्रह्मगोविप्रास्तपो यज्ञाः सदक्षिणाः॥ 39 तस्मात्सर्वात्मना राजन् ब्राह्मणान् ब्रह्मवादिनः।  तपस्विनो यज्ञशीलान् गाश्च हन्मो हविर्दुघाः॥ 40 विप्रा गावश्च वेदाश्च तपः सत्यं दमः शमः।  श्रद्धा दया तितिक्षा च क्रतवश्च हरेस्तनूः॥ 41 स हि सर्वसुराध्यक्षो ह्यसुरद्‌विड् गुहाशयः।  तन्मूला देवताः सर्वाः सेश्वराः सचतुर्मुखाः।  अयं वै तद्‌वधोपायो यद्‌ऋषीणां विहिंसनम्॥ 42 श्रीशुक उवाच।  एवं दुर्मंत्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः।  ब्रह्महिंसां हितं मेने कालपाशावृतोऽसुरः॥ 43 सन्दिश्य साधुलोकस्य कदने कदनप्रियान्।  कामरूपधरान् दिक्षु दानवान् गृहमाविशत्॥ 44 ते वै रजः प्रकृतयस्तमसा मूढचेतसः।  सतां विद्वेषमाचेरुरारादागतमृत्यवः॥ 45 आयुः श्रियं यशो धर्मं लोकानाशिष एव च।  हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः॥ 46  ॥ इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे चतुर्थोऽध्यायः॥ 4 ॥
Tamil