header_image
Home
Tamil

दशमः स्कन्धः[पूर्वार्धः] :: अथ तृतीयोध्याऽयः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[पूर्वार्धः]
अथ तृतीयोध्याऽयः
श्रीकृष्णप्रादुर्भावः, वसुदेवदेवकीकृता भगवतः स्तुतिः, भगवदादेशेन कंसभीतस्य वसुदेवस्य गोकुलं प्रति स्वपुत्रनयनं ततो यशोदासुताया आनयनं च
श्रीशुक उवाच । अथ सर्वगुणोपेतः कालः परमशोभनः। यर्ह्येवाजनजन्मर्क्षं शान्तर्क्ष-ग्रहतारकम्॥ 1 दिशः प्रसेदुर्गगनं निर्मलोडुगणोदयम्। मही मंगलभूयिष्ठ पुरग्राम-व्रजाकरा॥ 2 नद्यः प्रसन्नसलिला ह्रदा जलरुहश्रियः। द्विजालिकुल सन्नाद स्तबका वनराजयः॥ 3 ववौ वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः। अग्नयश्च द्विजातीनां शान्तास्तत्र समिन्धत॥ 4 मनांस्यासन् प्रसन्नानि साधूनां असुरद्रुहाम्। जायमानेऽजने तस्मिन् नेदुर्दुन्दुभयो दिवि॥ 5 जगुः किन्नरगन्धर्वाः तुष्टुवुः सिद्धचारणाः। विद्याधर्यश्च ननृतुः अप्सरोभिः समं तदा॥ 6 मुमुचुर्मुनयो देवाः सुमनांसि मुदान्विताः। मन्दं मन्दं जलधरा जगर्जुरनुसागरम्॥ 7 निशीथे तम उद्‍भूते जायमाने जनार्दने। देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः। आविरासीद् यथा प्राच्यां दिशीन्दुरिव पुष्कलः॥ 8 तमद्‍भुतं बालकमम्बुजेक्षणं।      चतुर्भुजं शंखगदार्युदायुधम्। श्रीवत्सलक्ष्मं गलशोभि कौस्तुभं।      पीताम्बरं सान्द्रपयोदसौभगम्॥ 9 महार्हवैदूर्यकिरीटकुण्डल।      त्विषा परिष्वक्त सहस्रकुन्तलम्। उद्दाम काञ्च्यङ्‍गद कङ्कणादिभिः।      विरोचमानं वसुदेव ऐक्षत॥ 10 स विस्मयोत्फुल्ल विलोचनो हरिं।      सुतं विलोक्यानकदुन्दुभिस्तदा। कृष्णावतारोत्सव संभ्रमोऽस्पृशन्।      मुदा द्विजेभ्योऽयुतमाप्लुतो गवाम्॥ 11 अथैनमस्तौदवधार्य पूरुषं।      परं नताङ्‌गः कृतधीः कृताञ्जलिः। स्वरोचिषा भारत सूतिकागृहं।      विरोचयन्तं गतभीः प्रभाववित्॥ 12 श्रीवसुदेव उवाच । विदितोऽसि भवान् साक्षात् पुरुषः प्रकृतेः परः। केवलानुभवानन्द स्वरूपः सर्वबुद्धिदृक्॥ 13 स एव स्वप्रकृत्येदं सृष्ट्वाग्रे त्रिगुणात्मकम्। तदनु त्वं ह्यप्रविष्टः प्रविष्ट इव भाव्यसे॥ 14 यथेमेऽविकृता भावास्तथा ते विकृतैः सह। नानावीर्याः पृथग्भूता विराजं जनयन्ति हि॥ 15 सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव। प्रागेव विद्यमानत्वान्न तेषामिह संभवः॥ 16 एवं भवान् बुद्ध्यनुमेयलक्षणैः।      ग्राह्यैर्गुणैः सन्नपि तद्‍गुणाग्रहः। अनावृतत्वाद् बहिरन्तरं न ते।      सर्वस्य सर्वात्मन आत्मवस्तुनः॥ 17 य आत्मनो दृश्यगुणेषु सन्निति।      व्यवस्यते स्व-व्यतिरेकतोऽबुधः। विनानुवादं न च तन्मनीषितं।      सम्यग् यतस्त्यक्तमुपाददत् पुमान्॥ 18 त्वत्तोऽस्य जन्मस्थिति संयमान् विभो।      वदन्त्यनीहादगुणाद्विक्रियात्। त्वयीश्वरे ब्रह्मणि नो विरुध्यते।      त्वद् आश्रयत्वाद् उपचर्यते गुणैः॥ 19 स त्वं त्रिलोकस्थितये स्वमायया।      बिभर्षि शुक्लं खलु वर्णमात्मनः। सर्गाय रक्तं रजसोपबृंहितं।      कृष्णं च वर्णं तमसा जनात्यये॥ 20 त्वमस्य लोकस्य विभो रिरक्षिषुः।      गृहेऽवतीर्णोऽसि ममाखिलेश्वर। राजन्य संज्ञासुरकोटि यूथपैः।      निर्व्यूह्यमाना निहनिष्यसे चमूः॥ 21 अयं त्वसभ्यस्तव जन्म नौ गृहे।      श्रुत्वाग्रजांस्ते न्यवधीत् सुरेश्वर। स तेऽवतारं पुरुषैः समर्पितं।      श्रुत्वाधुनैवाभिसरत्युदायुधः॥ 22 श्रीशुक उवाच । अथैनमात्मजं वीक्ष्य महापुरुष लक्षणम्। देवकी तमुपाधावत् कंसाद् भीता सुचिस्मिता॥ 23 श्रीदेवक्युवाच । रूपं यत् तत् प्राहुरव्यक्तमाद्यं।      ब्रह्म ज्योतिर्निर्गुणं निर्विकारम्। सत्तामात्रं निर्विशेषं निरीहं।      स त्वं साक्षात् विष्णुरध्यात्मदीपः॥ 24 नष्टे लोके द्विपरार्धावसाने।      महाभूतेषु आदिभूतं गतेषु। व्यक्तेऽव्यक्तं कालवेगेन याते।      भवानेकः शिष्यते शेषसंज्ञः॥ 25 योऽयं कालस्तस्य तेऽव्यक्तबन्धो।      चेष्टामाहुश्चेष्टते येन विश्वम्। निमेषादिः वत्सरान्तो महीयान्।      तं त्वेशानं क्षेमधाम प्रपद्ये॥ 26 मर्त्यो मृत्युव्यालभीतः पलायन्।      लोकान् सर्वान् निर्भयं नाध्यगच्छत्। त्वत्पादाब्जं प्राप्य यदृच्छयाद्य।      स्वस्थः शेते मृत्युरस्मादपैति॥ 27 स त्वं घोरादुग्रसेनात्मजान्न।      स्त्राहि त्रस्तान् भृत्यवित्रासहासि। रूपं चेदं पौरुषं ध्यानधिष्ण्यं।      मा प्रत्यक्षं मांसदृशां कृषीष्ठाः॥ 28 जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन। समुद्विजे भवद्धेतोः कंसाद्हमधीरधीः॥ 29 उपसंहर विश्वात्मन्नदो रूपमलौकिकम्। शंखचक्रगदापद्म श्रिया जुष्टं चतुर्भुजम्॥ 30 विश्वं यदेतत् स्वतनौ निशान्ते।      यथावकाशं पुरुषः परो भवान्। बिभर्ति सोऽयं मम गर्भगोऽभूद्हो । नृलोकस्य विडंबनं हि तत्॥ 31 श्रीभगवानुवाच । त्वमेव पूर्वसर्गेऽभूः पृश्निः स्वायंभुवे सति। तदायं सुतपा नाम प्रजापतिरकल्मषः॥ 32 युवां वै ब्रह्मणाऽऽदिष्टौ प्रजासर्गे यदा ततः। सन्नियम्येन्द्रियग्रामं तेपाथे परमं तपः॥ 33 वर्षवाता-तप-हिम घर्मकालगुणाननु। सहमानौ श्वासरोध विनिर्धूत-मनोमलौ॥ 34 शीर्णपर्णा-निलाहारौ उपशान्तेन चेतसा। मत्तः कामानभीप्सन्तौ मदाराधनमीहतुः॥ 35 एवं वां तप्यतोस्तीव्रं तपः परमदुष्करम्। दिव्यवर्षसहस्राणि द्वादशेयुर्मदात्मनोः॥ 36 तदा वां परितुष्टोऽहं अमुना वपुषानघे। तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः॥ 37 प्रादुरासं वरदराड् युवयोः कामदित्सया। व्रियतां वर इत्युक्ते मादृशो वां वृतः सुतः॥ 38 अजुष्टग्राम्यविषयौ अनपत्यौ च दम्पती। न वव्राथेऽपवर्गं मे मोहितौ मम मायया॥ 39 गते मयि युवां लब्ध्वा वरं मत्सदृशं सुतम्। ग्राम्यान् भोगानभुञ्जाथां युवां प्राप्तमनोरथौ॥ 40 अदृष्ट्वान्यतमं लोके शीलौदार्यगुणैः समम्। अहं सुतो वामभवं पृश्निगर्भ इति श्रुतः॥ 41 तयोर्वां पुनरेवाहं अदित्यामास कश्यपात्। उपेन्द्र इति विख्यातो वामनत्वाच्च वामनः॥ 42 तृतीयेऽस्मिन् भवेऽहं वै तेनैव वपुषाथ वाम्। जातो भूयस्तयोरेव सत्यं मे व्याहृतं सति॥ 43 एतद् वां दर्शितं रूपं प्राग्जन्म स्मरणाय मे। नान्यथा मद्‍भवं ज्ञानं मर्त्यलिङ्गेन जायते॥ 44 युवां मां पुत्रभावेन ब्रह्मभावेन चासकृत्। चिन्तयन्तौ कृतस्नेहौ यास्येथे मद्‍गतिं पराम्॥ 45 श्रीशुक उवाच । इत्युक्त्वाऽऽसीद्धरिस्तूष्णीं भगवान् आत्ममायया। पित्रोः संपश्यतोः सद्यो बभूव प्राकृतः शिशुः॥ 46 ततश्च शौरिः भगवत्प्रचोदितः।      सुतं समादाय स सूतिकागृहात्। यदा बहिर्गन्तुमियेष तर्ह्यजा।      या योगमायाजनि नन्दजायया॥ 47 तया हृतप्रत्यय सर्ववृत्तिषु।      द्वाःस्थेषु पौरेष्वपि शायितेष्वथ। द्वारस्तु सर्वाः पिहिता दुरत्यया।      बृहत् कपाटायस कीलश्रृंखलैः॥ 48 ताः कृष्णवाहे वसुदेव आगते।      स्वयं व्यवर्यन्त यथा तमो रवेः। ववर्ष पर्जन्य उपांशुगर्जितः।      शेषोऽन्वगाद् वारि निवारयन् फणैः॥ 49 मघोनि वर्षत्यसकृत् यमानुजा।      गंभीर तोयौघ जवोर्मि फेनिला। भयानकावर्त शताकुला नदी।      मार्गं ददौ सिन्धुरिव श्रियः पतेः॥ 50 नन्दव्रजं शौरिरुपेत्य तत्र तान्।      गोपान् प्रसुप्तानुपलभ्य निद्रया। सुतं यशोदाशयने निधाय तत्।      सुतामुपादाय पुनर्गृहानगात्॥ 51 देवक्याः शयने न्यस्य वसुदेवोऽथ दारिकाम्। प्रतिमुच्य पदोर्लोहं आस्ते पूर्ववदावृतः॥ 52 यशोदा नन्दपत्‍नी च जातं परमबुध्यत। न तल्लिङ्गं परिश्रान्ता निद्रयापगतस्मृतिः॥ 53 ॥ इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कृष्णजन्मनि तृतीयोध्याऽयः ॥ 3 ॥
Tamil