श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[पूर्वार्धः]
अथ पञ्चमोऽध्यायः
गोकुले भगवतो जातकर्मादिमहोत्सवः, नन्दस्य मथुरागमनं तत्र नन्दवसुदेवसंवादः
श्रीशुक उवाच
नन्दस्त्वात्मज उत्पन्ने जाताह्लादो महामनाः।
आहूय विप्रान् वेदज्ञान् स्नातः शुचिरलंकृतः॥ 1
वाचयित्वा स्वस्त्ययनं जातकर्मात्मजस्य वै।
कारयामास विधिवत् पितृदेवार्चनं तथा॥ 2
धेनूनां नियुते प्रादाद् विप्रेभ्यः समलंकृते।
तिलाद्रीन् सप्त रत्नौघ शातकौंभांबरावृतान्॥ 3
कालेन स्नानशौचाभ्यां संस्कारैस्तपसेज्यया।
शुध्यन्ति दानैः सन्तुष्ट्या द्रव्याण्यात्माऽऽत्मविद्यया॥ 4
सौमंगल्यगिरो विप्राः सूतमागधवन्दिनः।
गायकाश्च जगुर्नेदुर्भेर्यो दुन्दुभयो मुहुः॥ 5
व्रजः सम्मृष्टसंसिक्त द्वाराजिरगृहान्तरः।
चित्रध्वज पताकास्रक् चैलपल्लवतोरणैः॥ 6
गावो वृषा वत्सतरा हरिद्रातैलरूषिताः।
विचित्र धातुबर्हस्रग् वस्त्रकाञ्चनमालिनः॥ 7
महार्हवस्त्राभरण कञ्चुकोष्णीषभूषिताः।
गोपाः समाययू राजन् नानोपायनपाणयः॥ 8
गोप्यश्चाकर्ण्य मुदिता यशोदायाः सुतोद्भवम्।
आत्मानं भूषयां चक्रुः वस्त्राकल्पाञ्जनादिभिः॥ 9
नवकुंकुमकिञ्जल्क मुखपंकजभूतयः।
बलिभिस्त्वरितं जग्मुः पृथुश्रोण्यश्चलत्कुचाः॥ 10
गोप्यः सुमृष्टमणिकुण्डल निष्ककण्ठ्यश्
चित्राम्बराः पथि शिखाच्युतमाल्यवर्षाः।
नन्दालयं सवलया व्रजतीर्विरेजुः
व्यालोलकुण्डल पयोधरहारशोभाः॥ 11
ता आशिषः प्रयुञ्जानाश्र्चिरं पाहीति बालके।
हरिद्राचूर्णतैलाद्भिः सिञ्चन्त्यो जनमुज्जगुः॥ 12
अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे।
कृष्णे विश्वेश्वरेऽनन्ते नन्दस्य व्रजमागते॥ 13
गोपाः परस्परं हृष्टा दधिक्षीरघृतांबुभिः।
आसिञ्चन्तो विलिंपन्तो नवनीतैश्च चिक्षिपुः॥ 14
नन्दो महामनास्तेभ्यो वासोऽलंकारगोधनम्।
सूतमागधवन्दिभ्यो येऽन्ये विद्योपजीविनः॥ 15
तैस्तैः कामैरदीनात्मा यथोचितं अपूजयत्।
विष्णोराराधनार्थाय स्वपुत्रस्योदयाय च॥ 16
रोहिणी च महाभागा नन्दगोपाभिनन्दिता।
व्यचरद् दिव्यवासःस्रक् कण्ठाभरणभूषिता॥ 17
तत आरभ्य नन्दस्य व्रजः सर्वसमृद्धिमान्।
हरेर्निवासात्मगुणै रमाक्रीडमभून् नृप॥ 18
गोपान् गोकुलरक्षायां निरूप्य मथुरां गतः।
नन्दः कंसस्य वार्षिक्यं करं दातुं कुरूद्वह॥ 19
वसुदेव उपश्रुत्य भ्रातरं नन्दमागतम्।
ज्ञात्वा दत्तकरं राज्ञे ययौ तदवमोचनम्॥ 20
तं दृष्ट्वा सहसोत्थाय देहः प्राणमिवागतम्।
प्रीतः प्रियतमं दोर्भ्यां सस्वजे प्रेमविह्वलः॥ 21
पूजितः सुखमासीनः पृष्ट्वानामयमादृतः।
प्रसक्तधीः स्वात्मजयोरिदमाह विशांपते॥ 22
दिष्ट्या भ्रातः प्रवयस इदानीमप्रजस्य ते।
प्रजाशाया निवृत्तस्य प्रजा यत् समपद्यत॥ 23
दिष्ट्या संसारचक्रेऽस्मिन् वर्तमानः पुनर्भवः।
उपलब्धो भवानद्य दुर्लभं प्रियदर्शनम्॥ 24
नैकत्र प्रियसंवासः सुहृदां चित्रकर्मणाम्।
ओघेन व्यूह्यमानानां प्लवानां स्रोतसो यथा॥ 25
कच्चित् पशव्यं निरुजं भूर्यम्बुतृणवीरुधम्।
बृहद्वनं तदधुना यत्रास्से त्वं सुहृद्वृतः॥ 26
भ्रातर्मम सुतः कच्चिन् मात्रा सह भवद्व्रजे।
तातं भवन्तं मन्वानो भवद्भ्यामुपलालितः॥ 27
पुंसस्त्रिवर्गो विहितः सुहृदो ह्यनुभावितः।
न तेषु क्लिश्यमानेषु त्रिवर्गोऽर्थाय कल्पते॥ 28
श्रीनन्द उवाच
अहो ते देवकी पुत्राः कंसेन बहवो हताः।
एकावशिष्टावरजा कन्या सापि दिवं गता॥ 29
नूनं ह्यदृष्टनिष्ठोऽयमदृष्टपरमो जनः।
अदृष्टमात्मनस्तत्त्वं यो वेद न स मुह्यति॥ 30
श्रीवसुदेव उवाच
करो वै वार्षिको दत्तो राज्ञे दृष्टा वयं च वः।
नेह स्थेयं बहुतिथं सन्त्युत्पाताश्च गोकुले॥ 31
श्रीशुक उवाच।
इति नंदादयो गोपाः प्रोक्तास्ते शौरिणा ययुः।
अनोभिरनडुद्युक्तैस्तमनुज्ञाप्य गोकुलम्॥ 32
॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे पूर्वार्धे नन्दवसुदेवसंगमो नाम
पञ्चमोऽध्यायः॥ 5