header_image
Home
Tamil

दशमः स्कन्धः[पूर्वार्धः] :: अथ षष्ठोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[पूर्वार्धः]
अथ षष्ठोऽध्यायः
पूतनावधः
श्रीशुक उवाच। नन्दः पथि वचः शौरेर्न मृषेति विचिन्तयन्। हरिं जगाम शरणमुत्पातागम शङ्‌‍कितः॥ 1 कंसेन प्रहिता घोरा पूतना बालघातिनी। शिशूंश्चचार निघ्नन्ती पुरग्रामव्रजादिषु॥ 2 न यत्र श्रवणादीनि रक्षोघ्नानि स्वकर्मसु। कुर्वन्ति सात्वतां भर्तुर्यातुधान्यश्च तत्र हि॥ 3 सा खेचर्येकदोपेत्य पूतना नन्दगोकुलम्। योषित्वा माययाऽऽत्मानं प्राविशत् कामचारिणी॥ 4 तां केशबन्धव्यतिषक्तमल्लिकां      बृहन्नितंब स्तनकृच्छ्रमध्यमाम्। सुवाससं कल्पितकर्णभूषण      त्विषोल्लसत् कुन्तलमण्डिताननाम्॥ 5 वल्गुस्मितापाङ्‌‍ग विसर्गवीक्षितैः      मनो हरन्तीं वनितां व्रजौकसाम्। अमंसताम्भोजकरेण रूपिणीं      गोप्यः श्रियं द्रष्टुमिवागतां पतिम्॥ 6 बालग्रहस्तत्र विचिन्वती शिशून्      यदृच्छया नन्दगृहेऽसदन्तकम्। बालं प्रतिच्छन्ननिजोरुतेजसं      ददर्श तल्पेऽग्निमिवाहितं भसि॥ 7 विबुध्य तां बालक मारिकाग्रहं      चराचरात्माऽऽस निमीलितेक्षणः। अनन्तमारोपयदङ्‌कमन्तकं      यथोरगं सुप्तमबुद्धिरज्जुधीः॥ 8 तां तीक्ष्णचित्तामतिवामचेष्टितां      वीक्ष्यान्तरा कोशपरिच्छदासिवत्। वरस्त्रियं तत्प्रभया च धर्षिते      निरीक्ष्यमाणे जननी ह्यतिष्ठताम्॥ 9 तस्मिन् स्तनं दुर्जरवीर्यमुल्बणं      घोराङ्‌कमादाय शिशोर्ददावथ। गाढं कराभ्यां भगवान् प्रपीड्य तत्      प्राणैः समं रोषसमन्वितोऽपिबत्॥ 10 सा मुञ्च मुञ्चालमितिप्रभाषिणी      निष्पीड्य मानाखिलजीवमर्मणि। विवृत्य नेत्रे चरणौ भुजौ मुहुः      प्रस्विन्नगात्रा क्षिपती रुरोद ह॥ 11 तस्याः स्वनेनातिगभीररंहसा      साद्रिर्मही द्यौश्च चचाल सग्रहा। रसा दिशश्च प्रतिनेदिरे जनाः      पेतुः क्षितौ वज्रनिपातशङ्‌कया॥ 12 निशाचरीत्थं व्यथितस्तना व्यसुर्      व्यादाय केशांश्चरणौ भुजावपि। प्रसार्य गोष्ठे निजरूपमास्थिता      वज्राहतो वृत्र इवापतन्नृप॥ 13 पतमानोऽपि तद्देहस्त्रिगव्यूत्यन्तरद्रुमान्। चूर्णयामास राजेन्द्र महदासीत् तदद्‍भुतम्॥ 14 ईषामात्रोग्रदंष्ट्रास्यं गिरिकन्दरनासिकम्। गण्डशैलस्तनं रौद्रं प्रकीर्णारुणमूर्धजम्॥ 15 अन्धकूपगभीराक्षं पुलिनारोहभीषणम्। बद्धसेतुभुजोर्वङ्‌घ्रि शून्यतोयह्रदोदरम्॥ 16 सन्तत्रसुः स्म तद् वीक्ष्य गोपा गोप्यः कलेवरम्। पूर्वं तु तन्निःस्वनित भिन्नहृत्कर्णमस्तकाः॥ 17 बालं च तस्या उरसि क्रीडन्तमकुतोभयम्। गोप्यस्तूर्णं समभ्येत्य जगृहुर्जातसंभ्रमाः॥ 18 यशोदारोहिणीभ्यां ताः समं बालस्य सर्वतः। रक्षां विदधिरे सम्यग्गोपुच्छभ्रमणादिभिः॥ 19 गोमूत्रेण स्नापयित्वा पुनर्गोरजसार्भकम्। रक्षां चक्रुश्च शकृता द्वादशाङ्‌गेषु नामभिः॥ 20 गोप्यः संस्पृष्टसलिला अङ्‌गेषु करयोः पृथक्। न्यस्यात्मन्यथ बालस्य बीजन्यासमकुर्वत॥ 21 अव्यादजोऽङ्‌घ्रि मणिमांस्तव जान्वथोरू      यज्ञोऽच्युतः कटितटं जठरं हयास्यः। हृत् केशवस्त्वदुर ईश इनस्तु कण्ठं      विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम्॥ 22 चक्र्यग्रतः सहगदो हरिरस्तु पश्चात्।      त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च। कोणेषु शङ्‌ख उरुगाय उपर्युपेन्द्रः      तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात्॥ 23 इन्द्रियाणि हृषीकेशः प्राणान् नारायणोऽवतु। श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु॥ 24 पृश्निगर्भस्तु ते बुद्धिमात्मानं भगवान् परः। क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः॥ 25 व्रजन्तमव्याद् वैकुण्ठ आसीनं त्वां श्रियः पतिः। भुञ्जानं यज्ञभुक् पातु सर्वग्रहभयङ्‌करः॥ 26 डाकिन्यो यातुधान्यश्च कूष्माण्डा येऽर्भकग्रहाः। भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः॥ 27 कोटरा रेवती ज्येष्ठा पूतना मातृकादयः। उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः॥ 28 स्वप्नदृष्टा महोत्पाता वृद्धाबालग्रहाश्च ये। सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः॥ 29 श्रीशुक उवाच। इति प्रणयबद्धाभिर्गोपीभिः कृतरक्षणम्। पाययित्वा स्तनं माता संन्यवेशयदात्मजम्॥ 30 तावन्नन्दादयो गोपा मथुराया व्रजं गताः। विलोक्य पूतनादेहं बभूवुरतिविस्मिताः॥ 31 नूनं बतर्षिः सञ्जातो योगेशो वा समास सः। स एव दृष्टो ह्युत्पातो यदाहानकदुन्दुभिः॥ 32 कलेवरं परशुभिश्छित्त्वा तत् ते व्रजौकसः। दूरे क्षिप्त्वावयवशो न्यदहन् काष्ठधिष्टितम्॥ 33 दह्यमानस्य देहस्य धूमश्चागुरुसौरभः। उत्थितः कृष्णनिर्भुक्तसपद्याहतपाप्मनः॥ 34 पूतना लोकबालघ्नी राक्षसी रुधिराशना। जिघांसयापि हरये स्तनं दत्त्वाऽऽप सद्‍गतिम्॥ 35 किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने। यच्छन् प्रियतमं किं नु रक्तास्तन्मातरो यथा॥ 36 पद्‍भ्यां भक्तहृदिस्थाभ्यां वन्द्याभ्यां लोकवन्दितैः। अङ्‌गं यस्याः समाक्रम्य भगवानपिबत् स्तनम्॥ 37 यातुधान्यपि सा स्वर्गमवाप जननीगतिम्। कृष्णभुक्तस्तनक्षीराः किमु गावो नु मातरः॥ 38 पयांसि यासामपिबत् पुत्रस्नेहस्नुतान्यलम्। भगवान् देवकीपुत्रः कैवल्याद्यखिलप्रदः॥ 39 तासामविरतं कृष्णे कुर्वतीनां सुतेक्षणम्। न पुनः कल्पते राजन् संसारोऽज्ञानसंभवः॥ 40 कटधूमस्य सौरभ्यमवघ्राय व्रजौकसः। किमिदं कुत एवेति वदन्तो व्रजमाययुः॥ 41 ते तत्र वर्णितं गोपैः पूतनागमनादिकम्। श्रुत्वा तन्निधनं स्वस्ति शिशोश्चासन् सुविस्मिताः॥ 42 नन्दः स्वपुत्रमादाय प्रेत्यागतमुदारधीः। मूर्ध्न्युपाघ्राय परमां मुदं लेभे कुरूद्वह॥ 43 य एतत् पूतनामोक्षं कृष्णस्यार्भकमद्‍भुतम्। श्रृणुयाच्छ्द्धया मर्त्यो गोविन्दे लभते रतिम्॥ 44 ॥ इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे षष्ठोऽध्यायः ॥ 6 ॥
Tamil