header_image
Home
Tamil

दशमः स्कन्धः[पूर्वार्धः] :: अथ त्रयोविंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[पूर्वार्धः]
अथ त्रयोविंशोऽध्यायः
अन्नयाच्ञामिषेण यज्ञपत्नीष्वनुग्रहः
श्रीगोप ऊचुः - राम राम महावीर्य कृष्ण दुष्टनिबर्हण। एषा वै बाधते क्षुन् नः तच्छान्तिं कर्तुमर्हथः॥ 1 श्रीशुक उवाच - इति विज्ञापितो गोपैः भगवान् देवकीसुतः। भक्ताया विप्रभार्यायाः प्रसीदन्निदमब्रवीत्॥ 2 प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः। सत्रमाङ्‌गिरसं नाम ह्यासते स्वर्गकाम्यया॥ 3 तत्र गत्वौदनं गोपा याचतास्मद् विसर्जिताः। कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम्॥ 4 इत्यादिष्टा भगवता गत्वायाचन्त ते तथा। कृताञ्जलिपुटा विप्रान् दण्डवत् पतिता भुवि॥ 5 हे भूमिदेवाः श्रृणुत कृष्णस्यादेशकारिणः। प्राप्ताञ्जानीत भद्रं वो गोपान् नो रामचोदितान्॥ 6 गाश्चारयन्ताविदूर ओदनं रामाच्युतौ वो लषतो बुभुक्षितौ। तयोर्द्विजा ओदनमर्थिनोर्यदि श्रद्धा च वो यच्छत धर्मवित्तमाः॥ 7 दीक्षायाः पशुसंस्थायाः सौत्रामण्याश्च सत्तमाः। अन्यत्र दीक्षितस्यापि नान्नमश्नन् हि दुष्यति॥ 8 इति ते भगवद्याच्ञां शृण्वन्तोऽपि न शुश्रुवुः। क्षुद्राशा भूरिकर्माणो बालिशा वृद्धमानिनः॥ 9 देशः कालः पृथग् द्रव्यं मंत्रतंत्रर्त्विजोऽग्नयः। देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः॥ 10 तं ब्रह्म परमं साक्षाद् भगवन्तमधोक्षजम्। मनुष्यदृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे॥ 11 न ते यदोमिति प्रोचुः न नेति च परन्तप। गोपा निराशाः प्रत्येत्य तथोचुः कृष्णरामयोः॥ 12 तदुपाकर्ण्य भगवान् प्रहस्य जगदीश्वरः। व्याजहार पुनर्गोपान् दर्शयँलौकिकीं गतिम्॥ 13 मां ज्ञापयत पत्‍नीभ्यः ससङ्‌कर्षणमागतम्। दास्यन्ति काममन्नं वः स्निग्धा मय्युषिता धिया॥14 गत्वाथ पत्‍नीशालायां दृष्ट्वाऽऽसीनाः स्वलङ्‌कृताः। नत्वा द्विजसतीर्गोपाः प्रश्रिता इदमब्रुवन्॥ 15 नमो वो विप्रपत्‍नीभ्यो निबोधत वचांसि नः। इतोऽविदूरे चरता कृष्णेनेहेषिता वयम्॥ 16 गाश्चारयन् स गोपालैः सरामो दूरमागतः। बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम्॥ 17 श्रुत्वाच्युतमुपायातं नित्यं तद्दर्शनोत्सुकाः। तत्कथाक्षिप्तमनसो बभूवुर्जातसम्भ्रमाः॥ 18 चतुर्विधं बहुगुणमन्नमादाय भाजनैः। अभिसस्रुः प्रियं सर्वाः समुद्रमिव निम्नगाः॥ 19 निषिध्यमानाः पतिभिः भ्रातृभिर्बन्धुभिः सुतैः। भगवत्युत्तमश्लोके दीर्घश्रुत धृताशयाः॥ 20 यमुनोपवनेऽशोक नवपल्लवमण्डिते। विचरन्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः॥ 21 श्यामं हिरण्यपरिधिं वनमाल्यबर्ह धातुप्रवालनटवेषमनुव्रतांसे। विन्यस्तहस्तमितरेण धुनानमब्जं कर्णोत्पलालक कपोलमुखाब्जहासम्॥ 22 प्रायःश्रुतप्रियतमोदयकर्णपूरैः यस्मिन् निमग्नमनसः तमथाक्षिरंध्रैः। अन्तः प्रवेश्य सुचिरं परिरभ्य तापं प्राज्ञं यथाभिमतयो विजहुर्नरेन्द्र॥ 23 तास्तथा त्यक्तसर्वाशाः प्राप्ता आत्मदिदृक्षया। विज्ञायाखिलदृग्द्रष्टा प्राह प्रहसिताननः॥ 24 स्वागतं वो महाभागा आस्यतां करवाम किम्। यन्नो दिदृक्षया प्राप्ता उपपन्नमिदं हि वः॥ 25 नन्वद्धा मयि कुर्वन्ति कुशलाः स्वार्थदर्शिनः। अहैतुक्यव्यवहितां भक्तिमात्मप्रिये यथा॥ 26 प्राणबुद्धिमनःस्वात्म दारापत्यधनादयः। यत्सम्पर्कात् प्रिया आसन् ततः को न्वपरः प्रियः॥27 तद् यात देवयजनं पतयो वो द्विजातयः। स्वसत्रं पारयिष्यन्ति युष्माभिर्गृहमेधिनः॥ 28 श्रीपत्‍न्य ऊचुः। मैवं विभोऽर्हति भवान् गदितुं नृशंसं सत्यं कुरुष्व निगमं तव पादमूलम्। प्राप्ता वयं तुलसिदाम पदावसृष्टं केशैर्निवोढुमतिलङ्‌घ्य समस्तबन्धून्॥ 29 गृह्णन्ति नो न पतयः पितरौ सुता वा न भ्रातृबन्धुसुहृदः कुत एव चान्ये। तस्माद् भवत्प्रपदयोः पतितात्मनां नो नान्या भवेद् गतिररिन्दम तद् विधेहि॥ 30 श्रीभगवानुवाच - पतयो नाभ्यसूयेरन् पितृभ्रातृसुतादयः। लोकाश्च वो मयोपेता देवा अप्यनुमन्वते॥ 31 न प्रीतयेऽनुरागाय ह्यङ्‌गसङ्‌गो नृणामिह। तन्मनो मयि युञ्जाना अचिरान्मामवाप्स्यथ॥ 32 श्रीशुक उवाच - इत्युक्ता द्विजपत्‍न्यस्ता यज्ञवाटं पुनर्गताः। ते चानसूयवः स्वाभिः स्त्रीभिः सत्रमपारयन्॥ 33 तत्रैका विधृता भर्त्रा भगवन्तं यथाश्रुतम्। हृदोपगुह्य विजहौ देहं कर्मानुबन्धनम्॥ 34 भगवानपि गोविन्दस्तेनैवान्नेन गोपकान्। चतुर्विधेनाशयित्वा स्वयं च बुभुजे प्रभुः॥ 35 एवं लीलानरवपुर्नृलोकमनुशीलयन्। रेमे गोगोपगोपीनां रमयन् रूपवाक्कृतैः॥ 36 अथानुस्मृत्य विप्रास्ते अन्वतप्यन् कृतागसः। यद् विश्वेश्वरयोर्याच्ञामहन्म नृविडम्बयोः॥ 37 दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिमलौकिकीम्। आत्मानं च तया हीनमनुतप्ता व्यगर्हयन्॥ 38 धिग् जन्म नस्त्रिवृत् विद्यां धिग् व्रतं धिग् बहुज्ञताम्। धिक् कुलं धिक् क्रियादाक्ष्यं विमुखा ये त्वधोक्षजे॥ 39 नूनं भगवतो माया योगिनामपि मोहिनी। यद् वयं गुरवो नृणां स्वार्थे मुह्यामहे द्विजाः॥ 40 अहो पश्यत नारीणामपि कृष्णे जगद्‍गुरौ। दुरन्तभावं योऽविध्यन् मृत्युपाशान् गृहाभिधान्॥ 41 नासां द्विजातिसंस्कारो न निवासो गुरावपि। न तपो नात्ममीमांसा न शौचं न क्रियाः शुभाः॥ 42 अथापि ह्युत्तमःश्लोके कृष्णे योगेश्वरेश्वरे। भक्तिर्दृढा न चास्माकं संस्कारादिमतामपि॥ 43 ननु स्वार्थविमूढानां प्रमत्तानां गृहेहया। अहो नः स्मारयामास गोपवाक्यैः सतां गतिः॥ 44 अन्यथा पूर्णकामस्य कैवल्याद्यशिषां पतेः। ईशितव्यैः किमस्माभिरीशस्यैतद् विडम्बनम्॥ 45 हित्वान्यान् भजते यं श्रीः पादस्पर्शाशया सकृत्। आत्मदोषापवर्गेण तद्याच्ञा जनमोहिनी॥ 46 देशः कालः पृथग्द्रव्यं मंत्रतंत्रर्त्विजोऽग्नयः। देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः॥ 47 स एष भगवान् साक्षाद् विष्णुर्योगेश्वरेश्वरः। जातो यदुष्वित्याश्रृण्म ह्यपि मूढा न विद्महे॥ 48 अहो वयं धन्यतमा येषां नस्तादृशीः स्त्रियः। भक्त्या यासां मतिर्जाता अस्माकं निश्चला हरौ॥ 49 नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे। यन्मायामोहितधियो भ्रमामः कर्मवर्त्मसु॥ 50 स वै न आद्यः पुरुषः स्वमायामोहितात्मनाम्। अविज्ञतानुभावानां क्षन्तुमर्हत्यतिक्रमम्॥ 51 इति स्वाघमनुस्मृत्य कृष्णे ते कृतहेलनाः । दिदृक्षवोऽप्यच्युतयोः कंसाद् भीता न चाचलन्॥ 52 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे यज्ञपत्न्युद्धरणं नाम त्रयोविंशोऽध्यायः ॥ 23 ॥
Tamil