header_image
Home
Tamil

दशमः स्कन्धः[पूर्वार्धः] :: अथ षट्चत्वारिंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[पूर्वार्धः]
अथ षट्चत्वारिंशोऽध्यायः
स्वविरहार्तगोपगोपीनां सान्त्वनाय भगवतोद्धवस्य प्रस्थापनम् नन्दोद्धवसंवदश्च
श्रीशुक उवाच वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा। शिष्यो बृहस्पतेः साक्षादुद्धवो बुद्धिसत्तमः॥ १ तमाह भगवान् प्रेष्ठं भक्तमेकान्तिनं क्वचित्। गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो हरिः॥ २ गच्छोद्धव व्रजं सौम्य पित्रोर्नौ प्रीतिमावह। गोपीनां मद्वियोगाधिं मत्सन्देशैर्विमोचय॥ ३ ता मन्मनस्का मत्प्राणा मदर्थे त्यक्तदैहिकाः। मामेव दयितं प्रेष्ठमात्मानं मनसा गताः। ये त्यक्तलोकधर्माश्च मदर्थे तान् बिभर्म्यहम्॥ ४ मयि ताः प्रेयसां प्रेष्ठे दूरस्थे गोकुलस्त्रियः। स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्यविह्वलाः॥ ५ धारयन्त्यतिकृच्छ्रेण प्रायः प्राणान् कथञ्चन। प्रत्यागमनसन्देशैर्बल्लव्यो मे मदात्मिकाः॥ ६ श्रीशुक उवाच इत्युक्त उद्धवो राजन् सन्देशं भर्तुरादृतः। आदाय रथमारुह्य प्रययौ नन्दगोकुलम्॥ ७ प्राप्तो नन्दव्रजं श्रीमान् निम्लोचति विभावसौ। छन्नयानः प्रविशतां पशूनां खुररेणुभिः॥ ८ वासितार्थेऽभियुध्यद्भिर्नादितं शुष्मिभिर्वृषैः। धावन्तीभिश्च वास्राभिरूधोभारैः स्ववत्सकान्॥ ९ इतस्ततो विलङ्घद्भिर्गोवत्सैर्मण्डितं सितैः। गोदोहशब्दाभिरवं वेणूनां निःस्वनेन च॥ १० गायन्तीभिश्च कर्माणि शुभानि बलकृष्णयोः। स्वलङ्कृताभिर्गोपीभिर्गोपैश्च सुविराजितम्॥ ११ अग्न्यर्कातिथिगोविप्र पितृदेवार्चनान्वितैः। धूपदीपैश्च माल्यैश्च गोपावासैर्मनोरमम्॥ १२ सर्वतः पुष्पितवनं द्विजालिकुलनादितम्। हंसकारण्डवाकीर्णैः पद्मषण्डैश्च मण्डितम्॥ १३ तमागतं समागम्य कृष्णस्यानुचरं प्रियम्। नन्दः प्रीतः परिष्वज्य वासुदेवधियाऽऽर्चयत्॥ १४ भोजितं परमान्नेन संविष्टं कशिपौ सुखम्। गतश्रमं पर्यपृच्छत् पादसंवाहनादिभिः॥ १५ कच्चिदङ्ग महाभाग सखा नः शूरनन्दनः। आस्ते कुशल्यपत्याद्यैर्युक्तो मुक्तः सुहृद्वृतः॥ १६ दिष्ट्या कंसो हतः पापः सानुगः स्वेन पाप्मना। साधूनां धर्मशीलानां यदूनां द्वेष्टि यः सदा॥ १७ अपि स्मरति नः कृष्णो मातरं सुहृदः सखीन्। गोपान् व्रजं चात्मनाथं गावो वृन्दावनं गिरिम्॥ १८ अप्यायास्यति गोविन्दः स्वजनान् सकृदीक्षितुम्। तर्हि द्रक्ष्याम तद्वक्त्रं सुनसं सुस्मितेक्षणम्॥ १९ दावाग्नेर्वातवर्षाच्च वृषसर्पाच्च रक्षिताः। दुरत्ययेभ्यो मृत्युभ्यः कृष्णेन सुमहात्मना॥ २० स्मरतां कृष्णवीर्याणि लीलापाङ्गनिरीक्षितम्। हसितं भाषितं चाङ्ग सर्वा नः शिथिलाः क्रियाः॥ २१ सरिच्छैलवनोद्देशान् मुकुन्दपदभूषितान्। आक्रीडानीक्ष्यमाणानां मनो याति तदात्मताम्॥ २२ मन्ये कृष्णं च रामं च प्राप्ताविह सुरोत्तमौ। सुराणां महदर्थाय गर्गस्य वचनं यथा॥ २३ कंसं नागायुतप्राणं मल्लौ गजपतिं यथा। अवधिष्टां लीलयैव पशूनिव मृगाधिपः॥ २४ तालत्रयं महासारं धनुर्यष्टिमिवेभराट्। बभञ्जैकेन हस्तेन सप्ताहमदधाद् गिरिम्॥ २५ प्रलम्बो धेनुकोऽरिष्टस्तृणावर्तो बकादयः। दैत्याः सुरासुरजितो हता येनेह लीलया॥ २६ श्रीशुक उवाच इति संस्मृत्य संस्मृत्य नन्दः कृष्णानुरक्तधीः। अत्युत्कण्ठोऽभवत्तूष्णीं प्रेमप्रसरविह्वलः॥ २७ यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च। शृण्वन्त्यश्रूण्यवास्राक्षीत् स्नेहस्नुतपयोधरा॥ २८ तयोरित्थं भगवति कृष्णे नन्दयशोदयोः। वीक्ष्यानुरागं परमं नन्दमाहोद्धवो मुदा॥ २९ श्रीउद्धव उवाच युवां श्लाघ्यतमौ नूनं देहिनामिह मानद। नारायणेऽखिलगुरौ यत् कृता मतिरीदृशी॥ ३० एतौ हि विश्वस्य च बीजयोनी रामो मुकुन्दः पुरुषः प्रधानम्। अन्वीय भूतेषु विलक्षणस्य ज्ञानस्य चेशात इमौ पुराणौ॥ ३१ यस्मिन्जनः प्राणवियोगकाले क्षणं समावेश्य मनो विशुद्धम्। निर्हृत्य कर्माशयमाशु याति परां गतिं ब्रह्ममयोऽर्कवर्णः॥ ३२ तस्मिन् भवन्तावखिलात्महेतौ नारायणे कारणमर्त्यमूर्तौ। भावं विधत्तां नितरां महात्मन् किं वावशिष्टं युवयोः सुकृत्यम्॥ ३३ आगमिष्यत्यदीर्घेण कालेन व्रजमच्युतः। प्रियं विधास्यते पित्रोर्भगवान् सात्वतां पतिः॥ ३४ हत्वा कंसं रङ्गमध्ये प्रतीपं सर्वसात्वताम्। यदाह वः समागत्य कृष्णः सत्यं करोति तत्॥ ३५ मा खिद्यतं महाभागौ द्रक्ष्यथः कृष्णमन्तिके। अन्तर्हृदि स भूतानामास्ते ज्योतिरिवैधसि॥ ३६ न ह्यस्यास्ति प्रियः कश्चिन्नाप्रियो वास्त्यमानिनः। नोत्तमो नाधमो नापि समानस्यासमोऽपि वा॥ ३७ न माता न पिता तस्य न भार्या न सुतादयः। नात्मीयो न परश्चापि न देहो जन्म एव च॥ ३८ न चास्य कर्म वा लोके सदसन्मिश्रयोनिषु। क्रीडार्थः सोऽपि साधूनां परित्राणाय कल्पते॥ ३९ सत्त्वं रजस्तम इति भजते निर्गुणो गुणान्। क्रीडन्नतीतोऽत्र गुणैः सृजत्यवति हन्त्यजः॥ ४० यथा भ्रमरिकादृष्ट्या भ्राम्यतीव महीयते। चित्ते कर्तरि तत्रात्मा कर्तेवाहंधिया स्मृतः॥ ४१ युवयोरेव नैवायमात्मजो भगवान् हरिः। सर्वेषामात्मजो ह्यात्मा पिता माता स ईश्वरः॥ ४२ दृष्टं श्रुतं भूतभवद् भविष्यत् स्थास्नुश्चरिष्णुर्महदल्पकं च। विनाच्युताद् वस्तु तरां न वाच्यं स एव सर्वं परमात्मभूतः॥ ४३ एवं निशा सा ब्रुवतोर्व्यतीता नन्दस्य कृष्णानुचरस्य राजन्। गोप्यः समुत्थाय निरूप्य दीपान् वास्तून् समभ्यर्च्य दधीन्यमन्थन्न्॥ ४४ ता दीपदीप्तैर्मणिभिर्विरेजू रज्जूर्विकर्षद्भुजकङ्कणस्रजः। चलन्नितम्बस्तनहारकुण्डल- त्विषत्कपोलारुणकुङ्कुमाननाः॥ ४५ उद्गायतीनामरविन्दलोचनं व्रजाङ्गनानां दिवमस्पृशद् ध्वनिः। दध्नश्च निर्मन्थनशब्दमिश्रितो निरस्यते येन दिशाममङ्गलम्॥ ४६ भगवत्युदिते सूर्ये नन्दद्वारि व्रजौकसः। दृष्ट्वा रथं शातकौम्भं कस्यायमिति चाब्रुवन्॥ ४७ अक्रूर आगतः किं वा यः कंसस्यार्थसाधकः। येन नीतो मधुपुरीं कृष्णः कमललोचनः॥ ४८ किं साधयिष्यत्यस्माभिर्भर्तुः प्रीतस्य निष्कृतिम्। ततः स्त्रीणां वदन्तीनामुद्धवोऽगात् कृताह्निकः॥ ४९ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे नन्दशोकापनयनं नाम षट्चत्वारिंशोऽध्यायः ॥ ४६
Tamil