header_image
Home
Tamil

दशमः स्कन्धः[पूर्वार्धः] :: अथ सप्तचत्वारिंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[पूर्वार्धः]
अथ सप्तचत्वारिंशोऽध्यायः
उद्धवगोपीसंवाद्ः भ्रमरगीतम् उद्धवस्य मथुरागमनं च
श्रीशुक उवाच तं वीक्ष्य कृष्णानुचरं व्रजस्त्रियः प्रलम्बबाहुं नवकञ्जलोचनम्। पीताम्बरं पुष्करमालिनं लस- न्मुखारविन्दं मणिमृष्टकुण्डलम्॥ १ शुचिस्मिताः कोऽयमपीच्यदर्शनः कुतश्च कस्याच्युतवेषभूषणः। इति स्म सर्वाः परिवव्रुरुत्सुका- स्तमुत्तमश्लोकपदाम्बुजाश्रयम्॥ २ तं प्रश्रयेणावनताः सुसत्कृतं सव्रीडहासेक्षणसूनृतादिभिः। रहस्यपृच्छन्नुपविष्टमासने विज्ञाय सन्देशहरं रमापतेः॥ ३ जानीमस्त्वां यदुपतेः पार्षदं समुपागतम्। भर्त्रेह प्रेषितः पित्रोर्भवान् प्रियचिकीर्षया। ४ अन्यथा गोव्रजे तस्य स्मरणीयं न चक्ष्महे। स्नेहानुबन्धो बन्धूनां मुनेरपि सुदुस्त्यजः॥ ५ अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम्। पुम्भिः स्त्रीषु कृता यद्वत् सुमनस्स्विव षट्पदैः। ६ निस्स्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः। अधीतविद्या आचार्यमृत्विजो दत्तदक्षिणम्॥ ७ खगा वीतफलं वृक्षं भुक्त्वा चातिथयो गृहम्। दग्धं मृगास्तथारण्यं जारो भुक्त्वा रतां स्त्रियम्॥ ८ इति गोप्यो हि गोविन्दे गतवाक्कायमानसाः। कृष्णदूते व्रजं याते उद्धवे त्यक्तलौकिकाः॥ ९ गायन्त्यः प्रीयकर्माणि रुदन्त्यश्च गतह्रियः। तस्य संस्मृत्य संस्मृत्य यानि कैशोरबाल्ययोः॥ १० काचिन्मधुकरं दृष्ट्वा ध्यायन्ती कृष्णसङ्गमम्। प्रियप्रस्थापितं दूतं कल्पयित्वेदमब्रवीत्॥ ११ गोप्युवाच मधुप कितवबन्धो मा स्पृशङ्घ्रिं सपत्न्याः कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः। वहतु मधुपतिस्तन्मानिनीनां प्रसादं यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक्॥ १२ सकृदधरसुधां स्वां मोहिनीं पाययित्वा सुमनस इव सद्यस्तत्यजेऽस्मान् भवादृक्। परिचरति कथं तत्पादपद्मं नु पद्मा ह्यपि बत हृतचेता उत्तमश्लोकजल्पैः॥ १३ किमिह बहु षडङ्घ्रे गायसि त्वं यदूना- मधिपतिमगृहाणामग्रतो नः पुराणम्। विजयसखसखीनां गीयतां तत्प्रसङ्गः क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः॥ १४ दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः। चरणरज उपास्ते यस्य भूतिर्वयं का अपि च कृपणपक्षे ह्युत्तमश्लोकशब्दः॥ १५ विसृज शिरसि पादं वेद्म्यहं चाटुकारै- रनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात्। स्वकृत इह विसृष्टापत्यपत्यन्यलोका व्यसृजदकृतचेताः किं नु सन्धेयमस्मिन्॥ १६ मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम्। बलिमपि बलिमत्त्वावेष्टयद् ध्वाङ्क्षवद्य- स्तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः॥ १७ यदनुचरितलीलाकर्णपीयूषविप्रुट्- सकृददनविधूतद्वन्द्वधर्मा विनष्टाः। सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना बहव इह विहङ्गा भिक्षुचर्यां चरन्ति॥ १८ वयमृतमिव जिह्मव्याहृतं श्रद्दधानाः कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः। ददृशुरसकृदेतत्तन्नखस्पर्शतीव्र- स्मररुज उपमन्त्रिन् भण्यतामन्यवार्ता॥ १९ प्रियसख पुनरागाः प्रेयसा प्रेषितः किं वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग। नयसि कथमिहास्मान् दुस्त्यजद्वन्द्वपार्श्वं सततमुरसि सौम्य श्रीर्वधूः साकमास्ते॥ २० अपि बत मधुपुर्यामार्यपुत्रोऽधुनाऽऽस्ते स्मरति स पितृगेहान् सौम्य बन्धूंश्च गोपान्। क्वचिदपि स कथा नः किङ्करीणां गृणीते भुजमगुरुसुगन्धं मूर्ध्न्यधास्यत् कदा नु॥ २१ श्रीशुक उवाच अथोद्धवो निशम्यैवं कृष्णदर्शनलालसाः। सान्त्वयन् प्रियसन्देशैर्गोपीरिदमभाषत। २२ श्रीउद्धव उवाच अहो यूयं स्म पूर्णार्था भवत्यो लोकपूजिताः। वासुदेवे भगवति यासामित्यर्पितं मनः॥ २३ दानव्रततपोहोमजपस्वाध्यायसंयमैः। श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते॥ २४ भगवत्युत्तमश्लोके भवतीभिरनुत्तमा। भक्तिः प्रवर्तिता दिष्ट्या मुनीनामपि दुर्लभा॥ २५ दिष्ट्या पुत्रान् पतीन् देहान् स्वजनान् भवनानि च। हित्वावृणीत यूयं यत् कृष्णाख्यं पुरुषं परम्॥ २६ सर्वात्मभावोऽधिकृतो भवतीनामधोक्षजे। विरहेण महाभागा महान् मेऽनुग्रहः कृतः॥ २७ श्रूयतां प्रियसन्देशो भवतीनां सुखावहः। यमादायागतो भद्रा अहं भर्तू रहस्करः॥ २८ श्रीभगवानुवाच भवतीनां वियोगो मे न हि सर्वात्मना क्वचित्। यथा भूतानि भूतेषु खं वाय्वग्निर्जलं मही । तथाहं च मनःप्राणभूतेन्द्रियगुणाश्रयः॥ २९ आत्मन्येवात्मनाऽऽत्मानं सृजे हन्म्यनुपालये। आत्ममायानुभावेन भूतेन्द्रियगुणात्मना॥ ३० आत्मा ज्ञानमयः शुद्धो व्यतिरिक्तोऽगुणान्वयः। सुषुप्तिस्वप्नजाग्रद्भिर्मायावृत्तिभिरीयते॥ ३१ येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्नवदुत्थितः। तन्निरुन्ध्यादिन्द्रियाणि विनिद्रः प्रत्यपद्यत॥ ३२ एतदन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम्। त्यागस्तपो दमः सत्यं समुद्रान्ता इवापगाः॥ ३३ यत्त्वहं भवतीनां वै दूरे वर्ते प्रियो दृशाम्। मनसः सन्निकर्षार्थं मदनुध्यानकाम्यया॥ ३४ यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते। स्त्रीणां च न तथा चेतः सन्निकृष्टेऽक्षिगोचरे॥ ३५ मय्यावेश्य मनः कृत्स्नं विमुक्ताशेषवृत्ति यत्। अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ॥ ३६ या मया क्रीडता रात्र्यां वनेऽस्मिन् व्रज आस्थिताः। अलब्धरासाः कल्याण्यो माऽऽपुर्मद्वीर्यचिन्तया॥ ३७ श्रीशुक उवाच एवं प्रियतमादिष्टमाकर्ण्य व्रजयोषितः। ता ऊचुरुद्धवं प्रीतास्तत्सन्देशागतस्मृतीः॥ ३८ गोप्य ऊचुः दिष्ट्याहितो हतः कंसो यदूनां सानुगोऽघकृत्। दिष्ट्याऽऽप्तैर्लब्धसर्वार्थैः कुशल्यास्तेऽच्युतोऽधुना॥ ३९ कच्चिद् गदाग्रजः सौम्य करोति पुरयोषिताम्। प्रीतिं नः स्निग्धसव्रीडहासोदारेक्षणार्चितः॥ ४० कथं रतिविशेषज्ञः प्रियश्च वरयोषिताम्। नानुबध्येत तद्वाक्यैर्विभ्रमैश्चानुभाजितः॥ ४१ अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित्। गोष्ठिमध्ये पुरस्त्रीणां ग्राम्याः स्वैरकथान्तरे॥ ४२ ताः किं निशाः स्मरति यासु तदा प्रियाभि- र्वृन्दावने कुमुदकुन्दशशाङ्करम्ये। रेमे क्वणच्चरणनूपुररासगोष्ठ्या- मस्माभिरीडितमनोज्ञकथः कदाचित्॥ ४३ अप्येष्यतीह दाशार्हस्तप्ताः स्वकृतया शुचा। सञ्जीवयन् नु नो गात्रैर्यथेन्द्रो वनमम्बुदैः॥ ४४ कस्मात् कृष्ण इहायाति प्राप्तराज्यो हताहितः। नरेन्द्रकन्या उद्वाह्य प्रीतः सर्वसुहृद्वृतः॥ ४५ किमस्माभिर्वनौकोभिरन्याभिर्वा महात्मनः। श्रीपतेराप्तकामस्य क्रियेतार्थः कृतात्मनः॥ ४६ परं सौख्यं हि नैराश्यं स्वैरिण्यप्याह पिङ्गला। तज्जानतीनां नः कृष्णे तथाप्याशा दुरत्यया॥ ४७ क उत्सहेत सन्त्यक्तुमुत्तमश्लोकसंविदम्। अनिच्छतोऽपि यस्य श्रीरङ्गान्न च्यवते क्वचित्॥ ४८ सरिच्छैलवनोद्देशा गावो वेणुरवा इमे। सङ्कर्षणसहायेन कृष्णेनाचरिताः प्रभो॥ ४९ पुनः पुनः स्मारयन्ति नन्दगोपसुतं बत। श्रीनिकेतैस्तत्पदकैर्विस्मर्तुं नैव शक्नुमः॥ ५० गत्या ललितयोदारहासलीलावलोकनैः। माध्व्या गिरा हृतधियः कथं तं विस्मराम हे॥ ५१ हे नाथ हे रमानाथ व्रजनाथार्तिनाशन। मग्नमुद्धर गोविन्द गोकुलं वृजिनार्णवात्॥ ५२ श्रीशुक उवाच ततस्ताः कृष्णसन्देशैर्व्यपेतविरहज्वराः। उद्धवं पूजयाञ्चक्रुर्ज्ञात्वाऽऽत्मानमधोक्षजम्॥ ५३ उवास कतिचिन्मासान् गोपीनां विनुदन्शुचः। कृष्णलीलाकथां गायन् रमयामास गोकुलम्॥ ५४ यावन्त्यहानि नन्दस्य व्रजेऽवात्सीत् स उद्धवः। व्रजौकसां क्षणप्रायाण्यासन् कृष्णस्य वार्तया॥ ५५ सरिद्वनगिरिद्रोणीर्वीक्षन् कुसुमितान् द्रुमान्। कृष्णं संस्मारयन् रेमे हरिदासो व्रजौकसाम्॥ ५६ दृष्ट्वैवमादि गोपीनां कृष्णावेशात्मविक्लवम्। उद्धवः परमप्रीतस्ता नमस्यन्निदं जगौ॥ ५७ एताः परं तनुभृतो भुवि गोपवध्वो गोविन्द एव निखिलात्मनि रूढभावाः। वाञ्छन्ति यद् भवभियो मुनयो वयं च किं ब्रह्मजन्मभिरनन्तकथारसस्य॥ ५८ क्वेमाः स्त्रियो वनचरीर्व्यभिचारदुष्टाः कृष्णे क्व चैष परमात्मनि रूढभावः। नन्वीश्वरोऽनुभजतोऽविदुषोऽपि साक्षा- च्छ्रेयस्तनोत्यगदराज इवोपयुक्तः॥ ५९ नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः स्वर्योषितां नलिनगन्धरुचां कुतोऽन्याः। रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ- लब्धाशिषां य उदगाद् व्रजवल्लवीनाम्॥ ६० आसामहो चरणरेणुजुषामहं स्यां वृन्दावने किमपि गुल्मलतौषधीनाम्। या दुस्त्यजं स्वजनमार्यपथं च हित्वा भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम्॥ ६१ या वै श्रियार्चितमजादिभिराप्तकामै- र्योगेश्वरैरपि यदात्मनि रासगोष्ठ्याम्। कृष्णस्य तद् भगवतश्चरणारविन्दं न्यस्तं स्तनेषु विजहुः परिरभ्य तापम्॥ ६२ वन्दे नन्दव्रजस्त्रीणां पादरेणुमभीक्ष्णशः। यासां हरिकथोद्गीतं पुनाति भुवनत्रयम्॥ ६३ श्रीशुक उवाच अथ गोपीरनुज्ञाप्य यशोदां नन्दमेव च। गोपानामन्त्र्य दाशार्हो यास्यन्नारुरुहे रथम्॥ ६४ तं निर्गतं समासाद्य नानोपायनपाणयः। नन्दादयोऽनुरागेण प्रावोचन्नश्रुलोचनाः॥ ६५ मनसो वृत्तयो नः स्युः कृष्णपादाम्बुजाश्रयाः। वाचोऽभिधायिनीर्नाम्नां कायस्तत्प्रह्वणादिषु॥ ६६ कर्मभिर्भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया। मङ्गलाचरितैर्दानै रतिर्नः कृष्ण ईश्वरे॥ ६७ एवं सभाजितो गोपैः कृष्णभक्त्या नराधिप। उद्धवः पुनरागच्छन्मथुरां कृष्णपालिताम्॥ ६८ कृष्णाय प्रणिपत्याह भक्त्युद्रेकं व्रजौकसाम्। वसुदेवाय रामाय राज्ञे चोपायनान्यदात्॥ ६९ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे उद्धवप्रतियाने सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥
Tamil