header_image
Home
Tamil

दशमः स्कन्धः[पूर्वार्धः] :: अथ त्रयोदशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[पूर्वार्धः]
अथ त्रयोदशोऽध्यायः
सबालवत्सवृन्दे ब्रह्मणापहृते श्रीकृष्णस्य तत्तद्रूपेणाब्दं यथापूर्वं विहरणं ब्रह्मणो मोहभङ्गश्च
श्रीशुक उवाच। साधु पृष्टं महाभाग त्वया भागवतोत्तम। यन्नूतनयसीशस्य श्रृण्वन्नपि कथां मुहुः॥ 1 सतामयं सारभृतां निसर्गो यदर्थवाणी श्रुतिचेतसामपि। प्रतिक्षणं नव्यवदच्युतस्य यत् स्त्रिया विटानामिव साधु वार्ता॥ 2 श्रृणुष्वावहितो राजन्नपि गुह्यं वदामि ते। ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत॥ 3 तथाघवदनान्मृत्यो रक्षित्वा वत्सपालकान्। सरित्पुलिनमानीय भगवानिदमब्रवीत्॥ 4 अहोऽतिरम्यं पुलिनं वयस्याः स्वकेलिसम्पन् मृदुलाच्छवालुकम्। स्फुटत्सरोगन्ध हृतालिपत्रिक ध्वनिप्रतिध्वानलसद् द्रुमाकुलम्॥ 5 अत्र भोक्तव्यमस्माभिर्दिवा रूढं क्षुधार्दिताः। वत्साः समीपेऽपः पीत्वा चरन्तु शनकैस्तृणम्॥ 6 तथेति पाययित्वार्भा वत्सानारुध्य शाद्वले। मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा॥ 7 कृष्णस्य विष्वक् पुरुराजिमण्डलैः अभ्याननाः फुल्लदृशो व्रजार्भकाः। सहोपविष्टा विपिने विरेजुः छदा यथाम्भोरुहकर्णिकायाः॥ 8 केचित् पुष्पैर्दलैः केचित् पल्लवैरङ्‌कुरैः फलैः। शिग्भिस्त्वग्भिः दृषद्‌भिश्च बुभुजुः कृतभाजनाः॥ 9 सर्वे मिथो दर्शयन्तः स्वस्वभोज्यरुचिं पृथक्। हसन्तो हासयन्तश्चाभ्यवजह्रुः सहेश्वराः॥ 10 बिभ्रद् वेणुं जठरपटयोः श्रृङ्‌गवेत्रे च कक्षे वामे पाणौ मसृणकवलं तत्फलान्यङ्‌गुलीषु। तिष्ठन् मध्ये स्वपरिसुहृदो हासयन् नर्मभिः स्वैः स्वर्गे लोके मिषति बुभुजे यज्ञभुग् बालकेलिः॥ 11 भारतैवं वत्सपेषु भुञ्जानेष्वच्युतात्मसु। वत्सास्त्वन्तर्वने दूरं विविशुस्तृणलोभिताः॥ 12 तान् दृष्ट्वा भयसंत्रस्तानूचे कृष्णोऽस्य भीभयम्। मित्राण्याशान्मा विरमतेहानेष्ये वत्सकानहम्॥ 13 इत्युक्त्वाद्रिदरीकुञ्ज गह्वरेष्वात्मवत्सकान्। विचिन्वन् भगवान् कृष्णः सपाणिकवलो ययौ॥ 14 अम्भोजन्मजनिस्तदन्तरगतो मायार्भकस्येशितुः। द्रष्टुं मञ्जु महित्वमन्यदपि तद्वत्सानितो वत्सपान्। नीत्वान्यत्र कुरूद्वहान्तरदधात् खेऽवस्थितो यः पुरा। दृष्ट्वाघासुरमोक्षणं प्रभवतः प्राप्तः परं विस्मयम्॥ 15 ततो वत्सानदृष्ट्वैत्य पुलिनेऽपि च वत्सपान्। उभावपि वने कृष्णो विचिकाय समन्ततः॥ 16 क्वाप्यदृष्ट्वान्तर्विपिने वत्सान् पालांश्च विश्ववित्। सर्वं विधिकृतं कृष्णः सहसावजगाम ह॥ 17 ततः कृष्णो मुदं कर्तुं तन्मातॄणां च कस्य च। उभयायितमात्मानं चक्रे विश्वकृदीश्वरः॥ 18 यावद्वत्सपवत्सकाल्पकवपुर्यावत् कराङ्‌घ्र्यादिकं। यावद् यष्टिविषाणवेणुदलशिग् यावद् विभूषाम्बरम्। यावच्छीलगुणाभिधाकृतिवयो यावद् विहारादिकं। सर्वं विष्णुमयं गिरोऽङ्‌गवदजः सर्वस्वरूपो बभौ॥ 19 स्वयमात्माऽऽत्मगोवत्सान् प्रतिवार्यात्मवत्सपैः। क्रीडन्नात्मविहारैश्च सर्वात्मा प्राविशद् व्रजम्॥ 20 तत्तद्वत्सान् पृथङ्‌नीत्वा तत्तद्‍गोष्ठे निवेश्य सः। तत्तदात्माभवद् राजन् तत्तत्सद्म प्रविष्टवान्॥ 21 तन्मातरो वेणुरवत्वरोत्थिता उत्थाप्य दोर्भिः परिरभ्य निर्भरम्। स्नेहस्नुतस्तन्यपयःसुधासवं मत्वा परं ब्रह्म सुतानपाययन्॥ 22 ततो नृपोन्मर्दनमज्जलेपन अलङ्‌कार रक्षा तिलकाशनादिभिः। संलालितः स्वाचरितैः प्रहर्षयन् सायं गतो यामयमेन माधवः॥ 23 गावस्ततो गोष्ठमुपेत्य सत्वरं हुङ्‌कारघोषैः परिहूतसङ्‌गतान्। स्वकान् स्वकान् वत्सतरानपाययन् मुहुर्लिहन्त्यः स्रवदौधसं पयः॥ 24 गोगोपीनां मातृतास्मिन् सर्वा स्नेहर्धिकां विना। पुरोवदास्वपि हरेस्तोकता मायया विना॥ 25 व्रजौकसां स्वतोकेषु स्नेहवल्ल्याब्दमन्वहम्। शनैर्निःसीम ववृधे यथा कृष्णे त्वपूर्ववत्॥ 26 इत्थमात्माऽऽत्मनाऽऽत्मानं वत्सपालमिषेण सः। पालयन् वत्सपो वर्षं चिक्रीडे वनगोष्ठयोः॥ 27 एकदा चारयन् वत्सान् सरामो वनमाविशत्। पञ्चषासु त्रियामासु हायनापूरणीष्वजः॥ 28 ततो विदूराच्चरतो गावो वत्सानुपव्रजम्। गोवर्धनाद्रिशिरसि चरन्त्यो ददृशुस्तृणम्॥ 29 दृष्ट्वाथ तत्स्नेहवशोऽस्मृतात्मा स गोव्रजोऽत्यात्मप दुर्गमार्गः। द्विपात् ककुद्‍ग्रीव उदास्यपुच्छो अगाद्धुङ्‌कृतैरास्रुपया जवेन॥ 30 समेत्य गावोऽधो वत्सान् वत्सवत्योऽप्यपाययन्। गिलन्त्य इव चाङ्‌गानि लिहन्त्यः स्वौधसं पयः॥ 31 गोपास्तद्रोधनायास मौघ्यलज्जोरुमन्युना। दुर्गाध्वकृच्छ्रतोऽभ्येत्य गोवत्सैर्ददृशुः सुतान्॥ 32 तदीक्षणोत्प्रेमरसाप्लुताशया जातानुरागा गतमन्यवोऽर्भकान्। उदुह्य दोर्भिः परिरभ्य मूर्धनि घ्राणैरवापुः परमां मुदं ते॥ 33 ततः प्रवयसो गोपास्तोकाश्लेषसुनिर्वृताः। कृच्छ्रात् शनैरपगताः तदनुस्मृत्युदश्रवः॥ 34 व्रजस्य रामः प्रेमर्धेर्वीक्ष्यौत्कण्ठ्यमनुक्षणम्। मुक्तस्तनेष्वपत्येष्वप्यहेतुविद् अचिन्तयत्॥ 35 किमेतदद्‍भुतमिव वासुदेवेऽखिलात्मनि। व्रजस्य सात्मनस्तोकेष्वपूर्वं प्रेम वर्धते॥ 36 केयं वा कुत आयाता दैवी वा नार्युतासुरी। प्रायो मायास्तु मे भर्तुर्नान्या मेऽपि विमोहिनी॥ 37 इति सञ्चिन्त्य दाशार्हो वत्सान् सवयसानपि। सर्वानाचष्ट वैकुण्ठं चक्षुषा वयुनेन सः॥ 38 नैते सुरेशा ऋषयो न चैते त्वमेव भासीश भिदाश्रयेऽपि। सर्वं पृथक् त्वं निगमात् कथं वदे- त्युक्तेन वृत्तं प्रभुणा बलोऽवैत्॥ 39 तावदेत्यात्मभूरात्म-मानेन त्रुट्यनेहसा। पुरोवदाब्दं क्रीडन्तं ददृशे सकलं हरिम्॥ 40 यावन्तो गोकुले बालाः सवत्साः सर्व एव हि। मायाशये शयाना मे नाद्यापि पुनरुत्थिताः॥ 41 इत एतेऽत्र कुत्रत्या मन्मायामोहितेतरे। तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम्॥ 42 एवमेतेषु भेदेषु चिरं ध्यात्वा स आत्मभूः। सत्याः के कतरे नेति ज्ञातुं नेष्टे कथञ्चन॥ 43 एवं सम्मोहयन् विष्णुं विमोहं विश्वमोहनम्। स्वयैव माययाजोऽपि स्वयमेव विमोहितः॥ 44 तम्यां तमोवन्नैहारं खद्योतार्चिरिवाहनि। महतीतरमायैश्यं निहन्त्यात्मनि युञ्जतः॥ 45 तावत् सर्वे वत्सपालाः पश्यतोऽजस्य तत्क्षणात्। व्यदृश्यन्त घनश्यामाः पीतकौशेयवाससः॥ 46 चतुर्भुजाः शङ्‌खचक्रगदाराजीवपाणयः। किरीटिनः कुण्डलिनो हारिणो वनमालिनः॥ 47 श्रीवत्साङ्‌गददोरत्‍न कम्बुकङ्‌कणपाणयः। नूपुरैः कटकैर्भाताः कटिसूत्राङ्‌गुलीयकैः॥ 48 आङ्‌घ्रिमस्तकमापूर्णास्तुलसीनवदामभिः। कोमलैः सर्वगात्रेषु भूरिपुण्यवदर्पितैः॥ 49 चन्द्रिकाविशदस्मेरैः सारुणापाङ्‌गवीक्षितैः। स्वकार्थानामिव रजः सत्त्वाभ्यां स्रष्टृपालकाः॥ 50 आत्मादिस्तम्बपर्यन्तैः मूर्तिमद्‌भिः चराचरैः। नृत्यगीताद्यनेकार्हैः पृथक् पृथक् उपासिताः॥ 51 अणिमाद्यैर्महिमभिः अजाद्याभिर्विभूतिभिः। चतुर्विंशतिभिस्तत्त्वैः परीता महदादिभिः॥ 52 कालस्वभावसंस्कार कामकर्मगुणादिभिः। स्वमहिध्वस्तमहिभिः मूर्तिमद्‌भिः उपासिताः॥ 53 सत्यज्ञानानन्तानन्द मात्रैकरसमूर्तयः। अस्पृष्टभूरिमाहात्म्या अपि ह्युपनिषद्‌दृशाम्॥ 54 एवं सकृद् ददर्शाजः परब्रह्मात्मनोऽखिलान्। यस्य भासा सर्वमिदं विभाति सचराचरम्॥ 55 ततोऽतिकुतुकोद्‌वृत्त स्तिमितैकादशेन्द्रियः। तद्धाम्नाभूदजस्तूष्णीं पूर्देव्यन्तीव पुत्रिका॥ 56 इतीरेशेऽतर्क्ये निजमहिमनि स्वप्रमितिके। परत्राजातोऽतन् निरसनमुखब्रह्मकमितौ। अनीशेऽपि द्रष्टुं किमिदमिति वा मुह्यति सति चछादाजो ज्ञात्वा सपदि परमोऽजाजवनिकाम्॥ 57 ततोऽर्वाक्प्रतिलब्धाक्षः कः परेतवदुत्थितः। कृच्छ्रादुन्मील्य वै दृष्टीराचष्टेदं सहात्मना॥ 58 सपद्येवाभितः पश्यन् दिशोऽपश्यत् पुरःस्थितम्। बृन्दावनं जनाजीव्य द्रुमाकीर्णं समाप्रियम्॥ 59 यत्र नैसर्गदुर्वैराः सहासन् नृमृगादयः। मित्राणीवाजितावास द्रुतरुट्तर्षकादिकम्॥ 60 तत्रोद्वहत् पशुपवंशशिशुत्वनाट्यं ब्रह्माद्वयं परमनन्त-मगाधबोधम्। वत्सान् सखीनिव पुरा परितो विचिन्वद् एकं सपाणिकवलं परमेष्ठ्यचष्ट॥ 61 दृष्ट्वा त्वरेण निजधोरणतोऽवतीर्य पृथ्व्यां वपुः कनकदण्डमिवाभिपात्य। स्पृष्ट्वा चतुर्मुकुट कोटिभिरङ्‌घ्रियुग्मं नत्वा मुदश्रुसुजलैरकृताभिषेकम्॥ 62 उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन्। आस्ते महित्वं प्राग्दृष्टं स्मृत्वा स्मृत्वा पुनः पुनः॥ 63 शनैरथोत्थाय विमृज्य लोचने मुकुन्दमुद्वीक्ष्य विनम्रकन्धरः। कृताञ्जलिः प्रश्रयवान् समाहितः सवेपथुर्गद्‍गदयैलतेलया॥ 64 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे त्रयोदशोऽध्यायः॥ 13
Tamil