header_image
Home
Tamil

दशमः स्कन्धः[पूर्वार्धः] :: अथ द्वादशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[पूर्वार्धः]
अथ द्वादशोऽध्यायः
अघासुरवधः
श्रीशुक उवाच । क्वचिद् वनाशाय मनो दधद् व्रजात् प्रातः समुत्थाय वयस्यवत्सपान् । प्रबोधयन् श्रृंगरवेण चारुणा विनिर्गतो वत्सपुरःसरो हरिः ॥ 1 तेनैव साकं पृथुकाः सहस्रशः स्निग्धाः सुशिग्वेत्रविषाणवेणवः । स्वान् स्वान् सहस्रो परिसङ्‌ख्ययान्वितान् वत्सान् पुरस्कृत्य विनिर्ययुर्मुदा ॥ 2 कृष्णवत्सैरसङ्‌ख्यातैः यूथीकृत्य स्ववत्सकान् । चारयन्तोऽर्भलीलाभिः विजह्रुः तत्र तत्र ह ॥ 3 फलप्रबालस्तबकसुमनःपिच्छधातुभिः । काचगुञ्जामणिस्वर्ण-भूषिता अप्यभूषयन् ॥ 4 मुष्णन्तोऽन्योन्यशिक्यादीन् ज्ञातानाराच्च चिक्षिपुः । तत्रत्याश्च पुनर्दूराद्धसन्तश्च पुनर्ददुः ॥ 5 यदि दूरं गतः कृष्णो वनशोभेक्षणाय तम् । अहं पूर्वमहं पूर्वमिति संस्पृश्य रेमिरे ॥ 6 केचिद् वेणून् वादयन्तो ध्मान्तः शृङ्‌गाणि केचन । केचिद् भृङ्‌गैः प्रगायन्तः कूजन्तः कोकिलैः परे ॥ 7 विच्छायाभिः प्रधावन्तो गच्छन्तः साधु हंसकैः । बकैरुपविशन्तश्च नृत्यन्तश्च कलापिभिः ॥ 8 विकर्षन्तः कीशबालानारोहन्तश्च तैर्द्रुमान् । विकुर्वन्तश्च तैः साकं प्लवन्तश्च पलाशिषु ॥ 9 साकं भेकैर्विलङ्‌घन्तः सरित्प्रस्रवसम्प्लुताः । विहसन्तः प्रतिच्छायाः शपन्तश्च प्रतिस्वनान् ॥ 10 इत्थं सतां ब्रह्मसुखानुभूत्या दास्यं गतानां परदैवतेन । मायाश्रितानां नरदारकेण साकं विजह्रुः कृतपुण्यपुञ्जाः ॥ 11 यत्पादपांसुर्बहुजन्मकृच्छ्रतो धृतात्मभिर्योगिभिरप्यलभ्यः । स एव यद्‌दृग्विषयः स्वयं स्थितः किं वर्ण्यते दिष्टमतो व्रजौकसाम् ॥ 12 अथाघनामाभ्यपतन् महासुरः तेषां सुखक्रीडनवीक्षणाक्षमः । नित्यं यदन्तर्निजजीवितेप्सुभिः पीतामृतैरप्यमरैः प्रतीक्ष्यते ॥ 13 दृष्ट्वार्भकान् कृष्णमुखानघासुरः । कंसानुशिष्टः स बकीबकानुजः । अयं तु मे सोदरनाशकृत् तयोर्द्वयोर्ममैनं सबलं हनिष्ये ॥ 14 एते यदा मत्सुहृदोस्तिलापः कृतास्तदा नष्टसमा व्रजौकसः । प्राणे गते वर्ष्मसु का नु चिन्ता प्रजासवः प्राणभृतो हि ये ते ॥ 15 इति व्यवस्याजगरं बृहद् वपुः स योजनायाममहाद्रिपीवरम् । धृत्वाद्‍भुतं व्यात्तगुहाननं तदा पथि व्यशेत ग्रसनाशया खलः ॥ 16 धराधरोष्ठो जलदोत्तरोष्ठो दर्याननान्तो गिरिशृङ्‌गदंष्ट्रः । ध्वान्तान्तरास्यो वितताध्वजिह्वः परुषानिलश्वासदवेक्षणोष्णः ॥ 17 दृष्ट्वा तं तादृशं सर्वे मत्वा वृन्दावनश्रियम् । व्यात्ताजगरतुण्डेन ह्युत्प्रेक्षन्ते स्म लीलया ॥ 18 अहो मित्राणि गदत सत्त्वकूटं पुरः स्थितम् । अस्मत्सङ्‌ग्रसनव्यात्त व्यालतुण्डायते न वा ॥ 19 सत्यमर्ककरारक्तं उत्तराहनुवद् धनम् । अधराहनुवद् रोधस्तत्प्रतिच्छाययारुणम् ॥ 20 प्रतिस्पर्धेते सृक्किभ्यां सव्यासव्ये नगोदरे । तुंगशृंगालयोऽप्येतास्तद् दंष्ट्राभिश्च पश्यत ॥ 21 आस्तृतायाममार्गोऽयं रसनां प्रतिगर्जति । एषामन्तर्गतं ध्वान्तमेतदप्यन्तः आननम् ॥ 22 दावोष्णखरवातोऽयं श्वासवद् भाति पश्यत । तद्दग्धसत्त्वदुर्गन्धोऽप्यन्तरामिषगन्धवत् ॥ 23 अस्मान् किमत्र ग्रसिता निविष्टा- नयं तथा चेद् बकवद् विनङ्‌क्ष्यति । क्षणादनेनेति बकार्युशन्मुखं वीक्ष्योद्धसन्तः करताडनैर्ययुः ॥ 24 इत्थं मिथोऽतथ्यमतज्ज्ञभाषितं श्रुत्वा विचिन्त्येत्यमृषा मृषायते । रक्षो विदित्वाखिल-भूतहृत्स्थितः स्वानां निरोद्धुं भगवान् मनो दधे ॥ 25 तावत् प्रविष्टास्त्वसुरोदरान्तरं परं न गीर्णाः शिशवः सवत्साः । प्रतीक्षमाणेन बकारिवेशनं हतस्वकान्तस्मरणेन रक्षसा ॥ 26 तान् वीक्ष्य कृष्णः सकलाभयप्रदो ह्यनन्यनाथान् स्वकरादवच्युतान् । दीनांश्च मृत्योर्जठराग्निघासान् घृणार्दितो दिष्टकृतेन विस्मितः ॥ 27 कृत्यं किमत्रास्य खलस्य जीवनं न वा अमीषां च सतां विहिंसनम् । द्वयं कथं स्यादिति संविचिन्त्य तत् ज्ञात्वाविशत् तुण्डमशेषदृग् हरिः ॥ 28 तदा घनच्छदा देवा भयाद् हाहेति चुक्रुशुः । जहृषुर्ये च कंसाद्याः कौणपास्त्वघबान्धवाः ॥ 29 तच्छ्रुत्वा भगवान् कृष्णस्त्वव्ययः सार्भवत्सकम् । चूर्णीचिकीर्षोरात्मानं तरसा ववृधे गले ॥ 30 ततोऽतिकायस्य निरुद्धमार्गिणो ह्युद्‍गीर्णदृष्टेः भ्रमतस्त्वितस्ततः । पूर्णोऽन्तरंगे पवनो निरुद्धो मूर्धन् विनिष्पाट्य विनिर्गतो बहिः ॥ 31 तेनैव सर्वेषु बहिर्गतेषु प्राणेषु वत्सान् सुहृदः परेतान् । दृष्ट्या स्वयोत्थाप्य तदन्वितः पुनः वक्त्रान् मुकुन्दो भगवान् विनिर्ययौ ॥ 32 पीनाहिभोगोत्थितमद्‍भुतं महत् ज्योतिः स्वधाम्ना ज्वलयद् दिशो दश । प्रतीक्ष्य खेऽवस्थितमीशनिर्गमं विवेश तस्मिन् मिषतां दिवौकसाम् ॥ 33 ततोऽतिहृष्टाः स्वकृतोऽकृतार्हणं पुष्पैः सुरा अप्सरसश्च नर्तनैः । गीतैः सुगा वाद्यधराश्च वाद्यकैः स्तवैश्च विप्रा जयनिःस्वनैर्गणाः ॥ 34 तदद्‍भुतस्तोत्रसुवाद्यगीतिका जयादिनैकोत्सव मङ्‌गलस्वनान् । श्रुत्वा स्वधाम्नोऽन्त्यज आगतोऽचिराद् दृष्ट्वा महीशस्य जगाम विस्मयम् ॥ 35 राजन्नाजगरं चर्म शुष्कं बृन्दावनेऽद्‍भुतम् । व्रजौकसां बहुतिथं बभूवाक्रीडगह्वरम् ॥ 36 एतत् कौमारजं कर्म हरेरात्माहिमोक्षणम् । मृत्योः पौगण्डके बाला दृष्ट्वोचुर्विस्मिता व्रजे ॥ 37 नैतद् विचित्रं मनुजार्भमायिनः परावराणां परमस्य वेधसः । अघोऽपि यत्स्पर्शनधौतपातकः प्रापात्मसाम्यं त्वसतां सुदुर्लभम् ॥ 38 सकृद् यदङ्‌गप्रतिमान्तराहिता मनोमयी भागवतीं ददौ गतिम् । स एव नित्यात्मसुखानुभूत्यभि व्युदस्तमायोऽन्तर्गतो हि किं पुनः ॥ 39 श्रीसूत उवाच । इत्थं द्विजा यादवदेवदत्तः श्रुत्वा स्वरातुश्चरितं विचित्रम् । पप्रच्छ भूयोऽपि तदेव पुण्यं वैयासकिं यन्निगृहीतचेताः ॥ 40 श्रीराजोवाच । ब्रह्मन् कालान्तरकृतं तत्कालीनं कथं भवेत् । यत् कौमारे हरिकृतं जगुः पौगण्डकेऽर्भकाः ॥ 41 तद् ब्रूहि मे महायोगिन् परं कौतूहलं गुरो । नूनमेतद्धरेरेव माया भवति नान्यथा ॥ 42 वयं धन्यतमा लोके गुरोऽपि क्षत्रबन्धवः । यत् पिबामो मुहुस्त्वत्तः पुण्यं कृष्णकथामृतम् ॥ 43 श्रीसूत उवाच । इत्थं स्म पृष्टः स तु बादरायणिः तत्स्मारितानन्तहृताखिलेन्द्रियः । कृच्छ्रात् पुनर्लब्धबहिर्दृशिः शनैः प्रत्याह तं भागवतोत्तमोत्तम ॥ 44 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे द्वादशोऽध्यायः ॥ 12 ॥
Tamil