header_image
Home
Tamil

दशमः स्कन्धः[पूर्वार्धः] :: अथ पञ्चविंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[पूर्वार्धः]
अथ पञ्चविंशोऽध्यायः
कोपान्मुसलधारावर्ष वर्षतीन्द्रे व्रजौकसां रक्षणार्थं गोवर्धनधारणम्
श्रीशुक उवाच - इन्द्रस्तदाऽऽत्मनः पूजां विज्ञाय विहतां नृप। गोपेभ्यः कृष्णनाथेभ्यो नन्दादिभ्यश्चुकोप सः॥ 1 गणं सांवर्तकं नाम मेघानां चान्तकारिणाम्। इन्द्रः प्रचोदयत् क्रुद्धो वाक्यं चाहेशमान्युत॥ 2 अहो श्रीमदमाहात्म्यं गोपानां काननौकसाम्। कृष्णं मर्त्यमुपाश्रित्य ये चक्रुर्देवहेलनम्॥ 3 यथादृढैः कर्ममयैः क्रतुभिर्नामनौनिभैः। विद्यामान्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम्॥ 4 वाचालं बालिशं स्तब्धमज्ञं पण्डितमानिनम्। कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम्॥ 5 एषां श्रियावलिप्तानां कृष्णेनाध्मापितात्मनाम्। धुनुत श्रीमदस्तम्भं पशून् नयत सङ्‌क्षयम्॥ 6 अहं चैरावतं नागमारुह्यानुव्रजे व्रजम्। मरुद्‍गणैर्महावीर्यैर्नन्दगोष्ठजिघांसया॥ 7 श्रीशुक उवाच - इत्थं मघवताऽऽज्ञप्ता मेघा निर्मुक्तबन्धनाः। नन्दगोकुलमासारैः पीडयामासुरोजसा॥ 8 विद्योतमाना विद्युद्‌भिः स्तनन्तः स्तनयित्‍नुभिः। तीव्रैर्मरुद्‍गणैर्नुन्ना ववृषुर्जलशर्कराः॥ 9 स्थूणास्थूला वर्षधारा मुञ्चत्स्वभ्रेष्व-भीक्ष्णशः। जलौघैः प्लाव्यमाना भूः नादृश्यत नतोन्नतम्॥ 10 अत्यासारातिवातेन पशवो जातवेपनाः। गोपा गोप्यश्च शीतार्ता गोविन्दं शरणं ययुः॥ 11 शिरः सुतांश्च कायेन प्रच्छाद्या-सारपीडिताः। वेपमाना भगवतः पादमूलमुपाययुः॥ 12 कृष्ण कृष्ण महाभाग त्वन्नाथं गोकुलं प्रभो। त्रातुमर्हसि देवान्नः कुपिताद् भक्तवत्सल॥ 13 शिलावर्षानिपातेन हन्यमानमचेतनम्। निरीक्ष्य भगवान् मेने कुपितेन्द्रकृतं हरिः॥ 14 अपर्त्त्वत्युल्बणं वर्षमतिवातं शिलामयम्। स्वयागे विहतेऽस्माभिः इन्द्रो नाशाय वर्षति॥ 15 तत्र प्रतिविधिं सम्यगात्मयोगेन साधये। लोकेशमानिनां मौढ्याद्धरिष्ये श्रीमदं तमः॥ 16 न हि सद्‍भावयुक्तानां सुराणामीशविस्मयः। मत्तोऽसतां मानभङ्‌गः प्रशमायोपकल्पते॥ 17 तस्मात् मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम्। गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहितः॥ 18 इत्युक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम्। दधार लीलया कृष्णश्छत्राकमिव बालकः॥ 19 अथाह भगवान् गोपान् हेऽम्ब तात व्रजौकसः। यथोपजोषं विशत गिरिगर्तं सगोधनाः॥ 20 न त्रास इह वः कार्यो मद्धस्ताद्रिनिपातने। वातवर्षभयेनालं तत्त्राणं विहितं हि वः॥ 21 तथा निर्विविशुर्गर्तं कृष्णाश्वासितमानसः। यथावकाशं सधनाः सव्रजाः सोपजीविनः॥ 22 क्षुत्तृड्व्यथां सुखापेक्षां हित्वा तैर्व्रजवासिभिः। वीक्ष्यमाणो दधावद्रिं सप्ताहं नाचलत् पदात्॥ 23 कृष्णयोगानुभावं तं निशम्येन्द्रोऽतिविस्मितः। निःस्तम्भो भ्रष्टसङ्‌कल्पः स्वान् मेघान् संन्यवारयत्॥24 खं व्यभ्रमुदितादित्यं वातवर्षं च दारुणम्। निशम्योपरतं गोपान् गोवर्धनधरोऽब्रवीत्॥ निर्यात त्यजत त्रासं गोपाः सस्त्रीधनार्भकाः। उपारतं वातवर्षं व्युदप्रायाश्च निम्नगाः॥ 26 ततस्ते निर्ययुर्गोपाः स्वं स्वमादाय गोधनम्। शकटोढोपकरणं स्त्रीबालस्थविराः शनैः॥ 27 भगवानपि तं शैलं स्वस्थाने पूर्ववत् प्रभुः। पश्यतां सर्वभूतानां स्थापयामास लीलया॥ 28 तं प्रेमवेगान्निभृता व्रजौकसो यथा समीयुः परिरम्भणादिभिः। गोप्यश्च सस्नेहमपूजयन् मुदा दध्यक्षताद्‌भिर्युयुजुः सदाशिषः॥ 29 यशोदा रोहिणी नन्दो रामश्च बलिनां वरः। कृष्णमालिङ्‌ग्य युयुजुराशिषः स्नेहकातराः॥ 30 दिवि देवगणाः साध्याः सिद्धागन्धर्वचारणाः। तुष्टुवुर्मुमुचुस्तुष्टाः पुष्पवर्षाणि पार्थिव॥ 31 शङ्‌खदुन्दुभयो नेदुर्दिवि देवप्रणोदिताः। जगुर्गन्धर्वपतयः तुंबुरुप्रमुखा नृप॥ 32 ततोऽनुरक्तैः पशुपैः परिश्रितो राजन् स गोष्ठं सबलोऽव्रजद्धरिः। तथाविधान्यस्य कृतानि गोपिका गायन्त्य ईयुर्मुदिता हृदिस्पृशः॥ 33 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे पञ्चविंशोऽध्यायः॥25॥
Tamil