header_image
Home
Tamil

दशमः स्कन्धः[पूर्वार्धः] :: अथ षड्विंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[पूर्वार्धः]
अथ षड्विंशोऽध्यायः
श्रीकृष्णस्यालौकिकं प्रभावं दृष्ट्वा चकितान् गोपान् प्रति नन्दस्य गर्गोक्तिकथनम्
श्रीशुक उवाच - एवंविधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते। अतद्वीर्यविदः प्रोचुः समभ्येत्य सुविस्मिताः॥ 1 बालकस्य यदेतानि कर्माण्यत्यद्‍भुतानि वै। कथमर्हत्यसौ जन्म ग्राम्येष्वात्मजुगुप्सितम्॥ 2 यः सप्तहायनो बालः करेणैकेन लीलया। कथं बिभ्रद् गिरिवरं पुष्करं गजराडिव॥ 3 तोकेनामीलिताक्षेण पूतनाया महौजसः। पीतः स्तनः सह प्राणैः कालेनेव वयस्तनोः॥ 4 हिन्वतोऽधः शयानस्य मास्यस्य चरणावुदक्। अनोऽपतद् विपर्यस्तं रुदतः प्रपदाहतम्॥ 5 एकहायन आसीनो ह्रियमाणो विहायसा। दैत्येन यस्तृणावर्तमहन् कण्ठग्रहातुरम्॥ 6 क्वचिद्धैतङ्‌गवस्तैन्ये मात्रा बद्ध उलूखले। गच्छन्नर्जुनयोर्मध्ये बाहुभ्यां तावपातयत्॥ 7 वने सञ्चारयन् वत्सान् सरामो बालकैर्वृतः। हन्तुकामं बकं दोर्भ्यां मुखतोऽरिमपाटयत्॥ 8 वत्सेषु वत्सरूपेण प्रविशन्तं जिघांसया। हत्वा न्यपातयत्तेन कपित्थानि च लीलया॥ 9 हत्वा रासभदैतेयं तद्‍बन्धूंश्च बलान्वितः। चक्रे तालवनं क्षेमं परिपक्वफलान्वितम्॥ 10 प्रलम्बं घातयित्वोग्रं बलेन बलशालिना। अमोचयद् व्रजपशून् गोपांश्चारण्यवह्नितः॥ 11 आशीविषतमाहीन्द्रं दमित्वा विमदं ह्रदात्। प्रसह्योद्वास्य यमुनां चक्रेऽसौ निर्विषोदकाम्॥ 12 दुस्त्यजश्चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम्। नन्द ते तनयेऽस्मासु तस्याप्यौत्पत्तिकः कथम्॥ 13 क्व सप्तहायनो बालः क्व महाद्रिविधारणम्। ततो नो जायते शङ्‌का व्रजनाथ तवात्मजे॥ 14 श्रीनन्द उवाच - श्रूयतां मे वचो गोपा व्येतु शङ्‌का च वोऽर्भके। एनं कुमारमुद्दिश्य गर्गो मे यदुवाच ह॥ 15 वर्णास्त्रयः किलास्यासन् गृह्णतोऽनुयुगं तनूः। शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः॥ 16 प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मजः। वासुदेव इति श्रीमानभिज्ञाः सम्प्रचक्षते॥ 17 बहूनि सन्ति नामानि रूपाणि च सुतस्य ते। गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः॥ 18 एष वः श्रेय आधास्यद् गोपगोकुलनन्दनः। अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ॥ 19 पुरानेन व्रजपते साधवो दस्युपीडिताः। अराजके रक्ष्यमाणा जिग्युर्दस्यून् समेधिताः॥ 20 य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः। नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः॥ 21 तस्मान्नन्द कुमारोऽयं नारायणसमो गुणैः। श्रिया कीर्त्यानुभावेन तत्कर्मसु न विस्मयः॥ 22 इत्यद्धा मां समादिश्य गर्गे च स्वगृहं गते। मन्ये नारायणस्यांशं कृष्णमक्लिष्टकारिणम्॥ 23 इति नन्दवचः श्रुत्वा गर्गगीतं व्रजौकसः। दृष्टश्रुतानुभावास्ते कृष्णस्यामिततेजसः। मुदिता नन्दमानर्चुः कृष्णं च गतविस्मयाः॥ 24 देवे वर्षति यज्ञविप्लवरुषा वज्राश्मपर्षानिलैः। सीदत्पालपशुस्त्रि आत्मशरणं दृष्ट्वानुकम्प्युत्स्मयन्। उत्पाट्यैककरेण शैलमबलो लीलोच्छिलीन्ध्रं यथा। बिभ्रद् गोष्ठमपान्महेन्द्रमदभित् प्रीयान्न इन्द्रो गवाम्॥ 25 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे षड्‌विंशोऽध्यायः ॥ 26 ॥
Tamil