header_image
Home
Tamil

दशमः स्कन्धः[पूर्वार्धः] :: अथ प्रथमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[पूर्वार्धः]
अथ प्रथमोऽध्यायः
श्रीकृष्णावतारोपक्रमः - ब्रह्मकर्तृकं पृथिव्या आश्वासनं कंसस्य देवकीवधोद्योगाद् वसुदेववचनेन निवृत्तिः. षण्णां देवकीपुत्राणां कंसकर्तृको वधश्च
श्रीराजोवाच। कथितो वंशविस्तारो भवता सोमसूर्ययोः। राज्ञां चोभयवंश्यानां चरितं परमाद्भुतम्॥ 1 यदोश्च धर्मशीलस्य नितरां मुनिसत्तम। तत्रांशेन अवतीर्णस्य विष्णोर्वीर्याणि शंस नः॥ 2 अवतीर्य यदोर्वंशे भगवान् भूतभावनः। कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात्॥ 3 निवृत्ततर्षैरुपगीयमानाद् भवौषधाच्छ्रोत्रमनोऽभिरामात्। क उत्तमश्लोकगुणानुवादात् पुमान् विरज्येत विना पशुघ्नात्॥ 4 पितामहा मे समरेऽमरञ्जयैः देवव्रताद्यातिरथैस्तिमिङ्गिलैः। दुरत्ययं कौरवसैन्यसागरं कृत्वातरन् वत्सपदं स्म यत्प्लवाः॥ 5 द्रौण्यस्त्रविप्लुष्टमिदं मदङ्गं सन्तानबीजं कुरुपाण्डवानाम्। जुगोप कुक्षिं गत आत्तचक्रो मातुश्च मे यः शरणं गतायाः॥ 6 वीर्याणि तस्याखिलदेहभाजां अन्तर्बहिः पूरुषकालरूपैः। प्रयच्छतो मृत्युमुतामृतं च मायामनुष्यस्य वदस्व विद्वन्॥ 7 रोहिण्यास्तनयः प्रोक्तो रामः संकर्षणस्त्वया। देवक्या गर्भसंबंधः कुतो देहान्तरं विना॥ 8 कस्मान् मुकुन्दो भगवान् पितुर्गेहाद् व्रजं गतः। क्व वासं ज्ञातिभिः सार्धं कृतवान् सात्वतां पतिः॥ 9 व्रजे वसन् किमकरोत् मधुपुर्यां च केशवः। भ्रातरं चावधीत् कंसं मातुरद्धातदर्हणम्॥ 10 देहं मानुषमाश्रित्य कति वर्षाणि वृष्णिभिः। यदुपुर्यां सहावात्सीत् पत्न्यः कत्यभवन् प्रभोः॥ 11 एतदन्यच्च सर्वं मे मुने कृष्णविचेष्टितम्। वक्तुमर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम्॥ 12 नैषातिदुःसहा क्षुन्मां त्यक्तोदमपि बाधते। पिबन्तं त्वन्मुखाम्भोजच्युतं हरिकथामृतम्॥ 13 सूत उवाच। एवं निशम्य भृगुनन्दन साधुवादं। वैयासकिः स भगवानथ विष्णुरातम्। प्रत्यर्च्य कृष्णचरितं कलिकल्मषघ्नं। व्याहर्तुमारभत भागवतप्रधानः॥ 14 श्रीशुक उवाच। सम्यग्व्यवसिता बुद्धिस्तव राजर्षिसत्तम। वासुदेवकथायां ते यज्जाता नैष्ठिकी रतिः॥ 15 वासुदेवकथाप्रश्नः पुरुषांस्त्रीन् पुनाति हि। वक्तारं पृच्छकं श्रोतॄन् स्तत्पादसलिलं यथा॥ 16 भूमिर्दृप्तनृपव्याज दैत्यानीकशतायुतैः। आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ॥ 17 गौर्भूत्वाश्रुमुखी खिन्ना क्रन्दन्ती करुणं विभोः। उपस्थितान्तिके तस्मै व्यसनं स्वम्वोचत॥ 18 ब्रह्मा तदुपधार्याथ सह देवैस्तया सह। जगाम सत्रिनयनस्तीरं क्षीरपयोनिधेः॥ 19 तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम्। पुरुषं पुरुषसूक्तेन उपतस्थे समाहितः॥ 20 गिरं समाधौ गगने समीरितां निशम्य वेधास्त्रिदशानुवाच ह। गां पौरुषीं मे श्रृणुतामराः पुनः विधीयतामाशु तथैव मा चिरम्॥ 21 पुरैव पुंसावधृतो धराज्वरो भवद्भिः अंशैः यदुषूपजन्यताम्। स यावदुर्व्या भरमीश्वरेश्वरः स्वकालशक्त्या क्षपयन् चरेद् भुवि॥ 22 वसुदेवगृहे साक्षाद् भगवान् पुरुषः परः। जनिष्यते तत्प्रियार्थं संभवन्तु सुरस्त्रियः॥ 23 वासुदेवकलानन्तः सहस्रवदनः स्वराट्। अग्रतो भविता देवो हरेः प्रियचिकीर्षया॥ 24 विष्णोर्माया भगवती यया सम्मोहितं जगत्। आदिष्टा प्रभुणांशेन कार्यार्थे संभविष्यति॥ 25 श्रीशुक उवाच। इत्यादिश्यामरगणान् प्रजापतिपतिः विभुः। आश्वास्य च महीं गीर्भिः स्वधाम परमं ययौ॥ 26 शूरसेनो यदुपतिर्मथुरामावसन् पुरीम्। माथुरान् शूरसेनांश्च विषयान् बुभुजे पुरा॥ 27 राजधानी ततः साभूत् सर्वयादव भूभुजाम्। मथुरा भगवान् यत्र नित्यं संनिहितो हरिः॥ 28 यस्यां तु कर्हिचिच्छौरिर्वसुदेवः कृतोद्वहः। देवक्या सूर्यया सार्धं प्रयाणे रथमारुहत्॥ 29 उग्रसेनसुतः कंसः स्वसुः प्रियचिकीर्षया। रश्मीन् हयानां जग्राह रौक्मै रथशतैर्वृतः॥ 30 चतुःशतं पारिबर्हं गजानां हेममालिनाम्। अश्वानामयुतं सार्धं रथानां च त्रिषट्शतम्॥ 31 दासीनां सुकुमारीणां द्वे शते समलंकृते। दुहित्रे देवकः प्रादात् याने दुहितृवत्सलः॥ 32 शंखतूर्यमृदंगाश्च नेदुर्दुन्दुभयः समम्। प्रयाणप्रक्रमे तावत् वरवध्वोः सुमंगलम्॥ 33 पथि प्रग्रहिणं कंसमाभाष्याहाशरीरवाक्। अस्यास्त्वामष्टमो गर्भो हन्ता यां वहसे अबुध॥ 34 इत्युक्तः स खलः पापो भोजानां कुलपांसनः। भगिनीं हन्तुमारब्धः खड्गपाणिः कचेऽग्रहीत्॥ 35 तं जुगुप्सितकर्माणं नृशंसं निरपत्रपम्। वसुदेवो महाभाग उवाच परिसान्त्वयन्॥ 36 श्रीवसुदेव उवाच। श्लाघनीयगुणः शूरैर्भवान् भोज-यशस्करः। स कथं भगिनीं हन्यात् स्त्रियमुद्वाहपर्वणि॥ 37 मृत्युर्जन्मवतां वीर देहेन सह जायते। अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः॥ 38 देहे पञ्चत्वमापन्ने देही कर्मानुगोऽवशः। देहान्तरमनुप्राप्य प्राक्तनं त्यजते वपुः॥ 39 व्रजंस्तिष्ठन् पदैकेन यथैवैकेन गच्छति। यथा तृणजलूकैवं देही कर्मगतिं गतः॥ 40 स्वप्ने यथा पश्यति देहमीदृशं मनोरथेनाभिनिविष्टचेतनः। दृष्टश्रुताभ्यां मनसानुचिन्तयन् प्रपद्यते तत् किमपि ह्यपस्मृतिः॥ 41 यतो यतो धावति दैवचोदितं मनो विकारात्मकमाप पञ्चसु। गुणेषु मायारचितेषु देह्यसौ प्रपद्यमानः सह तेन जायते॥ 42 ज्योतिर्यथैवोदकपार्थिवेष्वदः समीरवेगानुगतं विभाव्यते। एवं स्वमायारचितेष्वसौ पुमान् गुणेषु रागानुगतो विमुह्यति॥ 43 तस्मात् न कस्यचिद् द्रोहमाचरेत् स तथाविधः। आत्मनः क्षेममन्विच्छन् द्रोग्धुर्वै परतो भयम्॥ 44 एषा तवानुजा बाला कृपणा पुत्रिकोपमा। हन्तुं नार्हसि कल्याणीर्मिमां त्वं दीनवत्सलः॥ 45 श्रीशुक उवाच। एवं स सामभिर्भेदैः बोध्यमानोऽपि दारुणः। न न्यवर्तत कौरव्य पुरुषादाननुव्रतः॥ 46 निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभिः। प्राप्तं कालं प्रतिव्योढुमिदं तत्रान्वपद्यत॥ 47 मृत्युर्बुद्धिमतापोह्यो यावद्बुद्धिबलोदयम्। यद्यसौ न निवर्तेत नापराधोऽस्ति देहिनः॥ 48 प्रदाय मृत्यवे पुत्रान् मोचये कृपणामिमाम्। सुता मे यदि जायेरन् मृत्युर्वा न म्रियेत चेत्॥ 49 विपर्ययो वा किं न स्याद् गतिर्धातुः दुरत्यया। उपस्थितो निवर्तेत निवृत्तः पुनरापतेत्॥ 50 ग्नेर्यथा दारुवियोगयोगयोः अदृष्टतोऽन्यन्न निमित्तमस्ति। एवं हि जन्तोरपि दुर्विभाव्यः शरीर संयोगवियोगहेतुः॥ 51 एवं विमृश्य तं पापं यावदात्मनिदर्शनम्। पूजयामास वै शौरिः बहुमानपुरःसरम्॥ 52 प्रसन्नवदनाम्भोजो नृशंसं निरपत्रपम्। मनसा दूयमानेन विहसन्निदमब्रवीत्॥ 53 श्रीवसुदेव उवाच। न ह्यस्यास्ते भयं सौम्य यद् वागाहाशरीरिणी। पुत्रान् समर्पयिष्येऽस्या यतस्ते भयमुत्थितम्॥ 54 श्रीशुक उवाच। स्वसुर्वधान्निववृते कंसः तद्वाक्यसारवित्। वसुदेवोऽपि तं प्रीतः प्रशस्य प्राविशद् गृहम्॥ 55 अथ काल उपावृत्ते देवकी सर्वदेवता। पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम्॥ 56 कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः। अर्पयामास कृच्छ्रेण सोऽनृतादतिविह्वलः॥ 57 किं दुस्सहं नु साधूनां विदुषां किमपेक्षितम्। किमकार्यं कदर्याणां दुस्त्यजं किं धृतात्मनाम्॥ 58 दृष्ट्वा समत्वं तच्छैरेः सत्ये चैव व्यवस्थितिम्। कंसस्तुष्टमना राजन् प्रहसन्निदमब्रवीत्॥ 59 प्रतियातु कुमारोऽयं न ह्यस्मादस्ति मे भयम्। अष्टमाद् युवयोर्गर्भान् मृत्युर्मे विहितः किल॥ 60 तथेति सुतमादाय ययावानकदुन्दुभिः। नाभ्यनन्दत तद्वाक्यमसतोऽविजितात्मनः॥ 61 नन्दाद्या ये व्रजे गोपा याश्चामीषां च योषितः। वृष्णयो वसुदेवाद्या देवक्याद्या यदुस्त्रियः॥ 62 सर्वे वै देवताप्राया उभयोरपि भारत। ज्ञातयो बन्धुसुहृदो ये च कंसमनुव्रताः॥ 63 एतत् कंसाय भगवान् शशंसाभ्येत्य नारदः। भूमेर्भारायमाणानां दैत्यानां च वधोद्यमम्॥ 64 ऋषेर्विनिर्गमे कंसो यदून् मत्वा सुरानिति। देवक्या गर्भसंभूतं विष्णुं च स्ववधं प्रति॥ 65 देवकीं वसुदेवं च निगृह्य निगडैर्गृहे। जातं जातमहन् पुत्रं तयोरजनशंकया॥ 66 मातरं पितरं भ्रातॄन् सर्वांश्च सुहृदस्तथा। घ्नन्ति ह्यसुतृपो लुब्धा राजानः प्रायशो भुवि॥ 67 आत्मानमिह सञ्जातं जानन् प्राग् विष्णुना हतम्। महासुरं कालनेमिं यदुभिः स व्यरुध्यत॥ 68 उग्रसेनं च पितरं यदुभोजान्धकाधिपम्। स्वयं निगृह्य बुभुजे शूरसेनान् महाबलः॥ 69 ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे श्रिकृष्णावतारोपक्रमे प्रथमोध्याऽयः॥1॥
Tamil