header_image
Home
Tamil

श्रीमद्भागवतमाहात्म्यम् [श्रीस्कान्दपुराणे] :: अथ तृतीयोऽध्यायः

सूत उवाच - अथोद्धवस्तु तान् दृष्ट्वा कृष्णकीर्तनतत्परान् । सत्कृत्याथ परिष्वज्य परीक्षितमुवाच ह ॥ 1 उद्धव उवाच - धन्योऽसि राजन् कृष्णैकभक्त्या पूर्णोऽसि नित्यदा । यस्त्वं निमग्नचित्तोऽसि कृष्णसंङ्‌कीर्तनोत्सवे ॥ 2 कृष्णपत्‍नीषु वज्रे च दिष्ट्या प्रीतिः प्रवर्तिता । तवोचितमिदं तात कृष्णदत्ताङ्‌गवैभव ॥ 3 द्वारकास्थेषु सर्वेषु धन्या एते न संशयः । येषां व्रजनिवासाय पार्थमादिष्टवान् प्रभुः ॥ 4 श्रीकृष्णस्य मनश्चन्द्रो राधास्यप्रभयान्वितः । तद्विहारवनं गोभिर्मण्डयन् रोचते सदा ॥ 5 कृष्णचन्द्रः सदा पूर्णस्तस्य षोडश या कलाः । चित्सहस्रप्रभभिन्ना अत्रास्ते तत्स्वरूपता॥ 6 एवं वज्रस्तु राजेन्द्र प्रपन्नभयभञ्जकः । श्रीकृष्णदक्षिणे पादे स्थानमेतस्य वर्तते ॥ 7 अवतारेऽत्र कृष्णेन योगमायातिभाविताः । तद्‌बलेनात्मविस्मृत्या सीदन्त्येते न संशयः ॥ 8 ऋते कृष्णप्रकाशं तु स्वात्मबोधो न कस्यचित् । तत्प्रकाशस्तु जीवानां मायया पिहितः सदा ॥ 9 अष्टाविंशे द्वापरान्ते स्वयमेव यदा हरिः । उत्सारयेन्निजां मायां तत्प्रकाशो भवेत्तदा ॥ 10 स तु कालो व्यतिक्रान्तस्तेनेदमपरं श्रृणु । अन्यदा तत्प्रकाशस्तु श्रीमद्भागवताद् भवेत् ॥ 11 श्रीमद्भागवतं शास्त्रं यत्र भागवतैर्यदा । कीर्त्यते श्रूयते चापि श्रीकृष्णस्तत्र निश्चितम् ॥ 12 श्रीमद्भागवतं यत्र श्लोकं श्लोकार्द्धमेव च । तत्रापि भगवान् कृष्णो वल्लवीभिर्वराजते ॥ 13 भारते मानवं जन्म प्राप्य भागवतं न यैः । श्रुतं पापपराधीनैरात्मघातस्तु तैः कृतः ॥ 14 श्रीमद्भागवतं शास्त्रं नित्यं यैः परिसेवितम् । पिर्मातुश्च भार्यायाः कुलपङ्‌क्तिः सुतारिता ॥ 15 विद्याप्रकाशो विप्राणां राज्ञां शत्रुजयो विशाम् । धनं स्वास्थ्यं च शूद्राणां श्रीमद्भागवताद् भवेत् ॥ 16 योषितामपरेषां च सर्ववाञ्छितपूरणम् । अतो भागवतं नित्यं को न सेवेत भाग्यवान् ॥ 17 अनेकजन्मसंसिद्धः श्रीमद्भागवतं लभेत् । प्रकाशो भगवद्‌भक्तेरुद्‌भवस्तत्र जायते ॥ 18 सांख्यायनप्रसादाप्तं श्रीमद्‌भागवतं पुरा । बृहस्पतिर्दत्तवान् मे तेनाहं कृष्णवल्लभः ॥ 19 अख्यायिकां च तेनोक्तां विष्णुरात निबोध ताम् । ज्ञायते सम्प्रदायोऽपि यत्र भागवतश्रुतेः ॥ 20 बृहस्पतिरुवाच - ईक्षाञ्चक्रे यदा कृष्णो मायापुरुषरूपधृक् । ब्रह्मा विष्णुः शिवश्चापि रजः सत्त्वतमोगुणैः ॥ 21 पुरुषास्त्रय उत्तस्थुरधिकारांस्तदादिशत् । उत्पत्तौ पालने चैव संहारे प्रक्रमेण तान् ॥ 22 ब्रह्मा तु नाभिकमलादुत्पन्नस्तं व्यजिज्ञपत् । ब्रह्मोवाच - नारायणादिपुरुष परमात्मन् नमोऽस्तु ते ॥ 23 त्वया सर्गे नियुक्तोऽस्मि पपीयान् मां रजोगुणः । त्वत्स्मृतौ नैव बाधेत तथैव कृपया प्रभो ॥ 24 बृहस्पतिरुवाच - यदा तु भगवान् तस्मै श्रीमद्‌भागवतं पुरा । उपदिश्याब्रवीद् ब्रह्मन् सेवस्वैनत् स्वसिद्धये ॥ 25 ब्रह्मा तु परमप्रीतस्तेन कृष्णाप्तयेऽनिशम् । सप्तावरणभङ्‌गाय सप्ताहं समवर्तयत् ॥ 26 श्रीभागवतसप्ताह सेवनाप्तमनोरथः । सृष्टिं वितनुते नित्यं ससप्ताहः पुनः पुनः ॥ 27 विष्णुरप्यर्थयामास पुमांसं स्वार्थसिद्धये । प्रजानां पालने पुंसा यदनेनापि कल्पितः ॥ 28 विष्णुरुवाच - प्रजानां पालनं देव करिष्यामि यथोचितम् । प्रवृत्त्या च निवृत्त्या च कर्मज्ञानप्रयोजनात् ॥ 29 यदा यदैव कालेन धर्मग्लानिर्भविष्यति । धर्मं संस्थापयिष्यामि ह्यवतारैस्तदा तदा ॥ 30 भोगार्थिभ्यस्तु यज्ञादिफलं दास्यामि निश्चितम् । मोक्षार्थिभ्यो विरक्तेभ्यो मुक्तिं पञ्चविधां तथा ॥ 31 येऽपि मोक्षं न वाञ्छन्ति तान् कथं पालयाम्यहम् । आत्मानं च श्रियं चापि पालयामि कथं वद ॥ 32 तस्मा अपि पुमानाद्यः श्रीभागवतमादिशत् । उवाच च पठस्वैनत्तव सर्वार्थसिद्धये ॥ 33 ततो विष्णुः प्रसन्नात्मा परमार्थकपालने । समर्थोऽभूच्छ्रिया मासि मासि भागवतं स्मरन् ॥ 34 यदा विष्णुः स्वयं वक्ता लक्ष्मीश्च श्रवणे रतः । तदा भागवतश्रावो मासेनैव पुनः पुनः ॥ 35 यदा लक्ष्मीः स्वयं वक्त्री विष्णुश्च श्रवणे रतः । मासद्वयं रसास्वादस्तदातीव सुशोभते ॥ 36 अधिकारे स्थितो विष्णुर्लक्ष्मीर्निश्चिन्तमानसा । तेन भागवतास्वादस्तस्या भूरि प्रकाशते ॥ 37 अथ रुद्रोऽपि तं देवं संहाराधिकृतः पुरा । पुमांसं प्रार्थयामास स्वसामर्थ्यविवृद्धये ॥ 38 रुद्र उवाच - नित्ये नैमित्तिके चैव संहारे प्राकृते तथा । शक्तयो मम विद्यन्ते देवदेव मम प्रभो ॥ 39 आत्यन्तिके तु संहारे मम शक्तिर्न विद्यते । महद्‌दुःखं ममैतत्तु तेन त्वां प्रार्थयाम्यहम् ॥ 40 बृहस्पतिरुवाच - श्रीमद्भागवतं तस्मा अपि नारायणो ददौ । स तु संसेवनादस्य जिग्ये चापि तमोगुणम् ॥ 41 कथा भागवती तेने सेविता वर्षमात्रतः । लये त्वात्यन्तिके तेनवाप शक्तिं सदाशिवः ॥ 42 उद्धव उवाच - श्रीभागवतमाहात्म्य इमामाख्यायिकां गुरोः । श्रुत्वा भागवतं लब्ध्वा मुमुदेऽहं प्रणम्य तम् ॥ 43 ततस्तु वैष्णवीं रीतिं गृहीत्वा मासमात्रतः । श्रीमद्भागवतास्वादो मया सम्यङ्‍निषेवितः ॥ 44 तावतैव बभूवाहं कृष्णस्य दयितः सखा । कृष्णेनाथ नियुक्तोऽहं व्रजे स्वप्रेयसीगणे ॥ 45 विरहार्त्तासु गोपीषु स्वयं नित्यविहारिणा । श्रीमागवतसन्देशो मन्मुखेन प्रयोजितः ॥ 46 तं यथामति लब्ध्वा ता आसन् विरहवर्जिताः । नाज्ञासिषं रहस्यं तच्चमत्कारस्तु लोकितः ॥ 47 स्वर्वासं प्रार्थ्य कृष्णं च ब्रह्माद्येषु गतेषु मे । श्रीमद्‌भागवते कृष्णस्तद्रहस्यं स्वयं ददौ ॥ 48 पुरतोऽश्वत्थमूलस्य चकार मयि तद् दृढम् । तेनात्र व्रजवल्लीषु वसामि बदरीं गतः ॥ 49 तस्मान्नारदकुण्डेऽत्र तिष्ठामि स्वेच्छया सदा । कृष्णप्रकाशो भक्तानां श्रीमद्‌भागवताद् भवेत् ॥ 50 तदेषामपि कार्यार्थं श्रीमद्‌भागवतं त्वहम् । प्रवक्ष्यामि सहायोऽत्र त्वयैवानुष्ठितो भवेत् ॥ 51 सूत उवाच - विष्णुरातस्तु श्रुत्वा तदुद्धवं प्रणतोऽब्रवीत् । परीक्षिदुवाच - हरिदास त्वया कार्यं श्रीभागवतकीर्तनम् ॥ 52 आज्ञाप्योऽहं यथा कार्यः सहायोऽत्र मया तथा । सूत उवाच - श्रुत्वैतदुद्धवो वाक्यमुवाच प्रीतमानसः ॥ 53 उद्धव उवाच - श्रीकृष्णेन परित्यक्ते भूतले बलवान् कलिः । करिष्यति परं विघ्नं सत्कार्ये समुपस्थिते ॥ 54 तस्माद् दिग्विजयं याहि कलिनिग्रहमाचर । अहं तु मासमात्रेण वैष्णवीं रीतिमास्थितः ॥ 55 श्रीमद्‌भागवतास्वादं प्रचार्यं त्वत्सहायतः । एतान् सम्प्रापयिष्यामि नित्यधाम्नि मधुद्विषः ॥ 56 सूत उवाच - श्रुत्वैवं तद्वचो राजा मुदितश्चिन्तयाऽऽतुरः । तदा विज्ञापयामास स्वाभिप्रायं तमुद्धवम् ॥ 57 परीक्शिदुवाच - कलिं तु निग्रहीष्यामि तात ते वचसि स्थितः । श्रीभागवतसम्प्राप्तिः कथं मम भविष्यति ॥ 58 अहं तु समनुग्राह्यस्तव पादतले श्रितः । सूत उवाच - श्रुत्वैतद् वचनं भूयोऽप्युद्धवस्तमुवाच ह ॥ 59 उद्धव उवाच - राजंशिचन्ता तु ते कापि नैव कार्या कथञ्चन । तवैव भगवच्छास्त्रे यतो मुख्याधिकारिता ॥ 60 एतावत्कालपर्यंतं प्रायो भागवतश्रुतेः । वार्तामपि न जानन्ति मनुष्याः कर्मतत्पराः ॥ 61 त्वत्प्रसादेन बहवो मनुष्या भारताजिरे । श्रीमद्भागवतप्राप्तौ सुखं प्राप्स्यन्ति शाश्वतम् ॥ 62 नन्दनन्दनरूपस्तु श्रीशुको भगवानृषिः । श्रीमद्भागवतं तुभ्यं श्रावयिष्यत्यसंशयम् ॥ 63 तेन प्राप्स्यसि राजंस्त्वं नित्यं धाम व्रजेशितुः । श्रीभागवतसञ्चारस्ततो भुवि भविष्यति ॥ 64 तस्मात्त्वं गच्छ राजेन्द्र कलिनिग्रहमाचर । सूत उवाच - इत्युक्तस्तं परिक्रम्य गतो राजा दिशां जये ॥ 65 वज्रस्तु निजराज्येशं प्रतिबाहुं विधाय च । तत्रैव मातृभिः साकं तस्थौ भागवताशया ॥ 66 अथ वृन्दावने मासं गोवर्धनसमीपतः । श्रीमद्भागवास्वादस्तूद्धवेन प्रवर्तितः ॥ 67 तस्मिन्नास्वाद्यमाने तु सच्चिदानन्दरूपिणी । प्रचकाशे हरेर्लीला सर्वतः कृष्ण एव च ॥ 68 आत्मानं च तदन्तःस्थं सर्वेऽपि ददृशुस्तदा । वज्रस्तु दक्षिणे दृष्ट्वा कृष्णपादसरोप्रुहे ॥ 69 स्वात्मानं कृष्णवैधुर्यान्मुक्तस्तद्‌भुव्यशोभत । ताश्च तन्मातरः कृष्णे रासरात्रिप्रकाशिनि ॥ 70 चन्द्रे कलाप्रभारूपमात्मानं वीक्ष्य विस्मिताः । स्वप्रेष्ठविरहव्याधिविमुक्ताः स्वपदं ययुः ॥ 71 येऽन्ये च तत्र ते सर्वे नित्यलीलान्तरं गताः । व्यावहारिकलोकेभ्यः सद्योऽदर्शनमागताः ॥ 72 गोवर्धननिकुञ्जेषु गोषु वृन्दावनादिषु । नित्यं कृष्णेन मोदन्ते दृश्यन्ते प्रेमतत्परैः ॥ 73 सूत उवाच - ये एतां भगवत्‌प्राप्तिं श्रुणुयाच्चापि कीर्तयेत् । तस्य वै भगवत्प्राप्तिर्दुःखहानिश्च जायते ॥ 74 ॥ इति श्रीस्कान्दे महापुराण् एकशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे परीक्षिद् उद्धवसंवादे श्रीमद् भागवतमाहात्म्ये तृतीयोऽध्यायः ॥ 3 ॥