ऋषयः ऊचुः - साधु सूत चिरं जीव चिरमेवं प्रशाधि नः । श्रीभागवतमाहात्म्यमपूर्वं त्वन्मुखाच्छ्रुतम् ॥ 1 तत्स्वरूपं प्रमाणं च विधिं च श्रवणे वद । तद्वक्तुर्लक्षणं सूत श्रोतुश्चापि वदाधुना ॥ 2 सूत उवाच - श्रीमद्भागवतस्याथ श्रीमद्भगवतः सदा । स्वरूपमेकमेवास्ति सच्चिदानन्दलक्षणम् ॥ 3 श्रीकृष्णासक्तभक्तानां तन्माधुर्यप्रकाशकम् । समुज्जृम्भति यद्वाक्यं विद्धि भागवतं हि तत् ॥ 4 ज्ञानविज्ञानभक्त्यङ्गचतुष्टयपरं वचः । मायामर्दनदक्षं च विद्धि भागवतं च तत् ॥ 5 प्रमाणं तस्य को वेद ह्यनन्तस्याक्षरात्मनः । ब्रह्मणे हरिणा तद्दिक् चतुःश्लोक्या प्रदर्शिता ॥ 6 तदानन्त्यावगाहेन स्वेप्सितावहनक्षमाः । त एव सन्ति भो विप्रा ब्रह्मविष्णुशिवादयः ॥ 7 मितबुद्ध्यादिवृत्तीनां मनुष्याणां हिताय च । परीक्षिच्छुकसंवादो योऽसौ व्यासेन कीर्तितः ॥ 8 ग्रन्तोऽष्टादशसाहस्रो योऽसौ भागवताभिधः । कलिग्राहगृहीतानां स एव परमाश्रयः ॥ 9 श्रोतारोऽथ निरूप्यन्ते श्रीमद्विष्णुकथाश्रयाः । प्रवरा अवराश्चेति श्रोतारो द्विविधा मताः ॥ 10 प्रवराश्चातको हंसः शुको मीनादयस्तथा । अवरा वृकभूरुण्डवृषोष्ट्राद्याः प्रकीर्तिताः ॥ 11 अखिलोपेक्षया यस्तु कृष्णशास्त्रश्रुतौ व्रती । सः चातको यथाम्भोदमुक्ते पाथसि चातकः ॥ 12 हंसः स्यात् सारमादत्ते यः श्रोता विविधाच्छ्रुतात् । दुग्धेनैक्यं गतात्तोयाद् यथा हंसोऽमलं पयः ॥ 13 शुकः सुष्ठु मितं वक्ति व्यासम् श्रोतॄंश्च हर्षयन् । सुपाठितः शुको यद्वच्छिक्षकं पार्श्वगानपि ॥ 14 शब्दं नानिमिषो जातु करोत्यास्वादयन् रसम् । श्रोता स्निग्धो भवेन्मीनो मीनः क्षीरनिधौ यथा ॥ 15 यस्तुदन् रसिकाञ्छ्रोतॄन् विरौत्यज्ञो वृको हि सः । वेणुस्वनरसासक्तान् वृकोऽरण्ये मृगान् यथा ॥ 16 भूरुण्डः शिक्षयेदन्याञ्छ्रुत्वा न स्वयमाचरेत् । यथा हिमवतः श्रृंगे भूरुण्डाखो विहंगमः ॥ 17 सर्वं श्रुतमुपादत्ते सारासारान्धधीर्वृषः । स्वादुद्राक्षां खलिं चापि निर्विशेषं यथा वृषः ॥ 18 स उष्ट्रो मधुरं मुञ्चन् विपरीते रमेत यः । यथा निम्बं चरत्युष्ट्रो हित्वाम्रमपि तद्युतम् ॥ 19 अन्येऽपि बहवो भेदा द्वयोर्भृङ्गखरादयः । विज्ञेयास्तत्तदाचारैस्तत्तत्प्रकृतिसम्भवैः ॥ 20 यः स्थित्वाभिमुखं प्रणम्य विधिवत् त्यक्तान्यवादो हरेः लीलाः श्रोतुमभीप्सतेऽतिनिपुणो नम्रोऽथ कॢप्ताञ्जलिः । शिष्यो विश्वसितोऽनुचिन्तनपरः प्रश्नेऽनुरक्तः शुचि- र्नित्यं कृष्णजनप्रियो निगदितः श्रोता स वै वक्तृभिः ॥ 21 भवगन्मतिरनपेक्षः सुहृदो दीनेषु सानुकम्पो यः । बहुधा बोधनचतुरो वक्ता सम्मानितो मुनिभिः ॥ 22 अथ भारतभृस्थाने श्रीभागवतसेवने । विधिं श्रृणुत भो विप्रा येन स्यात् सुखसन्ततिः ॥ 23 राजसं सत्त्विकं चापि तामसं निर्गुणं तथा । चतुर्विधं तु विज्ञेयं श्रीभागवतसेवनम् ॥ 24 सप्ताहं यज्ञवद् यत्तु सश्रमं सत्वरं मुदा । सेवितं राजसं तत्तु बहुपूजादिशोभनम् ॥ 25 मासेन ऋतुना वापि श्रवणं स्वादसंयुतम् । सात्त्विकं यदनायासं समस्तानन्दवर्धनम् ॥ 26 तामसं यत्तु वर्षेण सालसं श्रद्धया युतम् । विस्मृतिस्मृतिसंयुक्तं सेवनं तच्च सौख्यदम् ॥ 27 वर्षमासदिनानां तु विमुच्य नियमाग्रहम् । सर्वदा प्रेमभक्त्यैव सेवनं निर्गुणं मतम् ॥ 28 पारीक्षितेऽपि संवादे निर्गुणं तत् प्रकीर्तितम् । तत्र सप्तदिनाख्यानं तदायुर्दिनसंखय्या ॥ 29 अन्यत्र त्रिगुणं चापि निर्गुणं च यथेच्छया यथा कथञ्चित् कर्तव्यं सेवनं भगवच्छ्रुतेः ॥ 30 ये श्रीकृष्णविहारैकभजनास्वादलोलुपाः । मुक्तावपि निराकाङ्क्षास्तेषां भागवतं धनम् ॥ 31 येऽपि संसारसन्तापनिर्विण्णा मोक्षकाङ्क्षिणः । तेषां भवौषधं चैतत् कलौ सेव्यं प्रयत्नतः ॥ 32 ये चापि विषयारामाः सांसारिकसुखस्पृहाः । तेषां तु कर्ममार्गेण या सिद्धिः साधुना कलौ ॥ 33 सामर्थ्यधनविज्ञानाभावादत्यन्तदुर्लभा । तस्मात्तैरपि संसेव्या श्रीमद्भागवती कथा ॥ 34 धनं पुत्रांस्तथा दारान् वाहनादि यशो गृहान् । असापत्न्यं च राज्यं च दद्यात् भागवती कथा ॥ 35 इह लोके वरान् भुक्त्वा भोगान् वै मनसेप्सितान् । श्रीभागवतसंगेन यात्यन्ते श्रीहरेः पदम् ॥ 36 यत्र भागवती वार्ता ये च तच्छ्रवणे रताः । तेषां संसेवनं कुर्याद् देहेन च धनेन च ॥ 37 तदनुग्रहतोऽस्यापि श्रीभागवतसेवनम् । श्रीकृष्णव्यतिरिक्तं यत्तत् सर्वं धनसंज्ञितम् ॥ 38 कृष्णार्थीति धनार्थीति श्रोता वक्ता द्विधा मतः । यथा वक्ता तथा श्रोता तत्र सौख्यं विवर्धते ॥ 39 उभयोर्वैपरीत्ये तु रसाभासे फलच्युतिः । किन्तु कृष्णार्थिनां सिद्धिः विलम्बेनापि जायते ॥ 40 धनार्थिनस्तु संसिद्धिर्विधिसम्पूर्णतावशात् । कृष्णार्थिनोऽगुणस्यापि प्रेमैव विधिरुत्तमः ॥ 41 आसमाप्ति सकामेन कर्त्तव्यो हि विधिः स्वयम् । स्नातो नित्यक्रियां कृत्वा प्राश्य पादोदकं हरेः ॥ 42 पुस्तकं च गुरुं चैव पूजयित्वोपचारतः । ब्रूयाद् वा श्रृणुयाद् वापि श्रीमद्भागवतं मुदा ॥ 43 पयसा वा हविषेण मौनं भोजमाचरेत् । ब्रह्मचर्यमधःसुप्तिं क्रोधलोभादिवर्जनम् ॥ 44 कथान्ते कीर्तनं नित्यं समाप्तौ जागरं चरेत् । ब्रह्मणान् भोजयित्वा तु दक्षिणाभिः प्रतोषयेत् ॥ 45 गुरवे वस्त्रभूषादि दत्त्वा गां च समर्पयेत् । एवं कृते विधाने तु लभते वाञ्छितं फलम् ॥ 46 दारागारसुतान् राज्यं धनादि च यदीप्सितम् । परंतु शोभते नात्र सकामत्वं विडम्बनम् ॥ 47 कृष्णप्राप्तिकरं शश्वत् प्रेमानन्दफलप्रदम् । श्रीमद्भागवतं शास्त्रं कलौ कीरेण भाषितम् ॥ 48 ॥ इति श्रीस्कान्दे महापुराण एकशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीमद्भागवतमाहात्म्ये भागवत श्रोतृवक्तृ लक्षणविधिनिरूपणं नाम चतुर्थोऽध्यायः ॥ 4॥