ऋषयः ऊचुः - शाण्डिल्ये तौ समादिश्य परावृत्ती स्वमाश्रमम् । किं कथं चक्रतुस्तौ तु राजानौ सूत तद् वद ॥ 1 सूत उवाच - ततस्तु विष्णुरातेन श्रेणीमुख्याः सहस्रशः । इन्द्रप्रस्थान् समानाय्य मथुरास्थानमापिताः ॥ 2 माथुरान् ब्राह्मणांस्तत्र वानरांश्च पुरातनान् । विज्ञाय माननीयत्वं तेषु स्थापितवान् स्वराट् ॥ 3 वज्रस्तु तत्सहायेन शाण्डिल्यस्याप्यनुग्रहात् । गोविन्दगोपगोपीनां लीलास्थानान्यनुक्रमात् ॥ 4 विज्ञायाभिधयाऽऽस्थाप्य ग्रामानावासयद् बहून् । कुण्डकूपादिपूर्तेन शिवादिस्थापनेन च ॥ 5 गोविन्दहरिदेवादिस्वरूपारोपणेन च । कृष्णैकभक्तिं स्वे राज्ये ततान च मुमोद ह ॥ 6 प्रजास्तु मुदितास्तस्य कृष्णकीर्तनतत्पराः । परमानन्दसम्पन्ना राज्यं तस्यैव तुष्टुवुः ॥ 7 एकदा कृष्णपत्न्यस्तु श्रीकृष्णविरहातुराः । कालिन्दीं मुदितां वीक्ष्य पप्रच्छुर्गतमत्सराः॥ 8 श्रीकृष्णपत्न्य ऊचुः यथा वयं कृष्णपत्न्यस्तथात्वमपि शोभने। वयं विरहदुः खार्तास्त्वं न कालिन्दि तद् वद॥ 9 तच्छ्रुत्वा स्मयमाना सा कालिन्दी वाक्यमब्रवीत्। सापत्न्यं वीक्ष्य तत्तासां करुणापरमानसा ॥ 10 कालिन्दी उवाच - आत्मारामस्य कृष्णस्य ध्रुवमात्मास्ति राधिका । तस्या दास्यप्रभावेण विरहोऽस्मान् न संस्पृशेत् ॥ 11 तस्या एवांशविस्ताराः सर्वाः श्रीकृष्णनायिकाः । नित्यसम्भोग एवास्ति तस्याः साम्मुख्ययोगतः ॥ 12 स एव सा स सैवास्ति वंशी तत्प्रेमरूपिका । श्रीकृष्णनखचन्द्रालिसङ्घाच्चन्द्रावली स्मृता ॥ 13 रूपान्तरमगृह्णाना तयोः सेवातिलालसा । रुक्मिण्यादिसमावेशो मयात्रैव विलोकितः ॥ 14 युष्माकमपि कृष्णेन विरहो नैव सर्वतः । किन्तु एवं न जानीथ तस्माद् व्याकुलतामिताः ॥ 15 एवमेवात्र गोपीनामक्रूरावसरे पुरा । विरहाभास एवासीदुद्धवेन समाहितः ॥ 16 तेनैव भवतीनां चेद् भवेदत्र समागमः । तर्हि नित्यं स्वकान्तेन विहारमपि लप्स्यथ ॥ 17 सूत उवाच - एवमुक्तास्तु ताः पत्न्यः प्रसन्नां पुनरब्रुवन् । उद्धवालोकनेनात्मप्रेष्ठसङ्गमलालसाः ॥ 18 श्रीकृष्णपत्न्य ऊचुः - धन्यासि सखि कान्तेन यस्या नैवास्ति विच्युतिः । यतस्ते स्वार्थसंसिद्धिस्तस्या दास्यो बभूविम ॥ 19 परन्तूद्धवलाभे स्यादस्मत्सर्वार्थसाधनम् । तथा वदस्व कालिन्दि तल्लाभोऽपि यथा भवेत् ॥ 20 सूत उवाच - एवमुक्ता तु कालिन्दी प्रत्युवाचाथ तास्तथा । स्मरन्ती कृष्णचन्द्रस्य कलाः षोडशरूपिणीः ॥ 21 साधनभूमिर्बदरी व्रजता कृष्णेन मन्त्रिणे प्रोक्ता । तत्रास्ते स तु साक्षात्तद्वयुनं ग्राहयल्लोँकान् ॥ 22 फलभूमिर्व्रजभूमिर्दत्ता तस्मै पुरैव सरहस्यम् । फलमिह तिरोहितं सत्तदिहेदानीं स उद्धवोऽलक्ष्यः ॥ 23 गोवर्द्धनगिरिनिकटे सखीस्थले तद्रजः कामः । तत्रत्याङ्कुरवल्लीरूपेणास्ते स उद्धवो नूनम् ॥ 24 आत्मोत्सवरूपत्वं हरिणा तस्मै समार्पितं नियतम् । तस्मात्तत्र स्थित्वा कुसुमसरःपरिसरे सवज्राभिः ॥ 25 वीणावेणुमृदङ्गैः कीर्तनकाव्यादिसरससङ्गीतैः । उत्सव आरब्धव्यो हरिरतलोकान् समानाय्य ॥ 26 तत्रोद्धवावलोको भविता नियतं महोत्सवे वितते । यौष्माकीणामभिमतसिद्धिं सविता स एव सवितानाम् ॥ 27 सूत उवाच - इति श्रुत्वा प्रसन्नास्ताः कालिन्दीमभिवन्द्य तत् । कथयामासुरागत्य वज्रं प्रति परीक्षितम् ॥ 28 विष्णुरातस्तु तच्छुत्वा प्रसन्नस्तद्युतस्तदा । तत्रैवागत्य तत् सर्वं कारयामास सत्वरम् ॥ 29 गोवर्द्धनाददूरेण वृन्दारण्ये सखीस्थले । प्रवृत्तः कुसुमाम्भोधौ कृष्णसङ्कीर्तनोत्सवः ॥ 30 वृषभानुसुताकान्तविहारे कीर्तनश्रिया । साक्षादिव समावृत्ते सर्वेऽनन्यदृशोऽभवन् ॥ 31 ततः पश्यत्सु सर्वेषु तृणगुल्मलताचयात् । आजगामोद्धवः स्रग्वी श्यामः पीताम्बरावृतः ॥ 32 गुञ्जमालाधरो गायन् वल्लवीवल्लभं मुहुः । तदागमनतो रेजे भृशं सङ्कीर्तनोत्सवः ॥ 33 चन्द्रिकागमतो यद्वत् स्फाटिकाट्टालभूमणिः । अथ सर्वे सुखाम्भोधौ मग्नाः सर्वं विसस्मरुः ॥ 34 क्षणेनागतविज्ञाना दृष्ट्वा श्रीकृष्णरूपिणम् । उद्धवं पूजयाञ्चक्रुः प्रतिलब्धमनोरथाः ॥ 35 ॥ इति श्रीस्कान्दे महापुराण एकशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीमद् भागवतमाहात्म्ये गोवर्धनपर्वतसमीपे परीक्षिदादीनामुद्धवदर्शनवर्णनं नाम द्वितीयोऽध्यायः ॥ 2 ॥