header_image
Home
Tamil

श्रीमद्भागवतमाहात्म्यम् [श्रीस्कान्दपुराणे] :: अथ षष्ठोऽध्यायः

व्यास उवाच- श्रीसच्चिदानन्दघन स्वरूपिणे कृष्णाय चानन्तसुखाभिवर्षिणे । विश्वोद्‌भवस्थाननिरोधहेतवे नुमो नु वयं भक्तिरसाप्तयेऽनिशम् ॥ 1 नैमिषे सूतमासीनं अभिवाद्य महामतिम् । कथामृतरसास्वाद कुशला ऋषयोऽब्रुवन् ॥ 2 ऋषयः ऊचुः - वज्रं श्रीमाथुरे देशे स्वपौत्रं हस्तिनापुरे । अभिषिच्य गते राज्ञि तौ कथं किंच चक्रतुः ॥ 3 सूत उवाच - नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ 4 महापथं गते राज्ञि परीक्षित् पृथिवीपतिः । जगाम मथुरां विप्रा वज्रनाभदिदृक्षया ॥ 5 पितृव्यमागतं ज्ञात्वा वज्रः प्रेमपरिप्लुतः । अभिगम्याभिवाद्याथ निनाय निजमन्दिरम् ॥ 6 परिष्वज्य स तं वीरः कृष्णैकगतमानसः । रोहिण्याद्या हरेः पत्‍नीः ववन्दायतनागतः ॥ 7 ताभिः संमानितोऽत्यर्थं परीक्षित् पृथिवीपतिः । विश्रान्तः सुखमासीनो वज्रनाभमुवाच ह ॥ 8 परीक्षिदुवाच - तात त्वत्पितृभिः नूनं अस्मत् पितृपितामहाः । उद्‌धृता भूरिदुःखौघादहं च परिरक्षितः ॥ 9 न पारयाम्यहं तात साधु कृत्वोपकारतः । त्वामतः प्रार्थयाम्यङ्‌ग सुखं राज्येऽनुयुज्यताम् ॥ 10 कोशसैन्यादिजा चिन्ता तथारिदमनादिजा । मनागपि न कार्या ए सुसेव्याः किन्तु मातरः ॥ 11 निवेद्य मयि कर्तव्यं सर्वाधिपरिवर्जनम् । श्रुत्वैतत् परमप्रीतो वज्रस्तं प्रत्युवाच ह ॥ 12 वज्रनाभ उवाच - राज उचितमेतत्ते यदस्मासु प्रभाषसे । त्वत्पित्रोपकृतश्चाहं धनुर्विद्याप्रदानतः ॥ 13 तस्मात् नाल्पापि मे चिन्ता क्षात्रं दृढमुपेयुषः । किन्त्वेका परमा चिन्ता तत्र किञ्चिद् विचार्यताम् ॥ 14 माथुरे त्वभिषिक्तोऽपि स्थितोऽहं निर्जने वने । क्व गता वै प्रजात्रत्या अत्र राज्यं प्ररोचते ॥ 15 इत्युक्तो विष्णुरातस्तु नदादीनां पुरोहितम् । शाण्डिल्यमाजुहावाशु वज्रसन्देहमुत्तये ॥ 16 अथोटजं विहायाशु शाण्डिल्यः समुपागतः । पूजितो वज्रनाभेन निषसादासनोत्तमे ॥ 17 उपोद्‌घातं विष्णुरातः चकाराशु ततस्त्वसौ । उवाच परमप्रीतस्तावुभौ परिसान्त्वयन् ॥ 18 शाण्डिल्य उवाच - श्रृणुतं दत्तचित्तौ मे रहस्यं व्रजभूमिजम् । व्रजनं व्याप्तिरित्युक्त्या व्यापनाद् व्रज उच्यते ॥ 19 गुणातीतं परं ब्रह्म व्यापकं व्रज उच्यते । सदानन्दं परं ज्योतिः मुक्तानां पदमव्ययम् ॥ 20 तस्मिन् नन्दात्मजः कृष्णः सदानन्दाङ्‍‌गविग्रहः । आत्मारामस्चाप्तकामः प्रेमाक्तैरनुभूयते ॥ 21 आत्मा तु राधिका तस्य तयैव रमणादसौ । आत्मारामतया प्राज्ञैः प्रोच्यते बूढवेदिभिः ॥ 22 कामास्तु वाञ्छितास्तस्य गावो गोपाश्च गोपिकाः । नित्यां सर्वे विहाराद्या आप्तकामस्ततस्त्वयम् ॥ 23 रहस्यं त्विदमेतस्य प्रकृतेः परमुच्यते । प्रकृत्या खेलतस्तस्य लीलान्यैरनुभूयते ॥ 24 सर्गस्थित्यप्यया जत्र रजःसत्त्वतमोगुणैः । लीलैवं द्विविधा तस्य वास्तवी व्यावहारिकी ॥ 25 वास्तवी तत्स्वसंवेद्या जीवानां व्यावहारिकी । आद्यां विना द्वितीया न द्वितीया नाद्यगा क्वचित् ॥26 युवयोः गोचरेयं तु तल्लीला व्यावहारिकी । यत्र भूरादयो लोका भुवि माथुरमण्डलम् ॥ 27 अत्रैव व्रजभूमिः सा यत्र तत्वं सुगोपितम् । भासते प्रेमपूर्णानां कदाचिदपि सर्वतः ॥ 28 कदाचित् द्वापरस्यान्ते रहोलीलाधिकारिणः । समवेता यदात्र स्युः यथेदानीं तदा हरिः ॥ 29 स्वैः सहावतरेत् स्वेषु समावेशार्थमीप्सिताः । तदा देवादयोऽप्यन्ये ऽवरन्ति समन्ततः ॥ 30 सर्वेषां वाञ्छितं कृत्वा हरिरन्तर्हितोऽभवत् । तेनात्र त्रिविधा लोकाः स्थिताः पूर्वं न संशयः ॥ 31 नित्यास्तल्लिप्सवश्चैव देवाद्याश्चेति भेदतः । देवाद्यास्तेषु कृष्णेन द्वारिकां प्रापिताः पुरा ॥ 32 पुनर्मौसलमार्गेण स्वाधिकारेषु चापिताः । तल्लिप्सूंश्च सदा कृष्णः प्रेमानन्दैकरूपिणः ॥ 33 विधाय स्वीयनित्येषु समावेशितवांस्तदा । नित्याः सर्वेऽप्ययोग्येषु दर्शनाभावतां गताः ॥ 34 व्यावकारिकलीलास्थाः तत्र यन्नाधिकारिणः । पश्यन्त्यत्रागतास्तत्मात् निर्जनत्वं समन्ततः ॥ 35 तस्माच्चिन्ता न ते कार्या वज्रनाभ मदाज्ञया । वासयात्र बहून् ग्रामान् संसिद्धिस्ते भविष्यति ॥ 36 कृष्णलीलानुसारेण कृत्वा नामानि सर्वतः । त्वया वासयता ग्रामान् संसेव्या भूरियं परा ॥ 37 गोवर्द्धने दीर्घपुरे मथुरायां महावने । नन्दिग्रामे बृहत्सानौ कार्या राज्यस्थितिस्त्वया ॥ 38 नद्यद्रिद्रोणिकुण्डादि कुञ्जान् संसेवतस्तव । राज्ये प्रजाः सुसम्पन्नास्त्वं च प्रीतो भविष्यसि ॥ 39 सच्चिदानन्दभूरेषा त्वया सेव्या प्रयत्‍नतः । तव कृष्णस्थलान्यत्र स्फुरन्तु मदनुग्रहात् ॥ 40 वज्र संसेवनादस्य उद्धवस्त्वां मिलिष्यति । ततो रहस्यमेतस्मात् प्राप्स्यसि त्वं समातृकः ॥ 41 एवमुक्त्वा तु शाण्डिल्यो गतः कृष्णमनुस्मरन् । विष्णूरातोऽथ वज्रश्च परां प्रीत्तिमवापतुः ॥ 42 ॥ इति श्रीस्कान्दे महापुराण एकशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीमद् भागवतमाहात्म्ये शाण्डिल्योपदिष्ट व्रजभूमिमाहात्म्यवर्णनं नाम प्रथोमोऽध्यायः ॥ 1 ॥