सूत उवाच अथ वैष्णवचित्तेषु दृष्ट्वा भक्तिमलौकिकीम् । निजलोकं परित्यज्य भगवान् भक्तवत्सलः ॥ 1 वनमाली घनश्यामः पीतवासा मनोहरः । काञ्चीकलापरुचिरो लसन्मुकुटकुण्डलः ॥ 2 त्रिभङ्गललितश्चारुकौस्तुभेन विराजितः । कोटिमन्मथलावण्यो हरिचन्दनचर्चितः ॥ 3 परमानन्दचिन्मूर्तिर्मधुरो मुरलीधरः । आविवेश स्वभक्तानां हृदयान्यमलानि च ॥ 4 वैकुण्ठवासिनो ये च वैष्णवा उद्धवादयः । तत्कथाश्रवणार्थं ते गूढरूपेण संस्थिताः ॥ 5 तदा जयजयारावो रसपुष्टिरलौकिकी । चूर्णप्रसूनवृष्टिश्च मुहुः शङ्खरवोऽप्यभूत् ॥ 6 तत्सभासंस्थितानां च देहगेहात्मविस्मृतिः । दृष्ट्वा च तन्मयावस्थां नारदो वाक्यमब्रवीत् ॥ 7 अलौकिकोऽयं महिमा मुनीश्वराः सप्ताहजन्योऽद्य विलोकितो मया । मूढाः शठा ये पशुपक्षिणोऽत्र सर्वेऽपि निष्पापतमा भवन्ति ॥ 8 अतो नृलोके ननु नास्ति किञ्चित् चित्तस्य शोधाय कलौ पवित्रम् अघौघविध्वंसकरं तथैव कथासमानं भुवि नास्ति चान्यत् ॥ 9 के के विशुध्यन्ति वदन्तु मह्यं सप्ताहयज्ञेन कथामयेन । कृपालुभिर्लोकहितं विचार्य प्रकाशितः कोऽपि नवीनमार्गः ॥ 10 कुमारा ऊचुः ये मानवाः पापकृतस्तु सर्वदा सदा दुराचाररता विमार्गगाः । क्रोधाग्निदग्धाः कुटिलाश्च कामिनः सप्ताहयज्ञेन कलौ पुनन्ति ते ॥ 11 सत्येन हीनाः पितृमातृदूषका- स्तृष्णाकुलाश्चाश्रमधर्मवर्जिताः । ये दाम्भिकाः मत्सरिणोऽपि हिंसकाः सप्ताहयज्ञेन कलौ पुनन्ति ते ॥ 12 पञ्चोग्रपापाश्छलछद्मकारिणः क्रूराः पिशाचा इव निर्दयाश्च ये । ब्रह्मस्वपुष्टा व्यभिचारकारिणः सप्ताहयज्ञेन कलौ पुनन्ति ते ॥ 13 कायेन वाचा मनसापि पातकं नित्यं प्रकुर्वन्ति शठा हठेन ये । परस्वपुष्टा मलिना दुराशयाः सप्ताहयज्ञेन कलौ पुनन्ति ते ॥ 14 अत्र ते कीर्तयिष्याम इतिहासं पुरातनम् । यस्य श्रवणमात्रेण पापहानिः प्रजायते ॥ 15 तुङ्गभद्रातटे पूर्वमभूत्पत्तनमुत्तमम् । यत्र वर्णाः स्वधर्मेण सत्यसत्कर्मतत्पराः ॥ 16 आत्मदेवः पुरे तस्मिन् सर्ववेदविशारदः । श्रौतस्मार्तेषु निष्णातो द्वितीय इव भास्करः ॥ 17 भिक्षुको वित्तवाँल्लोके तत्प्रिया धुन्धुली स्मृता । स्ववाक्यस्थापिका नित्यं सुन्दरी सुकुलोद्भवा ॥ 18 लोकवार्तारता क्रूरा प्रायशो बहुजल्पिका । शूरा च गृहकृत्येषु कृपणा कलहप्रिया ॥ 19 एवं निवसतोः प्रेम्णा दम्पत्यो रममाणयोः । अर्थाः कामास्तयोरासन्न सुखाय गृहादिकम् ॥ 20 पश्चाद्धर्माः समारब्धास्ताभ्यां सन्तानहेतवे । गोभूहिरण्यवासांसि दीनेभ्यो यच्छतः सदा ॥ 21 धनार्धं धर्ममार्गेण ताभ्यां नीतं तथापि च । न पुत्रो नापि वा पुत्री ततश्चिन्तातुरो भृशम् ॥ 22 एकदा स द्विजो दुःखाद्गृहं त्यक्त्वा वनं गतः । मध्याह्ने तृषितो जातस्तडागं समुपेयिवान् ॥ 23 पीत्वा जलं निषण्णस्तु प्रजादुःखेन कर्शितः । मुहूर्तादपि तत्रैव सन्न्यासी कश्चिदागतः ॥ 24 दृष्ट्वा पीतजलं तं तु विप्रो यातस्तदन्तिकम् । नत्वा च पादयोस्तस्य निःश्वसन् संस्थितः पुरः ॥ 25 यतिरुवाच कथं रोदिषि विप्र त्वं का ते चिन्ता बलीयसी । वद त्वं सत्वरं मह्यं स्वस्य दुःखस्य कारणम् ॥ 26 ब्राह्मण उवाच किं ब्रवीमि ऋषे दुःखं पूर्वपापेन सञ्चितम् । मदीयाः पूर्वजास्तोयं कवोष्णमुपभुञ्जते ॥ 27 मद्दत्तं नैव गृह्णन्ति प्रीत्या देवा द्विजादयः । प्रजादुःखेन शून्योऽहं प्राणांस्त्यक्तुमिहागतः ॥ 28 धिग्जीवितं प्रजाहीनं धिग्गृहं च प्रजां विना । धिग्धनं चानपत्यस्य धिक्कुलं सन्ततिं विना ॥ 29 पाल्यते या मया धेनुः सा वन्ध्या सर्वथा भवेत् । यो मया रोपितो वृक्षः सोऽपि वन्ध्यत्वमाश्रयेत् ॥ 30 यत्फलं मद्गृहायातं तच्च शीघ्रं विनश्यति । निर्भाग्यस्यानपत्यस्य किमतो जीवितेन मे ॥ 31 इत्युक्त्वा स रुरोदोच्चैस्तत्पार्श्वं दुःखपीडितः । तदा तस्य यतेश्चित्ते करुणाभूद्गरीयसी ॥ 32 तद्भालाक्षरमालां च वाचयामास योगवान् । सर्वं ज्ञात्वा यतिः पश्चाद्विप्रमूचे सविस्तरम् ॥ 33 यतिरुवाच मुञ्चाज्ञानं प्रजारूपं बलिष्ठा कर्मणो गतिः । विवेकं तु समासाद्य त्यज संसारवासनाम् ॥ 34 शृणु विप्र मया तेऽद्य प्रारब्धं तु विलोकितम् । सप्तजन्मावधि तव पुत्रो नैव च नैव च ॥ 35 सन्ततेः सगरो दुःखमवापाङ्गः पुरा तथा । रे मुञ्चाद्य कुटुम्बाशां सन्न्यासे सर्वथा सुखम् ॥ 36 ब्राह्मण उवाच विवेकेन भवेत् किं मे पुत्रं देहि बलादपि । नो चेत्त्यजाम्यहं प्राणांस्त्वदग्रे शोकमूर्च्छितः ॥ 37 पुत्रादिसुखहीनोऽयं सन्न्यासः शुष्क एव हि । गृहस्थः सरसो लोके पुत्रपौत्रसमन्वितः ॥ 38 इति विप्राग्रहं दृष्ट्वा प्राब्रवीत्स तपोधनः । चित्रकेतुर्गतः कष्टं विधिलेखविमार्जनात् ॥ 39 न यास्यसि सुखं पुत्राद्यथा दैवहतोद्यमः । अतो हठेन युक्तोऽसि ह्यर्थिनं किं वदाम्यहम् ॥ 40 तस्याग्रहं सामालोक्य फलमेकं स दत्तवान् । इदं भक्षय पत्न्या त्वं ततः पुत्रो भविष्यति ॥ 41 सत्यं शौचं दया दानमेकभक्तं तु भोजनम् । वर्षावधि स्त्रिया कार्यं तेन पुत्रोऽतिनिर्मलः ॥ 42 एवमुक्त्वा ययौ योगी विप्रस्तु गृहमागतः । पत्न्याः पाणौ फलं दत्वा स्वयं यातस्तु कुत्रचित् ॥ 43 तरुणी कुटिला तस्य सख्यग्रे च रुरोद ह । अहो चिन्ता ममोत्पन्न फलं चाहं न भक्षये ॥ 44 फलभक्षेण गर्भः स्याद्गर्भेणोदरवृद्धिता । स्वल्पभक्षं ततोऽशक्तिर्गृहकार्यं कथं भवेत् ॥ 45 दैवाद्धाटि व्रजेद्ग्रामे पलायेद्गर्भिणी कथम् । शुकवन्निवसेद्गर्भस्तं कुक्षेः कथमुत्सृजेत् ॥ 46 तिर्यक्चेदागतो गर्भस्तदा मे मरणं भवेत् । प्रसूतौ दारुणं दुःखं सुकुमारी कथं सहे ॥ 47 मन्दायां मयि सर्वस्वं ननान्दा संहरेत्तदा । सत्यशौचादिनियमो दुराराध्यः स दृश्यते ॥ 48 लालने पालने दुःखं प्रसूतायाश्च वर्तते । वन्ध्या वा विधवा नारी सुखिनी चेति मे मतिः ॥ 49 एवं कुतर्कयोगेन तत्फलं नैव भक्षितम् । पत्या पृष्टं फलं भुक्तं भुक्तं चेति तयेरितम् ॥ 50 एकदा भगिनी तस्यास्तद्गृहं स्वेच्छयाऽऽगता । तदग्रे कथितं सर्वं चिन्तेयं महती हि मे ॥ 51 दुर्बला तेन दुःखेन ह्यनुजे करवाणि किम् । साब्रवीन्मम गर्भोऽस्ति तं दास्यामि प्रसूतितः ॥ 52 तावत्कालं सगर्भेव गुप्ता तिष्ठ गृहे सुखम् । वित्तं त्वं मत्पतेर्यच्छ स ते दास्यति बालकम् ॥ 53 षाण्मासिको मृतो बाल इति लोको वदिष्यति । तं बालं पोषयिष्यामि नित्यमागत्य ते गृहे ॥ 54 फलमर्पय धेन्वै त्वं परीक्षार्थं तु साम्प्रतम् । तत्तदाचरितं सर्वं तथैव स्त्रीस्वभावतः ॥ 55 अथ कालेन सा नारी प्रसूता बालकं तदा । आनीय जनको बालं रहस्ये धुन्धुलीं ददौ ॥ 56 तया च कथितं भर्त्रे प्रसूतः सुखमर्भकः । लोकस्य सुखमुत्पन्नमात्मदेवप्रजोदयात् ॥ 57 ददौ दानं द्विजातिभ्यो जातकर्म विधाय च । गीतवादित्रघोषोऽभूत्तद्द्वारे मङ्गलं बहु ॥ 58 भर्तुरग्रेऽब्रवीद्वाक्यं स्तन्यं नास्ति कुचे मम । अन्यस्तन्येन निर्दुग्धा कथं पुष्णामि बालकम् ॥ 59 मत्स्वसुश्च प्रसूतायाः मृतो बालस्तु वर्तते । तामाकार्य गृहे रक्ष सा तेऽर्भं पोषयिष्यति ॥ 60 पतिना तत्कृतं सर्वं पुत्ररक्षणहेतवे । पुत्रस्य धुन्धुकारीति नाम मात्रा प्रतिष्ठितम् ॥ 61 त्रिमासे निर्गते चाथ सा धेनुः सुषुवेऽर्भकम् । सर्वाङ्गसुन्दरं दिव्यं निर्मलं कनकप्रभम् ॥ 62 दृष्ट्वा प्रसन्नो विप्रस्तु संस्कारान् स्वयमादधे । मत्वाऽऽश्चर्यं जनाः सर्वे दिदृक्षार्थं समागताः ॥ 63 भाग्योदयोऽधुना जात आत्मदेवस्य पश्यत । धेन्वा बालः प्रसूतस्तु देवरूपीति कौतुकम् ॥ 64 न ज्ञातं तद्रहस्यं तु केनापि विधियोगतः । गोकर्णं तं सुतं दृष्ट्वा गोकर्णं नाम चाकरोत् ॥ 65 कियत्कालेन तौ जातौ तरुणौ तनयावुभौ । गोकर्णः पण्डितो ज्ञानी धुन्धुकारी महाखलः ॥ 66 स्नानशौचक्रियाहीनो दुर्भक्षी क्रोधवर्धितः । दुष्परिग्रहकर्ता च शवहस्तेन भोजनम् ॥ 67 चौरः सर्वजनद्वेषी परवेश्मप्रदीपकः । लालनायार्भकान् धृत्वा सद्यः कूपे न्यपातयत् ॥ 68 हिंसकः शस्त्रधारी च दीनान्धानां प्रपीडकः । चाण्डालाभिरतो नित्यं पाशहस्तः श्वसंगतः ॥ 69 तेन वेश्याकुसङ्गेन पित्र्यं वित्तं तु नाशितम् । एकदा पितरौ ताड्य पात्राणि स्वयमाहरत् ॥ 70 तत्पिता कृपणः प्रोच्चैर्धनहीनो रुरोद ह । वन्ध्यत्वं तु समीचीनं कुपुत्रो दुःखदायकः ॥ 71 क्व तिष्ठामि क्व गच्छामि को मे दुःखं व्यपोहयेत् । प्राणांस्त्यजामि दुःखेन हा कष्टं मम संस्थितम् ॥ 72 तदानीं तु समागत्य गोकर्णो ज्ञानसंयुतः । बोधयामास जनकं वैराग्यं परिदर्शयन् ॥ 73 असारः खलु संसारो दुःखरूपी विमोहकः । सुतः कस्य धनं कस्य स्नेहवान् ज्वलतेऽनिशम् ॥ 74 न चेन्द्रस्य सुखं किञ्चिन्न सुखं चक्रवर्तिनः । सुखमस्ति विरक्तस्य मुनेरेकान्तजीविनः ॥ 75 मुञ्चाज्ञानं प्रजारूपं मोहतो नरके गतिः । निपतिष्यति देहोऽयं सर्वं त्यक्त्वा वनं व्रज ॥ 76 तद्वाक्यं तु समाकर्ण्य गन्तुकामः पिताब्रवीत् । किं कर्तव्यं वने तात तत्त्वं वद सविस्तरम् ॥ 77 अन्धकूपे स्नेहपाशे बद्धः पङ्कुरहं शठः । कर्मणा पतितो नूनं मामुद्धर दयानिधे ॥ 78 गोकर्ण उवाच देहेऽस्थिमांसरुधिरेऽभिमतिं त्यज त्वं जायासुतादिषु सदा ममतां विमुञ्च पश्यानिशं जगदिदं क्षणभङ्गनिष्ठं वैराग्यरागरसिको भव भक्तिनिष्ठः ॥ 79 धर्मं भजस्व सततं त्यज लोकधर्मान् सेवस्व साधुपुरुषान् जहि कामतृष्णाम् । अन्यस्य दोषगुणचिन्तनमाशु मुक्त्वा सेवाकथारसमहो नितरां पिब त्वम् ॥ 80 एवं सुतोक्तिवशतोऽपि गृहं विहाय यातो वनं स्थिरमतिर्गतषष्टिवर्षः । युक्तो हरेरनुदिनं परिचर्ययासौ श्रीकृष्णमाप नियतं दशमस्य पाठात् ॥ 81 इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये विप्रमोक्षो नाम चतुर्थोऽध्यायः ॥ 4॥