सूत उवाच पितर्युपरते तेन जननी ताडिता भृशम् । क्व वित्तं तिष्ठति ब्रूहि हनिष्ये लत्तया न चेत् ॥ 1 इति तद्वाक्यसंत्रासाज्जनन्या पुत्रदुःखतः । कूपे पातःकृतो रात्रौ तेन सा निधनं गता ॥ 2 गोकर्णस्तीर्थयात्रार्थं निर्गतो योगसंस्थितः । न दुःखं न सुखं तस्य न वैरी नापि बान्धवः ॥ 3 धुन्धुकारी गृहेऽतिष्ठत् पञ्चपण्यवधूवृतः । अत्युग्रकर्मकर्ता च तत्पोषणविमूढधीः ॥ 4 एकदा कुलटास्तास्तु भूषणान्यभिलिप्सवः । तदर्थं निर्गतो गेहात् कामान्धो मृत्युमस्मरन् ॥ 5 यतस्ततश्च संहृत्य वित्तं वेश्म पुनर्गतः । ताभ्योऽयच्छत् सुवस्त्राणि भूषणानि कियन्ति च ॥ 6 बहुवित्तचयं दृष्ट्वा रात्रौ नार्यो व्यचारयन् । चौर्यं करोत्यसौ नित्यमतो राजा ग्रहीष्यति ॥ 7 वित्तं हृत्वा पुनश्चैनं मारयिष्यति निश्चितम् । अतोऽर्थगुप्तये गूढमस्माभिः किं न हन्यते ॥ 8 निहत्यैनं गृहीत्वार्थं यास्यामो यत्र कुत्रचित् । इति ता निश्चयं कृत्वा सुप्तं संबध्य रश्मिभिः ॥ 9 पाशं कण्ठे निधायास्य तन्मृत्युमपचक्रमुः । त्वरितं न ममारासौ चिन्तायुक्तास्तदाभवन् ॥ 10 तप्ताङ्गारसमूहांश्च तन्मुखे हि विचिक्षिपुः । अग्निज्वालातिदुःखेन व्याकुलो निधनं गतः ॥ 11 तं देहं मुमुचुर्गर्ते प्रायः साहसिकाः स्त्रियः । न ज्ञातं तद्रहस्यं तु केनापीदं तथैव च ॥ 12 लोकैः पृष्टा वदन्ति स्म दूरं यातः प्रियो हि नः । आगमिष्यति वर्षेऽस्मिन् वित्तलोभविकर्षितः ॥ 13 स्त्रीणां नैव तु विश्वासं दुष्टानां कारयेद्बुधः । विश्वासे यः स्थितो मूढः स दुःखैः परिभूयते ॥ 14 सुधामयं वचो यासां कामिनां रसवर्धनम् । हृदयं क्षुरधाराभं प्रियः को नाम योषिताम् ॥ 15 संहृत्य वित्तं ता याताः कुलटा बहुभर्तृकाः । धुन्धुकारी बभूवाथ महान् प्रेतः कुकर्मतः ॥ 16 वात्यारूपधरो नित्यं धावन् दशदिशोऽन्तरम् । शीतातपपरिक्लिष्टो निराहारः पिपासितः ॥ 17 न लेभे शरणं क्वापि हा दैवेति मुहुर्वदन् । कियत्कालेन गोकर्णो मृतं लोकादबुध्यत ॥ 18 अनाथं तं विदित्वैव गयाश्राद्धमचीकरत् । यस्मिंस्तीर्थे तु संयाति तत्र श्राद्धमवर्तयत् ॥ 19 एवं भ्रमन् स गोकर्णः स्वपुरं समुपेयिवान् । रात्रौ गृहाङ्गणे स्वप्तुमागतोऽलक्षितः परैः ॥ 20 तत्र सुप्तं स विज्ञाय धुन्धुकारी स्वबान्धवम् । निशीथे दर्शयामास महारौद्रतरं वपुः ॥ 21 सकृन्मेषः सकृद्धस्ती सकृच्च महिषोऽभवत् । सकृदिन्द्रः सकृच्चाग्निः पुनश्च पुरुषोऽभवत् ॥ 22 वैपरीत्यमिदं दृष्ट्वा गोकर्णो धैर्यसंयुतः । अयं दुर्गतिकः कोऽपि निश्चित्याथ तमब्रवीत् ॥ 23 गोकर्ण उवाच कस्त्वमुग्रतरो रात्रौ कुतो यातो दशामिमाम् । किं वा प्रेतः पिशाचो वा राक्षसोऽसीति शंस नः ॥ 24 सूत उवाच एवं पृष्टस्तदा तेन रुरोदोच्चैः पुनः पुनः । अशक्तो वचनोच्चारे संज्ञामात्रं चकार ह ॥ 25 ततोऽञ्जलौ जलं कृत्वा गोकर्णस्तमुदीरयत् । तत्सेकाद्गतपापोऽसौ प्रवक्तुमुपचक्रमे ॥ 26 प्रेत उवाच अहं भ्राता त्वदीयोऽस्मि धुन्धुकारीति नामतः । स्वकीयेनैव दोषेण ब्रह्मत्वं नाशितं मया ॥ 27 कर्मणो नास्ति संख्या मे महाज्ञाने विवर्तिनः । लोकानां हिंसकः सोऽहं स्त्रीभिर्दुःखेन मारितः ॥ 28 अतः प्रेतत्वमापन्नो दुर्दशां च वहाम्यहम् । वाताहारेण जीवामि दैवाधीनफलोदयात् ॥ 29 अहो बन्धो कृपासिन्धो भ्रातर्मामाशु मोचय । गोकर्णो वचनं श्रुत्वा तस्मै वाक्यमथाब्रवीत् ॥ 30 गोकर्ण उवाच त्वदर्थं तु गयापिण्डो मया दत्तो विधानतः । तत्कथं नैव मुक्तोऽसि ममाश्चर्यमिदं महत् ॥ 31 गयाश्राद्धान्न मुक्तिश्चेदुपायो नापरस्त्विह । किं विधेयं मया प्रेत तत्त्वं वद सविस्तरम् ॥ 32 प्रेत उवाच गयाश्राद्धशतेनापि मुक्तिर्मे न भविष्यति । उपायमपरं कंचित्त्वं विचारय सांप्रतम् ॥ 33 इति तद्वाक्यमाकर्ण्य गोकर्णो विस्मयं गतः । शतश्राद्धैर्न मुक्तिश्चेदसाध्यं मोचनं तव ॥ 34 इदानीं तु निजं स्थानमातिष्ठ प्रेत निर्भयः । त्वन्मुक्तिसाधकं किंचिदाचरिष्ये विचार्य च ॥ 35 धुन्धुकारी निजस्थानं तेनादिष्टस्ततो गतः । गोकर्णश्चिन्तयामास तां रात्रिं न तदध्यगात् ॥ 36 प्रातस्तमागतं दृष्ट्वा लोकाः प्रीत्या समागताः । तत्सर्वं कथितं तेन यज्जातं च यथा निशि ॥ 37 विद्वांसो योगनिष्ठाश्च ज्ञानिनो ब्रह्मवादिनः । तन्मुक्तिं नैव तेऽपश्यन् पश्यन्तः शास्त्रसंचयान् ॥ 38 ततः सर्वैः सूर्यवाक्यं तन्मुक्तौ स्थापितं परम् । गोकर्णः स्तम्भनं चक्रे सूर्यवेगस्य वै तदा ॥ 39 तुभ्यं नमो जगत्साक्षिन् ब्रूहि मे मुक्तिहेतुकम् । तच्छ्रुत्वा दूरतः सूर्यः स्फुटमित्यभ्यभाषत ॥ 40 श्रीमद्भागवतान्मुक्तिः सप्ताहं वाचनं कुरु । इति सूर्यवचः सर्वैर्धर्मरूपं तु विश्रुतम् ॥ 41 सर्वेऽब्रुवन् प्रयत्नेन कर्तव्यं सुकरं त्विदम् । गोकर्णो निश्चयं कृत्वा वाचनार्थं प्रवर्तितः ॥ 42 तत्र संश्रवणार्थाय देशग्रामाज्जना युयुः । पङ्ग्वन्धवृद्धमन्दाश्च तेऽपि पापक्षयाय वै ॥ 43 समाजस्तु महाञ्जातो देवविस्मयकारकः । यदैवासनमास्थाय गोकर्णोऽकथयत् कथाम् ॥ 44 स प्रेतोऽपि तदा यातः स्थानं पश्यन्नितस्ततः । सप्तग्रन्थियुतं तत्रापश्यत्कीचकमुच्छ्रितम् ॥ 45 तन्मूलच्छिद्रमाविश्य श्रवणार्थं स्थितो ह्यसौ । वातरूपी स्थितिं कर्तुमशक्तो वंशमाविशत् ॥ 46 वैष्णवं ब्राह्मणं मुख्यं श्रोतारं परिकल्प्य सः । प्रथमस्कन्धतः स्पष्टमाख्यानं धेनुजोऽकरोत् ॥ 47 दिनान्ते रक्षिता गाथा तदा चित्रं बभूव ह । वंशैकग्रन्थिभेदोऽभूत् सशब्दं पश्यतां सताम् ॥ 48 द्वितीयेऽह्नि तथा सायं द्वितीयग्रन्थिभेदनम् । तृतीयेऽह्नि तथा सायं तृतीयग्रन्थिभेदनम् ॥ 49 एवं सप्तदिनैश्चैव सप्तग्रन्थिविभेदनम् । कृत्वा स द्वादशस्कन्धश्रवणात् प्रेततां जहौ ॥ 50 दिव्यरूपधरो जातस्तुलसीदाममण्डितः । पीतवासा घनश्यामो मुकुटी कुण्डलान्वितः ॥ 51 ननाम भ्रातरं सद्यो गोकर्णमिति चाब्रवीत् । त्वयाहं मोचितो बन्धो कृपया प्रेतकश्मलात् ॥ 52 धन्या भागवती वार्ता प्रेतपीडाविनाशिनी । सप्ताहोऽपि तथा धन्यः कृष्णलोकफलप्रदः ॥ 53 कम्पन्ते सर्वपापानि सप्ताहश्रवणे स्थिते । अस्माकं प्रलयं सद्यः कथा चेयं करिष्यति ॥ 54 आर्द्रं शुष्कं लघु स्थूलं वाङ्मनःकर्मभिः कृतम् । श्रवणं विदहेत्पापं पावकः समिधो यथा ॥ 55 अस्मिन् वै भारते वर्षे सूरिभिर्वेदसंसदि । अकथाश्राविणां पुंसां निष्फलं जन्म कीर्तितम् ॥ 56 किं मोहतो रक्षितेन सुपुष्टेन बलीयसा । अध्रुवेण शरीरेण शुकशास्त्रकथां विना ॥ 57 अस्थिस्तम्भं स्नायुबद्धं मांसशोणितलेपितम् । चर्मावनद्धं दुर्गन्धं पात्रं मूत्रपुरीषयोः ॥ 58 जराशोकविपाकार्तं रोगमन्दिरमातुरम् । दुष्पूरं दुर्धरं दुष्टं सदोषं क्षणभङ्गुरम् ॥ 59 कृमिविड्भस्मसंज्ञान्तं शरीरमिति वर्णितम् । अस्थिरेण स्थिरं कर्म कुतोऽयं साधयेन्न हि ॥ 60 यत् प्रातः संस्कृतं चान्नं सायं तच्च विनश्यति । तदीयरससंपुष्टे काये का नाम नित्यता ॥ 61 सप्ताहश्रवणाल्लोके प्राप्यते निकटे हरिः । अतो दोषनिवृत्त्यर्थमेतदेव हि साधनम् ॥ 62 बुद्बुदा इव तोयेषु मशका इव जन्तुषु । जायन्ते मरणायैव कथाश्रवणवर्जिताः ॥ 63 जडस्य शुष्कवंशस्य यत्र ग्रन्थिविभेदनम् । चित्रं किमु तदा चित्तग्रन्थिभेदः कथाश्रवात् ॥ 64 भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वशंशयाः । क्षीयन्ते चास्य कर्माणि सप्ताहश्रवणे कृते ॥ 65 संसारकर्दमालेपप्रक्षालनपटीयसि । कथातीर्थे स्थिते चित्ते मुक्तिरेव बुधैः स्मृता ॥ 66 एवं ब्रुवति वै तस्मिन् विमानमागमत्तदा । वैकुण्ठवासिभिर्युक्तं प्रस्फुरद्दीप्तिमण्डलम् ॥ 67 सर्वेषां पश्यतां भेजे विमानं धुन्धुलीसुतः । विमाने वैष्णवान् वीक्ष्य गोकर्णो वाक्यमब्रवीत् ॥ 68 गोकर्ण उवाच अत्रैव बहवः सन्ति श्रोतारो मम निर्मलाः । आनीतानि विमनानि न तेषां युगपत्कुतः ॥ 69 श्रवणं समभागेन सर्वेषामिह दृश्यते । फलभेदः कुतो जातः प्रब्रुवन्तु हरिप्रियाः ॥ 70 हरिदासा ऊचुः श्रवणस्य विभेदेन फलभेदोऽत्र संस्थितः । श्रवणं तु कृतं सर्वैर्न तथा मननं कृतम् ॥ 71 फलभेदस्ततो जातो भजनादपि मानद । सप्तरात्रमुपोष्यैव प्रेतेन श्रवणं कृतम् ॥ 72 मननादि तथा तेन स्थिरचित्ते कृतं भृशम् । अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम् ॥ 73 संदिग्धो हि हतो मन्त्रो व्यग्रचित्तो हतो जपः । अवैष्णवो हतो देशो हतं श्राद्धमपात्रकम् ॥ 74 हतमश्रोत्रिये दानमनाचारहतं कुलम् । विश्वासो गुरुवाक्येषु स्वस्मिन् दीनत्वभावना ॥ 75 मनोदोषजयश्चैव कथायां निश्चला मतिः । एवमादि कृतं चेत्स्यात्तदा वै श्रवणे फलम् ॥ 76 पुनःश्रवान्ते सर्वेषां वैकुण्ठे वसतिर्ध्रुवम् गोकर्ण तव गोविन्दो गोलोकं दास्यति स्वयम् ॥ 77 एवमुक्त्वा ययुः सर्वे वैकुण्ठं हरिकीर्तनाः । श्रावणे मासि गोकर्णः कथामूचे तथा पुनः ॥ 78 सप्तरात्रवतीं भूयः श्रवणं तैः कृतं पुनः । कथासमाप्तौ यज्जातं श्रूयतां तच्च नारद ॥ 79 विमानैः सह भक्तैश्च हरिराविर्बभूव ह । जयशब्दा नमःशब्दास्तत्रासन् बहवस्तदा ॥ 80 पाञ्चजन्यध्वनिं चक्रे हर्षात्तत्र स्वयं हरिः । गोकर्णं तु समालिङ्ग्याकरोत् स्वसदृशं हरिः ॥ 81 श्रोतॄनन्यान् घनश्यामान् पीतकौशेयवाससः । किरीटिनः कुण्डलिनस्तथा चक्रे हरिः क्षणात् ॥ 82 तद्ग्रामे ये स्थिता जीवा आश्वचाण्डालजातयः । विमाने स्थापितास्तेऽपि गोकर्णकृपया तदा ॥ 83 प्रेषिता हरिलोके ते यत्र गच्छन्ति योगिनः । गोकर्णेन स गोपालो गोलोकं गोपवल्लभम् ॥ 84 कथाश्रवणतः प्रीतो निर्ययौ भक्तवत्सलः । अयोध्यावासिनः पूर्वं यथा रामेण सङ्गताः ॥ 85 तथा कृष्णेन ते नीता गोलोकं योगिदुर्लभम् । यत्र सूर्यस्य सोमस्य सिद्धानां न गतिः कदा । तं लोकं हि गतास्ते तु श्रीमद्भागवतश्रवात् ॥ 86 ब्रूमोऽद्य ते किं फलवृन्दमुज्ज्वलं सप्ताहयज्ञेन कथासु संचितम् । कर्णेन गोकर्णकथाक्षरे यैः पीतश्च ते गर्भगता न भूयः ॥ 87 वाताम्बुपर्णाशनदेहशोषणै- स्तपोभिरुग्रैश्चिरकालसंचितैः । योगैश्च संयान्ति न तां गतिं वै सप्ताहगाथाश्रवणेन यान्ति याम् ॥ 88 इतिहासमिमं पुण्यं शाण्डिल्योऽपि मुनीश्वरः । पठते चित्रकूटस्थो ब्रह्मानन्दपरिप्लुतः ॥ 89 आख्यानमेतत्परमं पवित्रं श्रुतं सकृद्वै विदहेदघौघम् । श्राद्धे प्रयुक्तं पितृतृप्तिमावहेन्नित्यं सुपाठादपुनर्भवं च ॥ 90 इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये गोकर्णमोक्षवर्णनं नाम पञ्चमोऽध्यायः ॥ 5 ॥