नारद उवाच ज्ञानयज्ञं करिष्यामि शुकशास्त्रकथोज्ज्वलम् । भक्तिज्ञानविरागाणां स्थापनार्थं प्रयत्नतः ॥ 1 कुत्र कार्यो मया यज्ञः स्थलं तद्वाच्यतामिह । महिमा शुकशास्त्रस्य वक्तव्यो वेदपारगैः ॥ 2 कियद्भिर्दिवसैः श्राव्या श्रीमद्भागवती कथा । को विधिस्तत्र कर्तव्यो ममेदं ब्रुवतामितः ॥ 3 कुमारा ऊचुः शृणु नारद वक्ष्यामो विनम्राय विवेकिने । गङ्गाद्वारसमीपे तु तटमानन्दनामकम् ॥ 4 नानाऋषिगणैर्जुष्टं देवसिद्धनिषेवितम् । नानातरुलताकीर्णं नवकोमलवालुकम् ॥ 5 रम्यमेकान्तदेशस्थं हेमपद्मसुसौरभम् । यत्समीपस्थजीवानां वैरं चेतसि न स्थितम् ॥ 6 ज्ञानयज्ञस्त्वया तत्र कर्तव्यो ह्यप्रयत्नतः । अपूर्वरसरूपा च कथा तत्र भविष्यति ॥ 7 पुरःस्थं निर्बलं चैव जराजीर्णकलेवरम् । तद्द्वयं च पुरस्कृत्य भक्तिस्तत्रागमिष्यति ॥ 8 यत्र भागवती वार्ता तत्र भक्त्यादिकं व्रजेत् । कथाशब्दं समाकर्ण्य तत्त्रिकं तरुणायते ॥ 9 सूत उवाच एवमुक्त्वा कुमारास्ते नारदेन समं ततः । गङ्गातटं समाजग्मुः कथापानाय सत्वराः ॥ 10 यदा यातास्तटं ते तु तदा कोलाहलोऽप्यभूत् भूर्लोके देवलोके च ब्रह्मलोके तथैव च ॥ 11 श्रीमद्भागवतपीयूषपानाय रसलम्पटाः । धावन्तोऽप्याययुः सर्वे प्रथमं ये च वैष्णवाः ॥ 12 भृगुर्वसिष्ठश्च्यवनश्च गौतमो मेधातिथिर्देवलदेवरातौ । रामस्तथा गाधिसुतश्च शाकलो मृकण्डुपुत्रात्रिजपिप्पलादाः ॥ 13 योगेश्वरौ व्यासपराशरौ च छायाशुको जाजलिजह्नुमुख्याः । सर्वेऽप्यमी मुनिगणाः सहपुत्रशिष्याः स्वस्त्रीभिराययुरतिप्रणयेन युक्ताः ॥ 14 वेदान्तानि च वेदाश्च मन्त्रास्तन्त्राः समूर्तयः । दशसप्तपुराणानि षट्शास्त्राणि तथाऽऽययुः ॥ 15 गङ्गाद्याः सरितस्तत्र पुष्करादिसरांसि च । क्षेत्राणि च दिशः सर्वा दण्डकादिवनानि च ॥ 16 नगादयो ययुस्तत्र देवगन्धर्वदानवाः । गुरुत्वात्तत्र नायातान् भृगुः सम्बोध्य चानयत् ॥ 17 दीक्षिता नारदेनाथ दत्तमासनमुत्तमम् । कुमारा वन्दिता सर्वैर्निषेदुः कृष्णतत्पराः ॥ 18 वैष्णवाश्च विरक्ताश्च न्यासिनो ब्रह्मचारिणः । मुखभागे स्थितास्ते च तदग्रे नारदः स्थितः ॥ 19 एकभागे ऋषिगणास्तदन्यत्र दिवौकसः । वेदोपनिषदोऽन्यत्र तीर्थान्यत्र स्त्रियोऽन्यतः ॥ 20 जयशब्दो नमःशब्दः शङ्खशब्दस्तथैव च । चूर्णलाजा प्रसूनानां निक्षेपः सुमहानभूत् ॥ 21 विमानानि समारुह्य कियन्तो देवनायकाः । कल्पवृक्षप्रसूनैस्तान् सर्वांस्तत्र समाकिरन् ॥ 22 सूत उवाच एवं तेष्वेकचित्तेषु श्रीमद्भागवतस्य च । माहात्म्यमूचिरे स्पष्टं नारदाय महात्मने ॥ 23 कुमारा ऊचुः अथ ते वर्ण्यतेऽस्माभिर्महिमा शुकशास्त्रजः । यस्य श्रवणमात्रेण मुक्तिः करतले स्थिता ॥ 24 सदा सेव्या सदा सेव्या श्रीमद्भागवती कथा । यस्याः श्रवणमात्रेण हरिश्चित्तं समाश्रयेत् ॥ 25 ग्रन्थोऽष्टादशसाहस्रो द्वादशस्कन्धसम्मितः । परीक्षिच्छुकसंवादः शृणु भागवतं च यत् ॥ 26 तावत्संसारचक्रेऽस्मिन् भ्रमतेऽज्ञानतः पुमान् । यावत्कर्णगता नास्ति शुकशास्त्रकथा क्षणम् ॥ 27 किं श्रुतैर्बहुभिः शास्त्रैः पुराणैश्च भ्रमावहैः । एकं भागवतं शास्त्रं मुक्तिदानेन गर्जति ॥ 28 कथा भागवतस्यापि नित्यं भवति यद्गृहे । तद्गृहं तीर्थरूपं हि वसतां पापनाशनम् ॥ 29 अश्वमेधसहस्राणि वाजपेयशतानि च । शुकशास्त्रकथायाश्च कलां नार्हन्ति षोडशीम् ॥ 30 तावत्पापानि देहेऽस्मिन्निवसन्ति तपोधनाः । यावन्न श्रूयते सम्यक् श्रीमद्भागवतं नरैः ॥ 31 न गङ्गा न गया काशी पुष्करं न प्रयागकम् । शुकशास्त्रकथायाश्च फलेन समतां नयेत् ॥ 32 श्लोकार्धं श्लोकपादं वा नित्यं भागवतोद्भवम् । पठस्व स्वमुखेनैव यदीच्छसि परां गतिम् ॥ 33 वेदादिर्वेदमाता च पौरुषं सूक्तमेव च । त्रयी भागवतं चैव द्वादशाक्षर एव च ॥ 34 द्वादशात्मा प्रयागश्च कालः संवत्सरात्मकः । ब्राह्मणाश्चाग्निहोत्रं च सुरभिर्द्वादशी तथा ॥ 35 तुलसी च वसन्तश्च पुरुषोत्तम एव च । एतेषां तत्त्वतः प्राज्ञैर्न पृथग्भाव इष्यते ॥ 36 यश्च भागवतं शास्त्रं वाचयेदर्थतोऽनिशम् । जन्मकोटिकृतं पापं नश्यते नात्र संशयः ॥ 37 श्लोकार्धं श्लोकपादं वा पठेद्भागवतं च यः । नित्यं पुण्यमवाप्नोति राजसूयाश्वमेधयोः ॥ 38 उक्तं भागवतं नित्यं कृतं च हरिचिन्तनम् । तुलसीपोषणं चैव धेनूनां सेवनं समम् ॥ 39 अन्तकाले तु येनैव श्रूयते शुकशास्त्रवाक् । प्रीत्या तस्यैव वैकुण्ठं गोविन्दोऽपि प्रयच्छति ॥ 40 हेमसिंहयुतं चैतद्वैष्णवाय ददाति यः । कृष्णेन सह सायुज्यं स पुमाँल्लभते ध्रुवम् ॥ 41 आजन्ममात्रमपि येन शठेन किञ्चित् चित्तं विधाय शुकशास्त्रकथा न पीता । चाण्डालवच्च खरवद्बत तेन नीतं मिथ्या स्वजन्म जननीजनिदुःखभाजा ॥ 42 जीवच्छवो निगदितः स तु पापकर्मा येन श्रुतं शुककथावचनं न किञ्चित् । धिक् तं नरं पशुसमं भुवि भाररूपं एवं वदन्ति दिवि देवसमाजमुख्याः ॥ 43 दुर्लभैव कथा लोके श्रीमद्भागवतोद्भवा । कोटिजन्मसमुत्थेन पुण्येनैव तु लभ्यते ॥ 44 तेन योगनिधे धीमन् श्रोतव्या सा प्रयत्नतः । दिनानां नियमो नास्ति सर्वदा श्रवणं मतम् ॥ 45 सत्येन ब्रह्मचर्येण सर्वदा श्रवणं मतम् । अशक्यत्वात्कलौ बोध्यो विशेषोऽत्र शुकाज्ञया ॥ 46 मनोवृत्तिजयश्चैव नियमाचरणं तथा । दीक्षां कर्तुमशक्यत्वात्सप्ताहश्रवणं मतम् ॥ 47 श्रद्धातः श्रवणे नित्यं माघे तावद्धि यत्फलम् । तत्फलं शुकदेवेन सप्ताहश्रवणे कृतम् ॥ 48 मनसश्चाजयाद्रोगात्पुंसां चैवायुषः क्षयात् । कलेर्दोषबहुत्वाच्च सप्ताहश्रवणं मतम् ॥ 49 यत्फलं नास्ति तपसा न योगेन समाधिना । अनायासेन तत्सर्वं सप्ताहश्रवणे लभेत् ॥ 50 यज्ञाद्गर्जति सप्ताहः सप्ताहो गर्जति व्रतात् । तपसो गर्जति प्रोच्चैस्तीर्थान्नित्यं हि गर्जति ॥ 51 योगाद्गर्जति सप्ताहो ध्यानाज्ज्ञानाच्च गर्जति । किं ब्रूमो गर्जनं तस्य रे रे गर्जति गर्जति ॥ 52 शौनक उवाच साश्चर्यमेतत्कथितं कथानकं ज्ञानादिधर्मान् विगणय्य साम्प्रतम् । निःश्रेयसे भागवतं पुराणं जातं कुतो योगविदादिसूचकम् ॥ 53 सूत उवाच यदा कृष्णो धरां त्यक्त्वा स्वपदं गन्तुमुद्यतः । एकादशं परिश्रुत्याप्युद्धवो वाक्यमब्रवीत् ॥ 54 उद्धव उवाच त्वं तु यास्यसि गोविन्द भक्तकार्यं विधाय च । मच्चित्ते महती चिन्ता तां श्रुत्वा सुखमावह ॥ 55 आगतोऽयं कलिर्घोरो भविष्यन्ति पुनः खलाः । सत्सङ्गेनैव सन्तोऽपि गमिष्यन्त्युग्रतां यदा ॥ 56 तदा भारवती भूमिर्गोरूपेयं कमाश्रयेत् । अन्यो न दृश्यते त्राता त्वत्तः कमललोचन ॥ 57 अतः सत्सु दयां कृत्वा भक्तवत्सल मा व्रज । भक्तार्थं सगुणो जातो निराकारोऽपि चिन्मयः ॥ 58 त्वद्वियोगेन ते भक्ताः कथं स्थास्यन्ति भूतले । निर्गुणोपासने कष्टमतः किंचिद्विचारय ॥ 59 इत्युद्धववचः श्रुत्वा प्रभासेऽचिन्तयद्धरिः । भक्तावलम्बनार्थाय किं विधेयं मयेति च ॥ 60 स्वकीयं यद्भवेत्तेजस्तच्च भागवतेऽदधात् । तिरोधाय प्रविष्टोऽयं श्रीमद्भागवतार्णवम् ॥ 61 तेनेयं वाङ्मयी मूर्तिः प्रत्यक्षा वर्तते हरेः । सेवनाच्छ्रवणात्पाठाद्दर्शनात्पापनाशिनी ॥ 62 सप्ताहश्रवणं तेन सर्वेभ्योऽप्यधिकं कृतम् । साधनानि तिरस्कृत्य कलौ धर्मोऽयमीरितः ॥ 63 दुःखदारिद्र्यदौर्भाग्यपापप्रक्षालनाय च । कामक्रोधजयार्थं हि कलौ धर्मोऽयमीरितः ॥ 64 अन्यथा वैष्णवी माया देवैरपि सुदुस्त्यजा । कथं त्याज्या भवेत्पुंभिः सप्ताहोऽतः प्रकीर्तितः ॥ 65 सूत उवाच एवं नगाहश्रवणोरुधर्मे प्रकाश्यमाने ऋषिभिः सभायाम् । आश्चर्यमेकं समभूत्तदानीं तदुच्यते संशृणु शौनक त्वम् ॥ 66 भक्तिः सुतौ तौ तरुणौ गृहीत्वा प्रेमैकरूपा सहसाऽऽविरासीत् । श्रीकृष्ण गोविन्द हरे मुरारे नाथेति नामानि मुहुर्वदन्ती ॥ 67 तां चागतां भागवतार्थभूषां सुचारुवेषां ददृशुः सदस्याः । कथं प्रविष्टा कथमागतेयं मध्ये मुनीनामिति तर्कयन्तः ॥ 68 ऊचुः कुमारा वचनं तदानीं कथार्थतो निष्पतिताधुनेयम् । एवं गिरः सा ससुता निशम्य सनत्कुमारं निजगाद नम्रा ॥ 69 भक्तिरुवाच भवद्भिरद्यैव कृतास्मि पुष्टा कलिप्रणष्टापि कथारसेन । क्वाहं तु तिष्ठाम्यधुना ब्रुवन्तु ब्राह्मा इदं तां गिरमूचिरे ते ॥ 70 भक्तेषु गोविन्दसरूपकर्त्री प्रेमैकधर्त्री भवरोगहन्त्री । सा त्वं च तिष्ठस्व सुधैर्यसंश्रया निरन्तरं वैष्णवमानसानि ॥ 71 ततोऽपि दोषाः कलिजा इमे त्वां द्रष्टुं न शक्ताः प्रभवोऽपि लोके । एवं तदाज्ञावसरेऽपि भक्तिस्तदा निषण्णा हरिदासचित्ते ॥ 72 सकलभुवनमध्ये निर्धनास्तेऽपि धन्याः निवसति हृदि येषां श्रीहरेर्भक्तिरेका । हरिरपि निजलोकं सर्वथातो विहाय प्रविशति हृदि तेषां भक्तिसूत्रोपनद्धः ॥ 73 ब्रूमोऽद्य ते किमधिकं महिमानमेवं ब्रह्मात्मकस्य भुवि भागवताभितस्य । यत्संश्रयान्निगदिते लभते सुवक्ता श्रोतापि कृष्णसमतामलमन्यधर्मैः ॥ 74 ॥ इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये भक्तिकष्टनिवर्तनं नाम तृतीयोऽध्यायः ॥ 3॥