header_image
Home
Tamil

श्रीमद्भागवतमाहात्म्यम् [पद्मपुराणे] :: अथ द्वितीयोऽध्यायः

नारद उवाच वृथा खेदयसे बाले अहो चिन्तातुरा कथम् । श्रीकृष्णचरणाम्भोजं स्मर दुःखं गमिष्यति ॥ 1 द्रौपदी च परित्राता येन कौरवकश्मलात् । पालिता गोपसुन्दर्यः स कृष्णः क्वापि नो गतः ॥ 2 त्वं तु भक्तिः प्रिया तस्य सततं प्राणतोऽधिका । त्वयाऽऽहूतस्तु भगवान् याति नीचगृहेष्वपि ॥ 3 सत्यादित्रियुगे बोधवैराग्यौ मुक्तिसाधकौ । कलौ तु केवला भक्तिर्ब्रह्मसायुज्यकारिणी ॥ 4 इति निश्चित्य चिद्रूपः सद्रूपां त्वां ससर्ज ह । परमानन्दचिन्मूर्तिः सुन्दरीं कृष्णवल्लभाम् ॥ 5 बद्ध्वाञ्जलिं त्वया पृष्टं किं करोमीति चैकदा । त्वां तदाऽऽज्ञापयत्कृष्णो मद्भक्तान् पोषयेति च ॥ 6 अङ्गीकृतं त्वया तद्वै प्रसन्नोऽभूद्धरिस्तदा । मुक्तिं दासीं ददौ तुभ्यं ज्ञानवैराग्यकाविमौ ॥ 7 पोषणं स्वेन रूपेण वैकुण्ठे त्वं करोषि च । भूमौ भक्तविपोषाय छायारूपं त्वया कृतम् ॥ 8 मुक्तिं ज्ञानं विरक्तिं च सह कृत्वा गता भुवि । कृतादिद्वापरस्यान्तं महानन्देन संस्थिता ॥ 9 कलौ मुक्तिः क्षयं प्राप्ता पाखण्डामयपीडिता । त्वदाज्ञया गता शीघ्रं वैकुण्ठं पुनरेव सा ॥ 10 स्मृता त्वयापि चात्रैव मुक्तिरायाति याति च । पुत्रीकृत्य त्वयेमौ च पार्श्वे स्वस्यैव रक्षितौ ॥ 11 उपेक्षातः कलौ मन्दौ वृद्धौ जातौ सुतौ तव । तथापि चिन्तां मुञ्ज त्वमुपायं चिन्तयाम्यहम् ॥ 12 कलिना सदृशः कोऽपि युगो नास्ति वरानने । तस्मिंस्त्वां स्थापयिष्यामि गेहे गेहे जने जने ॥ 13 अन्यधर्मांस्तिरस्कृत्य पुरस्कृत्य महोत्सवान् । तदा नाहं हरेर्दासो लोके त्वां न प्रवर्तये ॥ 14 त्वदन्विताश्च ये जीवा भविष्यन्ति कलाविह । पापिनोऽपि गमिष्यन्ति निर्भयं कृष्णमन्दिरम् ॥ 15 येषां चित्ते वसेद्भक्तिः सर्वदा प्रेमरूपिणी । न ते पश्यन्ति कीनाशं स्वप्नेऽप्यमलमूर्तयः ॥ 16 न प्रेतो न पिशाचो वा राक्षसो वासुरोऽपि वा । भक्तियुक्तमनस्कानां स्पर्शने न प्रभुर्भवेत् ॥ 17 न तपोभिर्न वेदैश्च न ज्ञानेनापि कर्मणा । हरिर्हि साध्यते भक्त्या प्रमाणं तत्र गोपिकाः ॥ 18 नृणां जन्मसहस्रेण भक्तौ प्रीतिर्हि जायते । कलौ भक्तिः कलौ भक्तिर्भक्त्या कृष्णः पुरः स्थितः ॥19 भक्तिद्रोहकरा ये च ते सीदन्ति जगत्त्रये । दुर्वासा दुःखमापन्नः पुरा भक्तविनिन्दकः ॥ 20 अलं व्रतैरलं तीर्थैरलं योगैरलं मखैः । अलं ज्ञानकथालापैर्भक्तिरेकैव मुक्तिदा ॥ 21 सूत उवाच इति नारदनिर्णीतं स्वमाहात्म्यं निशम्य सा । सर्वाङ्गपुष्टिसंयुक्ता नारदं वाक्यमब्रवीत् ॥ 22 भक्तिरुवाच अहो नारद धन्योऽसि प्रीतिस्ते मयि निश्चला । न कदाचिद्विमुञ्जामि चित्ते स्थास्यामि सर्वदा ॥ 23 कृपालुना त्वया साधो मद्बाधा ध्वंसिता क्षणात् । पुत्रयोश्चेतना नास्ति ततो बोधय बोधय ॥ 24 सूत उवाच तस्या वचः समाकर्ण्य कारुण्यं नारदो गतः । तयोर्बोधनमारेभे कराग्रेण विमर्दयन् ॥ 25 मुखं संयोज्य कर्णान्ते शब्दमुच्चैः समुच्चरन् । ज्ञान प्रबुद्ध्यातां शीघ्रं रे वैराग्य प्रबुद्ध्याताम् ॥ 26 वेदवेदान्तघोषैश्च गीतापाठैर्मुहुर्मुहुः । बोध्यमानौ तदा तेन कथंचिच्चोत्थितौ बलात् ॥ 27 नेत्रैरनवलोकन्तौ जृम्भन्तौ सालसावुभौ । बकवत्पलितौ प्रायः शुष्ककाष्ठसमाङ्गकौ ॥ 28 क्षुत्क्षामौ तौ निरीक्ष्यैव पुनः स्वापपरायणौ । ऋषिश्चिन्तापरो जातः किं विधेयं मयेति च ॥ 29 अहो निद्रा कथं याति वृद्धत्वं च महत्तरम् । चिन्तयन्निति गोविन्दं स्मारयामास भार्गव ॥ 30 व्योमवाणी तदैवाभून्मा ऋषे खिद्यतामिति । उद्यमः सफलस्तेऽयं भविष्यति न संशयः ॥ 31 एतदर्थं तु सत्कर्म सुरर्षे त्वं समाचर । तत्ते कर्माभिधास्यन्ति साधवः साधुभूषणाः ॥ 32 सत्कर्मणि कृते तस्मिन् सनिद्रा वृद्धतानयोः । गमिष्यति क्षणाद्भक्तिः सर्वतः प्रसरिष्यति ॥ 33 इत्याकाशवचः स्पष्टं तत्सर्वैरपि विश्रुतम् । नारदो विस्मयं लेभे नेदं ज्ञातमिति ब्रुवन् ॥ 34 नारद उवाच अनयाऽऽकाशवाण्यापि गोप्यत्वेन निरूपितम् । किं वा तत्साधनं कार्यं येन कार्यं भवेत्तयोः ॥ 35 क्व भविष्यन्ति सन्तस्ते कथं दास्यन्ति साधनम् । मयात्र किं प्रकर्तव्यं यदुक्तं व्योमभाषया ॥ 36 सूत उवाच तत्र द्वावपि संस्थाप्य निर्गतो नारदो मुनिः । तीर्थं तीर्थं विनिष्क्रम्य पृच्छन्मार्गे मुनीश्वरान् ॥ 37 वृत्तान्तः श्रूयते सर्वैः किंचिन्निश्चित्य नोच्यते । असाध्यं केचन प्रोचुर्दुर्ज्ञेयमिति चापरे । मूकीभूतास्तथान्ये तु कियन्तस्तु पलायिताः ॥ 38 हाहाकारो महानासीत्त्रैलोक्ये विस्मयावहः । वेदवेदान्तघोषैश्च गीतापाठैर्विबोधितम् ॥ 39 भक्तिज्ञानविरागाणां नोदतिष्ठत्त्रिकं यदा । उपायो नापरोऽस्तीति कर्णे कर्णेऽजपञ्जनाः ॥ 40 योगिना नारदेनापि स्वयं न ज्ञायते तु यत् । तत्कथं शक्यते वक्तुमितरैरिह मानुषैः ॥ 41 एवमृषिगणैः पृष्टैर्निर्णीयोक्तं दुरासदम् ॥ 42 ततश्चिन्तातुरस्सोऽथ बदरीवनमागतः । तपश्चरामि चात्रेति तदर्थं कृतनिश्चयः ॥ 43 तावद्ददर्श पुरतः सनकादीन्मुनीश्वरान् । कोटिसूर्यसमाभासानुवाच मुनिसत्तमः ॥ 44 नारद उवाच इदानीं भूरिभाग्येन भवद्भिः सङ्गमोऽभवत् । कुमारा ब्रूयतां शीघ्रं कृपां कृत्वा ममोपरि ॥ 45 भवन्तो योगिनः सर्वे बुद्धिमन्तो बहुश्रुताः । पञ्चहायनसंयुक्ताः पूर्वेषामपि पूर्वजाः ॥ 46 सदा वैकुण्ठनिलया हरिकीर्तनतत्पराः । लीलामृतरसोन्मत्ताः कथामात्रैकजीविनः ॥ 47 हरिः शरणमेवं हि नित्यं येषां मुखे वचः । अतः कालसमादिष्टा जरा युष्मान्न बाधते ॥ 48 येषां भ्रूभङ्गमात्रेण द्वारपालौ हरेः पुरा । भूमौ निपतितौ सद्यो यत्कृपातः पुरं गतौ ॥ 49 अहो भाग्यस्य योगेन दर्शनं भवतामिह अनुग्रहस्तु कर्तव्यो मयि दीने दयापरैः ॥ 50 अशरीरगिरोक्तं यत्तत्किं साधनमुच्यतां अनुष्ठेयं कथं तावत्प्रब्रुवन्तु सविस्तरम् ॥ 51 भक्तिज्ञानविरागाणां सुखमुत्पद्यते कथम् । स्थापनं सर्ववर्णेषु प्रेमपूर्वं प्रयत्नतः ॥ 52 कुमारा ऊचुः मा चिन्तां कुरु देवर्षे हर्षं चित्ते समावह । उपायः सुखसाध्योऽत्र वर्तते पूर्व एव हि ॥ 53 अहो नारद धन्योऽसि विरक्तानां शिरोमणिः सदा श्रीकृष्णदासानामग्रणीर्योगभास्करः ॥ 54 त्वयि चित्रं न मन्तव्यं भक्त्यर्थमनुवर्तिनि । घटते कृष्णदासस्य भक्तेः संस्थापना सदा ॥ 55 ऋषिभिर्बहवो लोके पन्थानः प्रकटीकृताः । श्रमसाध्याश्च ते सर्वे प्रायः स्वर्गफलप्रदाः ॥ 56 वैकुण्ठसाधकः पन्था स तु गोप्यो हि वर्तते । तस्योपदेष्टा पुरुषः प्रायो भाग्येन लभ्यते ॥ 57 सत्कर्म तव निर्दिष्टं व्योमवाचा तु यत्पुरा । तदुच्यते शृणुष्वाद्य स्थिरचित्तः प्रसन्नधीः ॥ 58 द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च ते तु कर्मविसूचकाः ॥ 59 सत्कर्मसूचको नूनं ज्ञानयज्ञः स्मृतो बुधैः । श्रीमद्भागवतालापः स तु गीतः शुकादिभिः ॥ 60 भक्तिज्ञानविरागाणां तद्घोषेण बलं महत् । व्रजिष्यति द्वयोः कष्टं सुखं भक्तेर्भविष्यति ॥ 61 प्रलयं हि गमिष्यन्ति श्रीमद्भागवतध्वनेः । कलेर्दोषा इमे सर्वे सिंहशब्दाद्वृका इव ॥ 62 ज्ञानवैराग्यसंयुक्ता भक्तिः प्रेमरसावहा । प्रतिगेहं प्रतिजनं ततः क्रीडां करिष्यति ॥ 63 नारद उवाच वेदवेदान्तघोषैश्च गीतापाठैः प्रबोधितम् । भक्तिज्ञानविरागाणां नोदतिष्ठत्त्रिकं यदा ॥ 64 श्रीमद्भागवतालापात्तत्कथं बोधमेष्यति । तत्कथासु तु वेदार्थः श्लोके श्लोके पदे पदे ॥ 65 छिन्दन्तु संशयं ह्येनं भवन्तोऽमोघदर्शनाः । विलम्बो नात्र कर्तव्यः शरणागतवत्सलाः ॥ 66 कुमारा ऊचुः वेदोपनिषदां साराज्जाता भागवती कथा । अत्युत्तमा ततो भाति पृथग्भूता फलाकृतिः ॥ 67 आमूलाग्रं रसस्तिष्ठन्नास्ते न स्वाद्यते यथा । स भूयः संपृथग्भूतः फले विश्वमनोहरः ॥ 68 यथा दुग्धे स्थितं सर्पिर्न स्वादायोपकल्पते । पृथग्भूतं हि तद्गव्यं देवानां रसवर्धनम् ॥ 69 इक्षूणामापि मध्यान्तं शर्करा व्याप्य तिष्ठति । पृथग्भूता च सा मिष्टा तथा भागवती कथा ॥ 70 इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । भक्तिज्ञानविरागाणां स्थापनाय प्रकाशितम् ॥ 71 वेदान्तवेदसुस्नाते गीताया अपि कर्तरि । परितापवती व्यासे मुह्यत्यज्ञानसागरे ॥ 72 तदा त्वया पुरा प्रोक्तं चतुःश्लोकसमन्वितम् । तदीयश्रवणात्सद्यो निर्बाधो बादरायणः ॥ 73 तत्र ते विस्मयः केन यतः प्रश्नकरो भवान् । श्रीमद्भागवतं श्राव्यं शोकदुःखविनाशनम् ॥ 74 नारद उवाच यद्दर्शनं च विनिहन्त्यशुभानि सद्यः श्रेयस्तनोति भवदुःखदवार्दितानाम् । निःशेषशेषमुखगीतकथैकपानाः प्रेमप्रकाशकृतये शरणं गातोऽस्मि ॥ 75 भाग्योदयेन बहुजन्मसमार्जितेन सत्सङ्गमं च लभते पुरुषो यदा वै । अज्ञानहेतुकृतमोहमदान्धकारनाशं विधाय हि तदोदयते विवेकः ॥ 76 ॥ इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये कुमारनारदसंवादो नाम द्वितीयोऽध्यायः ॥ 2 ॥