सच्चिदानन्दरूपाय विश्वोत्पत्यादिहेतवे । तापत्रयविनाशाय श्रीकृष्णाय वयं नुमः ॥ 1 यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव । पुत्रेति तन्मयतया तरवोऽभिनेदुस्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ 2 नैमिषे सूतमासीनमभिवाद्य महामतिम् । कथामृतरसास्वादकुशलः शौनकोऽब्रवीत् ॥ 3 शौनक उवाच अज्ञानध्वान्तविध्वंसकोटिसूर्यसमप्रभ । सूताख्याहि कथासारं मम कर्णरसायनम् ॥ 4 भक्तिज्ञानविरागाप्तो विवेको वर्धते महान् । मायामोहनिरासश्च वैष्णवैः क्रियते कथम् ॥ 5 इह घोरे कलौ प्रायो जीवश्चासुरतां गतः । क्लेशाक्रान्तस्य तस्यैव शोधने किं परायणम् ॥ 6 श्रेयसां यद्भवेच्छ्रेयः पावनानां च पावनम् । कृष्णप्राप्तिकरं शश्वत्साधनं तद्वदाधुना ॥ 7 चिन्तामणिर्लोकसुखं सुरद्रुः स्वर्गसम्पदम् । प्रयच्छति गुरुः प्रीतो वैकुण्ठं योगिदुर्लभम् ॥ 8 सूत उवाच प्रीतिः शौनक चित्ते ते ह्यतो वच्मि विचार्य च । सर्वसिद्धान्तनिष्पन्नं संसारभयनाशनम् ॥ 9 भक्त्योघवर्धनं यच्च कृष्णसन्तोषहेतुकम् । तदहं तेऽभिधास्यामि सावधानतया शृणु ॥ 10 कालव्यालमुखग्रासत्रासनिर्णाशहेतवे । श्रीमद्भागवतं शास्त्रं कलौ कीरेण भाषितम् ॥ 11 एतस्मादपरं किञ्चिन्मनःशुद्ध्यै न विद्यते । जन्मान्तरे भवेत्पुण्यं तदा भागवतं लभेत् ॥ 12 परीक्षिते कथां वक्तुं सभायां संस्थिते शुके । सुधाकुम्भं गृहीत्वैव देवास्तत्र समागमन् ॥ 13 शुकं नत्वावदन् सर्वे स्वकार्यकुशलाः सुराः । कथासुधां प्रयच्छस्व गृहीत्वैव सुधामिमाम् ॥ 14 एवं विनिमये जाते सुधा राज्ञा प्रपीयताम् । प्रपास्यामो वयं सर्वे श्रीमद्भागवतामृतम् ॥ 15 क्व सुधा क्व कथा लोके क्व काचः क्व मणिर्महान् । ब्रह्मरातो विचार्यैवं तदा देवान् जहास ह ॥ 16 अभक्तांस्तांश्च विज्ञाय न ददौ स कथामृतम् । श्रीमद्भागवती वार्ता सुराणामपि दुर्लभा ॥ 17 राज्ञो मोक्षं तथा वीक्ष्य पुरा धातापि विस्मितः । सत्यलोके तुलां बद्ध्वातोलयत्साधनान्यजः ॥ 18 लघून्यन्यानि जातानि गौरवेण इदं महत् । तदा ऋषिगणाः सर्वे विस्मयं परमं ययुः ॥ 19 मेनिरे भगवद्रूपं शास्त्रं भागवतं कलौ । पठनाच्छ्रवणात्सद्यो वैकुण्ठफलदायकम् ॥ 20 सप्ताहेन श्रुतं चैतत्सर्वथा मुक्तिदायकम् । सनकाद्यैः पुरा प्रोक्तं नारदाय दयापरैः ॥ 21 यद्यपि ब्रह्मसंबन्धाच्छ्रुतमेतत्सुरर्षिणा । सप्ताहश्रवणविधिः कुमारैस्तस्य भाषितः ॥ 22 शौनक उवाच लोकविग्रहमुक्तस्य नारदस्यास्थिरस्य च । विधिश्रवे कुतः प्रीतिः संयोगः कुत्र तैः सह ॥ 23 सूत उवाच अत्र ते कीर्तयिष्यामि भक्तियुक्तं कथानकम् । शुकेन मम यत्प्रोक्तं रहः शिष्यं विचार्य च ॥ 24 एकदा हि विशालायां चत्वार ऋषयोऽमलाः । सत्संगार्थं समायाता ददृशुस्तत्र नारदम् ॥ 25 कुमारा ऊचुः कथं ब्रह्मन् दीनमुखः कुतश्चिन्तातुरो भवान् । त्वरितं गम्यते कुत्र कुतश्चागमनं तव ॥ 26 इदानीं शून्यचित्तोऽसि गतवित्तो यथा जनः । तवेदं मुक्तसंगस्य नोचितं वद कारणम् ॥ 27 नारद उवाच अहं तु पृथिवीं यातो ज्ञात्वा सर्वोत्तमामिति । पुष्करं च प्रयागं च काशीं गोदावरीं तथा ॥ 28 हरिक्षेत्रं कुरुक्षेत्रं श्रीरंगं सेतुबन्धनम् । एवमादिषु तीर्थेषु भ्रममाण इतस्ततः ॥ 29 नापश्यं कुत्रचिच्छर्म मनःसन्तोषकारकम् । कलिनाधर्ममित्रेण धरेयं बाधिताधुना ॥ 30 सत्यं नास्ति तपः शौचं दया दानं न विद्यते । उदरम्भरिणो जीवा वराकाः कूटभाषिणः ॥ 31 मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः । पाखण्डनिरताः सन्तो विरक्ताः सपरिग्रहाः ॥ 32 तरुणीप्रभुता गेहे श्यालको बुद्धिदायकः । कन्याविक्रयिणो लोभाद्दम्पतीनां च कल्कनम् ॥ 33 आश्रमा यवनै रुद्धास्तीर्थानि सरितस्तथा । देवतायतनान्यत्र दुष्टैर्नष्टानि भूरिशः ॥ 34 न योगी नैव सिद्धो वा न ज्ञानी सत्क्रियो नरः । कलिदावानलेनाद्य साधनं भस्मतां गतम् ॥ 35 अट्टशूला जनपदाः शिवशूला द्विजातयः । कामिन्यः केशशूलिन्यः सम्भवन्ति कलाविह ॥ 36 एवं पश्यन् कलेर्दोषान् पर्यटन्नवनीमहम् । यामुनं तटमापन्नो यत्र लीला हरेरभूत् ॥ 37 तत्राश्चर्यं मया दृष्टं श्रूयतां तन्मुनीश्वराः । एका तु तरुणी तत्र निषण्णा खिन्नमानसा ॥ 38 वृद्धौ द्वौ पतितौ पार्श्वे निःश्वसन्तावचेतनौ । शुश्रूषन्ती प्रबोधन्ती रुदती च तयोः पुरः ॥ 39 दश दिक्षु निरीक्षन्ती रक्षितारं निजं वपुः । वीज्यमाना शतस्त्रीभिर्बोध्यमाना मुहुर्मुहुः ॥ 40 दृष्ट्वा दूराद्गतः सोऽहं कौतुकेन तदन्तिकम् । मां दृष्ट्वा चोत्थिता बाला विह्वला चाब्रवीद्वचः ॥ 41 बालोवाच भो भोः साधो क्षणं तिष्ठ मच्चिन्तामपि नाशय । दर्शनं तव लोकस्य सर्वथाघहरं परम् ॥ 42 बहुथा तव वाक्येन दुःखशान्तिर्भविष्यति । यदा भाग्यं भवेद्भूरि भवतो दर्शनं तदा ॥ 43 नारद उवाच कासि त्वं काविमौ चेमा नार्यः काः पद्मलोचनाः । वद देवि सविस्तारं स्वस्य दुःखस्य कारणम् ॥ 44 बालोवाच अहं भक्तिरिति ख्याता इमौ मे तनयौ मतौ । ज्ञानवैराग्यनामानौ कालयोगेन जर्जरौ ॥ 45 गङ्गाद्याः सरितश्चेमा मत्सेवार्थं समागताः । तथापि न च मे श्रेयः सेवितायाः सुरैरपि ॥ 46 इदानीं शृणु मद्वार्तां सचित्तस्त्वं तपोधन । वार्ता मे वितताप्यस्ति तां श्रुत्वा सुखमावह ॥ 47 उत्पन्ना द्रविडे साहं वृद्धिं कर्णाटके गता । क्वचित्क्वचिन्महाराष्ट्रे गुर्जरे जीर्णतां गता ॥ 48 तत्र घोरकलेर्योगात्पाखण्डैः खण्डिताङ्गका । दुर्बलाहं चिरं याता पुत्राभ्यां सह मन्दताम् ॥ 49 वृन्दावनं पुनः प्राप्य नवीनेव सुरूपिणी । जाताहं युवती सम्यक्प्रेष्ठरूपा तु साम्प्रतम् ॥ 50 इमौ तु शयितावत्र सुतौ मे क्लिश्यतः श्रमात् । इदं स्थानं परित्यज्य विदेशं गम्यते मया ॥ 51 जरठत्वं समायातौ तेन दुःखेन दुःखिता । साहं तु तरुणी कस्मात्सुतौ वृद्धाविमौ कुतः ॥ 52 त्रयाणां सहचारित्वाद्वैपरीत्यं कुतः स्थितम् । घटते जरठा माता तरुणौ तनयाविति ॥ 53 अतः शोचामि चात्मानं विस्मयाविष्टमानसा । वद योगनिधे धीमन् कारणं चात्र किं भवेत् ॥ 54 नारद उवाच ज्ञानेनात्मनि पश्यामि सर्वमेतत्तवानघे । न विषादस्त्वया कार्यो हरिः शं ते करिष्यति ॥ 55 सूत उवाच क्षणमात्रेण तज्ज्ञात्वा वाक्यमूचे मुनीश्वरः ॥ 56 नारद उवाच शृणुष्वावहिता बाले युगोऽयं दारुणः कलिः । तेन लुप्तः सदाचारो योगमार्गस्तपांसि च ॥ 57 जना अघासुरायन्ते शाठ्यदुष्कर्मकारिणः । इह सन्तो विषीदन्ति प्रहृष्यन्ति ह्यसाधवः । धत्ते धैर्यं तु यो धीमान् स धीरः पण्डितोऽथवा ॥ 58 अस्पृश्यानवलोक्येयं शेषभारकरी धरा । वर्षे वर्षे क्रमाज्जाता मङ्गलं नापि दृश्यते ॥ 59 न त्वामपि सुतैः साकं कोऽपि पश्यति साम्प्रतम् । उपेक्षितानुरागान्धैर्जर्जरत्वेन संस्थिता ॥ 60 वृन्दावनस्य संयोगात्पुनस्त्वं तरुणी नवा । धन्यं वृन्दावनं तेन भक्तिर्नृत्यति यत्र च ॥ 61 अत्रेमौ ग्राहकाभावान्न जरामपि मुञ्चतः । किञ्चिदात्मसुखेनेह प्रसुप्तिर्मन्यतेऽनयोः ॥ 62 भक्तिरुवाच कथं परीक्षिता राज्ञा स्थापितो ह्यशुचिः कलिः । प्रवृत्ते तु कलौ सर्वसारः कुत्र गतो महान् ॥ 63 करुणापरेण हरिणाप्यधर्मः कथमीक्ष्यते । इमं मे संशयं छिन्धि त्वद्वाचा सुखितास्म्यहम् ॥ 64 नारद उवाच यदि पृष्टस्त्वया बाले प्रेमतः श्रवणं कुरु । सर्वं वक्ष्यामि ते भद्रे कश्मलं ते गमिष्यति ॥ 65 यदा मुकुन्दो भगवान् क्ष्मां त्यक्त्वा स्वपदं गतः । तद्दिनात्कलिरायातः सर्वसाधनबाधकः ॥ 66 दृष्टो दिग्विजये राज्ञा दीनवच्छरणं गतः । न मया मारणीयोऽयं सारङ्ग इव सारभुक् ॥ 67 यत्फलं नास्ति तपसा न योगेन समाधिना । तत्फलं लभते सम्यक्कलौ केशवकीर्तनात् ॥ 68 एकाकारं कलिं दृष्ट्वा सारवत्सारनीरसम् । विष्णुरातः स्थापितवान् कलिजानां सुखाय च ॥ 69 कुकर्माचरणात्सारः सर्वतो निर्गतोऽधुना । पदार्थाः संस्थिता भूमौ बीजहीनास्तुषा यथा ॥ 70 विप्रैर्भागवती वार्ता गेहे गेहे जने जने । कारिता कणलोभेन कथासारस्ततो गतः ॥ 71 अत्युग्रभूरिकर्माणो नास्तिका रौरवा जनाः । तेऽपि तिष्ठन्ति तीर्थेषु तीर्थसारस्ततो गतः ॥ 72 कामक्रोधमहालोभतृष्णाव्याकुलचेतसः । तेऽपि तिष्ठन्ति तपसि तपःसारस्ततो गतः ॥ 73 मनसश्चाजयाल्लोभाद्दंभात्पाखण्डसंश्रयात् । शास्त्रानभ्यसनाच्चैव ध्यानयोगफलं गतम् ॥ 74 पण्डितास्तु कलत्रेण रमन्ते महिषा इव । पुत्रस्योत्पादने दक्षा अदक्षा मुक्तिसाधने ॥ 75 न हि वैष्णवता कुत्र सम्प्रदायपुरःसरा । एवं प्रलयतां प्राप्तो वस्तुसारः स्थले स्थले ॥ 76 अयं तु युगधर्मो हि वर्तते कस्य दूषणम् । अतस्तु पुण्डरीकाक्षः सहते निकटे स्थितः ॥ 77 सूत उवाच इति तद्वचनं श्रुत्वा विस्मयं परमं गता । भक्तिरूचे वचो भूयः श्रूयतां तच्च शौनक ॥ 78 भक्तिरुवाच सुरर्षे त्वं हि धन्योऽसि मद्भाग्येन समागतः । साधूनां दर्शनं लोके सर्वसिद्धिकरं परम् ॥ 79 जयति जगति मायां यस्य कायाधवस्ते वचनरचनमेकं केवलं चाकलय्य । ध्रुवपदमपि यातो यत्कृपातो ध्रुवोऽयं सकलकुशलपात्रं ब्रह्मपुत्रं नतास्मि ॥ 80 ॥ इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये भक्तिनारदसमागमो नाम प्रथमोऽध्यायः ॥ 1॥