header_image
Home
Tamil

नवमः स्कन्धः ~:0:~ षोडशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: नवमः स्कन्धः
अथ षोडशोऽध्यायः
जमदग्निवधः परशुरामद्वारा क्षत्रियाणां संहारः, विश्वामित्रवंशवर्णनं च
श्रीशुक उवाच। पित्रोपशिक्षितो रामस्तथेति कुरुनन्दन। संवत्सरं तीर्थयात्रां चरित्वाऽऽश्रममाव्रजत्॥ 1 कदाचिद् रेणुका याता गङ्गायां पद्ममालिनम्। गन्धर्वराजं क्रीडन्तमप्सरोभिरपश्यत॥ 2 विलोकयन्ती क्रीडन्तमुदकार्थं नदीं गता। होमवेलां न सस्मार किञ्चिच्चित्ररथस्पृहा॥ 3 कालात्ययं तं विलोक्य मुनेः शापविशङ्किता। आगत्य कलशं तस्थौ पुरोधाय कृताञ्जलिः॥ 4 व्यभिचारं मुनिर्ज्ञात्वा पत्‍न्याः प्रकुपितोऽब्रवीत्। घ्नतैनां पुत्रकाः पापामित्युक्तास्ते न चक्रिरे॥ 5 रामः सञ्चोदितः पित्रा भ्रातॄन् मात्रा सहावधीत्। प्रभावज्ञो मुनेः सम्यक् समाधेस्तपसश्च सः॥ 6 वरेणच्छन्दयामास प्रीतः सत्यवतीसुतः। वव्रे हतानां रामोऽपि जीवितं चास्मृतिं वधे॥ 7 उत्तस्थुस्ते कुशलिनो निद्रापाय इवाञ्जसा। पितुर्विद्वांस्तपोवीर्यं रामश्चक्रे सुहृद्वधम्॥ 8 येऽर्जुनस्य सुता राजन् स्मरन्तः स्वपितुर्वधम्। रामवीर्यपराभूता लेभिरे शर्म न क्वचित्॥ 9 एकदाऽऽश्रमतो रामे सभ्रातरि वनं गते। वैरं सिसाधयिषवो लब्धच्छिद्रा उपागमन्॥ 10 दृष्ट्वाग्न्यगार आसीनमावेशितधियं मुनिम्। भगवत्युत्तमश्लोके जघ्नुस्ते पापनिश्चयाः॥ 11 याच्यमानाः कृपणया राममात्रातिदारुणाः। प्रसह्य शिर उत्कृत्य निन्युस्ते क्षत्रबन्धवः॥ 12 रेणुका दुःखशोकार्ता निघ्नन्त्यात्मानमात्मना। राम रामेहि तातेति विचुक्रोशोच्चकैः सती॥ 13 तदुपश्रुत्य दूरस्था हा रामेत्यार्तवत्स्वनम्। त्वरयाऽऽश्रममासाद्य ददृशे पितरं हतम्॥ 14 तद् दुःखरोषामर्षार्तिशोकवेगविमोहितः। हा तात साधो धर्मिष्ठ त्यक्त्वास्मान् स्वर्गतो भवान्॥ 15 विलप्यैवं पितुर्देहं निधाय भ्रातृषु स्वयम्। प्रगृह्य परशुं रामः क्षत्रान्ताय मनो दधे॥ 16 गत्वा माहिष्मतीं रामो ब्रह्मघ्नविहतश्रियम्। तेषां स शीर्षभी राजन् मध्ये चक्रे महागिरिम्॥ 17 तद्रक्तेन नदीं घोरामब्रह्मण्यभयावहाम्। हेतुं कृत्वा पितृवधं क्षत्रेऽमङ्गलकारिणि॥ 18 त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः। समन्तपञ्चके चक्रे शोणितोदान् ह्रदान् नृप॥ 19 पितुः कायेन सन्धाय शिर आदाय बर्हिषि। सर्वदेवमयं देवमात्मानमयजन्मखैः॥ 20 ददौ प्राचीं दिशं होत्रे ब्रह्मणे दक्षिणां दिशम्। अध्वर्यवे प्रतीचीं वै उद्‍गात्रे उत्तरां दिशम्॥ 21 अन्येभ्योऽवान्तरदिशः कश्यपाय च मध्यतः। आर्यावर्तमुपद्रष्ट्रे सदस्येभ्यस्ततः परम्॥ 22 ततश्चावभृथस्नानविधूताशेषकिल्बिषः। सरस्वत्यां ब्रह्मनद्यां रेजे व्यभ्र इवांशुमान्॥ 23 स्वदेहं जमदग्निस्तु लब्ध्वा संज्ञानलक्षणम्। ऋषीणां मण्डले सोऽभूत् सप्तमो रामपूजितः॥ 24 जामदग्न्योऽपि भगवान् रामः कमललोचनः। आगामिन्यन्तरे राजन् वर्तयिष्यति वै बृहत्॥ 25 आस्तेऽद्यापि महेन्द्राद्रौ न्यस्तदण्डः प्रशान्तधीः। उपगीयमानचरितः सिद्धगन्धर्वचारणैः॥ 26 एवं भृगुषु विश्वात्मा भगवान् हरिरीश्वरः। अवतीर्य परं भारं भुवोऽहन् बहुशो नृपान्॥ 27 गाधेरभून्महातेजाः समिद्ध इव पावकः। तपसा क्षात्रमुत्सृज्य यो लेभे ब्रह्मवर्चसम्॥ 28 विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप। मध्यमस्तु मधुच्छन्दा मधुच्छन्दस एव ते॥ 29 पुत्रं कृत्वा शुनःशेपं देवरातं च भार्गवम्। आजीगर्तं सुतानाह ज्येष्ठ एष प्रकल्प्यताम्॥ 30 यो वै हरिश्चन्द्रमखे विक्रीतः पुरुषः पशुः। स्तुत्वा देवान् प्रजेशादीन् मुमुचे पाशबन्धनात्॥ 31 यो रातो देवयजने देवैर्गाधिषु तापसः। देवरात इति ख्यातः शुनःशेपः स भार्गवः॥ 32 ये मधुच्छन्दसो ज्येष्ठाः कुशलं मेनिरे न तत्। अशपत् तान्मुनिः क्रुद्धो म्लेच्छा भवत दुर्जनाः॥ 33 स होवाच मधुच्छन्दाः सार्धं पञ्चाशता ततः। यन्नो भवान् संजानीते तस्मिंस्तिष्ठामहे वयम्॥ 34 ज्येष्ठं मन्त्रदृशं चक्रुस्त्वामन्वञ्चो वयं स्म हि। विश्वामित्रः सुतानाह वीरवन्तो भविष्यथ। ये मानं मेऽनुगृह्णन्तो वीरवन्तमकर्त माम्॥ 35 एष वः कुशिका वीरो देवरातस्तमन्वित। अन्ये चाष्टकहारीतजयक्रतुमदादयः॥ 36 एवं कौशिकगोत्रं तु विश्वामित्रैः पृथग्विधम्। प्रवरान्तरमापन्नं तद्धि चैवं प्रकल्पितम्॥ 37 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे षोडशोऽध्यायः ॥ 16 ॥
Tamil