header_image
Home
Tamil

नवमः स्कन्धः ~:0:~ सप्तदशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: नवमः स्कन्धः
अथ सप्तदशोऽध्यायः
क्षत्रवृद्धरजिरम्भानेनसां वंशवर्णनम्
श्रीशुक उवाच। यः पुरूरवसः पुत्र आयुस्तस्याभवन् सुताः। नहुषः क्षत्रवृद्धश्च रजी रम्भश्च वीर्यवान्॥ 1 अनेना इति राजेन्द्र शृणु क्षत्रवृधोऽन्वयम्। क्षत्रवृद्धसुतस्यासन् सुहोत्रस्यात्मजास्त्रयः॥ 2 काश्यः कुशो गृत्समद इति गृत्समदादभूत्। शुनकः शौनको यस्य बह्वृचप्रवरो मुनिः॥ 3 काश्यस्य काशिस्तत्पुत्रो राष्ट्रो दीर्घतमःपिता। धन्वन्तरिर्दैर्घतम आयुर्वेदप्रवर्तकः॥ 4 यज्ञभुग् वासुदेवांशः स्मृतमात्रार्तिनाशनः। तत्पुत्रः केतुमानस्य जज्ञे भीमरथस्ततः॥ 5 दिवोदासो द्युमांस्तस्मात् प्रतर्दन इति स्मृतः। स एव शत्रुजिद् वत्स ऋतध्वज इतीरितः। तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस्ततः॥ 6 षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च। नालर्कादपरो राजन् मेदिनीं बुभुजे युवा॥ 7 अलर्कात् सन्ततिस्तस्मात् सुनीथोऽथ सुकेतनः। धर्मकेतुः सुतस्तस्मात् सत्यकेतुरजायत॥ 8 धृष्टकेतुः सुतस्तस्मात् सुकुमारः क्षितीश्वरः। वीतिहोत्रस्य भर्गोऽतो भार्गभूमिरभून्नृप॥ 9 इतीमे काशयो भूपाः क्षत्रवृद्धान्वयायिनः। रम्भस्य रभसः पुत्रो गम्भीरश्चाक्रियस्ततः॥ 10 तस्य क्षेत्रे ब्रह्म जज्ञे श्रृणु वंशमनेनसः। शुद्धस्ततः शुचिस्तस्मात् त्रिककुद् धर्मसारथिः॥ 11 ततः शान्तरयो जज्ञे कृतकृत्यः स आत्मवान्। रजेः पञ्चशतान्यासन् पुत्राणाममितौजसाम्॥ 12 देवैरभ्यर्थितो दैत्यान् हत्वेन्द्रायाददाद् दिवम्। इन्द्रस्तस्मै पुनर्दत्त्वा गृहीत्वा चरणौ रजेः॥ 13 आत्मानमर्पयामास प्रह्रादाद्यरिशङ्कितः। पितर्युपरते पुत्रा याचमानाय नो ददुः॥ 14 त्रिविष्टपं महेन्द्राय यज्ञभागान् समाददुः। गुरुणा हूयमानेऽग्नौ बलभित् तनयान् रजेः॥ 15 अवधीद् भ्रंशितान् मार्गान्न कश्चिदवशेषितः। कुशात् प्रतिः क्षात्रवृद्धात् सञ्जयस्तत्सुतो जयः॥ 16 ततः कृतः कृतस्यापि जज्ञे हर्यवनो नृपः। सहदेवस्ततो हीनो जयसेनस्तु तत्सुतः॥ 17 सङ्‌कृतिस्तस्य च जयः क्षत्रधर्मा महारथः। क्षत्रवृद्धान्वया भूपाः श्रृणु वंशं च नाहुषात्॥ 18 ॥ इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे चन्द्रवंशानुवर्णने सप्तदशोऽध्यायः ॥ 17
Tamil