header_image
Home
Tamil

नवमः स्कन्धः ~:0:~ पञ्चदशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: नवमः स्कन्धः
अथ पञ्चदशोऽध्यायः
ऋचीकजमदग्निपरशुरामचरितं सहस्रार्जुनवधश्च
श्रीशुक उवाच। ऐलस्य चोर्वशीगर्भात् षडासन्नात्मजा नृप। आयुः श्रुतायुः सत्यायू रयोऽथ विजयो जयः॥ 1 श्रुतायोर्वसुमान् पुत्रः सत्यायोश्च श्रुतञ्जयः। रयस्य सुत एकश्च जयस्य तनयोऽमितः॥ 2 भीमस्तु विजयस्याथ काञ्चनो होत्रकस्ततः। तस्य जह्नुः सुतो गङ्गां गण्डूषीकृत्य योऽपिबत्। जह्नोस्तु पूरुस्तत्पुत्रो बलाकश्चात्मजोऽजकः॥ 3 ततः कुशः कुशस्यापि कुशाम्बुस्तनयो वसुः। कुशनाभश्च चत्वारो गाधिरासीत् कुशाम्बुजः॥ 4 तस्य सत्यवतीं कन्यामृचीकोऽयाचत द्विजः। वरं विसदृशं मत्वा गाधिर्भार्गवमब्रवीत्॥ 5 एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम्। सहस्रं दीयतां शुल्कं कन्यायाः कुशिका वयम्॥ 6 इत्युक्तस्तन्मतं ज्ञात्वा गतः स वरुणान्तिकम्। आनीय दत्त्वा तानश्वानुपयेमे वराननाम्॥ 7 स ऋषिः प्रार्थितः पत्‍न्या श्वश्र्वा चापत्यकाम्यया। श्रपयित्वोभयैर्मन्त्रैश्चरुं स्नातुं गतो मुनिः॥ 8 तावत् सत्यवती मात्रा स्वचरुं याचिता सती। श्रेष्ठं मत्वा तयायच्छन्मात्रे मातुरदत् स्वयम्॥ 9 तद् विज्ञाय मुनिः प्राह पत्‍नीं कष्टमकारषीः। घोरो दण्डधरः पुत्रो भ्राता ते ब्रह्मवित्तमः॥ 10 प्रसादितः सत्यवत्या मैवं भूदिति भार्गवः। अथ तर्हि भवेत् पौत्रो जमदग्निस्ततोऽभवत्॥ 11 सा चाभूत् सुमहपुण्या कौशिकी लोकपावनी। रेणोः सुतां रेणुकां वै जमदग्निरुवाह याम्॥ 12 तस्यां वै भार्गवऋषेः सुता वसुमदादयः। यवीयाञ्जज्ञ एतेषां राम इत्यभिविश्रुतः॥ 13 यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम्। त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम्॥ 14 दुष्टं क्षत्रं भुवो भारमब्रह्मण्यमनीनशत्। रजस्तमोवृतमहन् फल्गुन्यपि कृतेंऽहसि॥ 15 श्रीराजोवाच। किं तदंहो भगवतो राजन्यैरजितात्मभिः। कृतं येन कुलं नष्टं क्षत्रियाणामभीक्ष्णशः॥ 16 श्रीशुक उवाच। हैहयानामधिपतिरर्जुनः क्षत्रियर्षभः। दत्तं नारायणस्यांशमाराध्य परिकर्मभिः॥ 17 बाहून् दशशतं लेभे दुर्धर्षत्वमरातिषु। अव्याहतेन्द्रियौजः श्रीतेजोवीर्ययशोबलम्॥ 18 योगेश्वरत्वमैश्वर्यं गुणा यत्राणिमादयः। चचाराव्याहतगतिर्लोकेषु पवनो यथा॥ 19 स्त्रीरत्‍नैरावृतः क्रीडन् रेवाम्भसि मदोत्कटः। वैजयन्तीं स्रजं बिभ्रद् रुरोध सरितं भुजैः॥ 20 विप्लावितं स्वशिबिरं प्रतिस्रोतःसरिज्जलैः। नामृष्यत् तस्य तद् वीर्यं वीरमानी दशाननः॥ 21 गृहीतो लीलया स्त्रीणां समक्षं कृतकिल्बिषः। माहिष्मत्यां सन्निरुद्धो मुक्तो येन कपिर्यथा॥ 22 स एकदा तु मृगयां विचरन् विपिने वने। यदृच्छयाऽऽश्रमपदं जमदग्नेरुपाविशत्॥ 23 तस्मै स नरदेवाय मुनिरर्हणमाहरत्। ससैन्यामात्यवाहाय हविष्मत्या तपोधनः॥ 24 स वीरस्तत्र तद् दृष्ट्वा आत्मैश्वर्यातिशायनम्। तन्नाद्रियताग्निहोत्र्यां साभिलाषः स हैहयः॥ 25 हविर्धानीमृषेर्दर्पान्नरान् हर्तुमचोदयत्। ते च माहिष्मतीं निन्युः सवत्सां क्रन्दतीं बलात्॥ 26 अथ राजनि निर्याते राम आश्रम आगतः। श्रुत्वा तत् तस्य दौरात्म्यं चुक्रोधाहिरिवाहतः॥ 27 घोरमादाय परशुं सतूणं चर्म कार्मुकम्। अन्वधावत दुर्धर्षो मृगेन्द्र इव यूथपम्॥ 28 तमापतन्तं भृगुवर्यमोजसा धनुर्धरं बाणपरश्वधायुधम्। ऐणेयचर्माम्बरमर्कधामभि- र्युतं जटाभिर्ददृशे पुरीं विशन्॥ 29 अचोदयद्धस्तिरथाश्वपत्तिभि- र्गदासिबाणर्ष्टिशतघ्निशक्तिभिः। अक्षौहिणीः सप्तदशातिभीषणा- स्ता राम एको भगवानसूदयत्॥ 30 यतो यतोऽसौ प्रहरत्परश्वधो मनोऽनिलौजाः परचक्रसूदनः। ततस्ततश्छिन्नभुजोरुकन्धरा निपेतुरुर्व्यां हतसूतवाहनाः॥ 31 दृष्ट्वा स्वसैन्यं रुधिरौघकर्दमे रणाजिरे रामकुठारसायकैः। विवृक्णचर्मध्वजचापविग्रहं निपातितं हैहय आपतद् रुषा॥ 32 अथार्जुनः पञ्चशतेषु बाहुभि- र्धनुःषु बाणान् युगपत् स सन्दधे। रामाय रामोऽस्त्रभृतां समग्रणी- स्तान्येकधन्वेषुभिराच्छिनत् समम्॥ 33 पुनः स्वहस्तैरचलान् मृधेऽङ्‌घ्रिपा- नुत्क्षिप्य वेगादभिधावतो युधि। भुजान् कुठारेण कठोरनेमिना चिच्छेद रामः प्रसभं त्वहेरिव॥ 34 कृत्तबाहोः शिरस्तस्य गिरेः श्रृङ्गमिवाहरत्। हते पितरि तत्पुत्रा अयुतं दुद्रुवुर्भयात्॥ 35 अग्निहोत्रीमुपावर्त्य सवत्सां परवीरहा। समुपेत्याश्रमं पित्रे परिक्लिष्टां समर्पयत्॥ 36 स्वकर्म तत्कृतं रामः पित्रे भ्रातृभ्य एव च। वर्णयामास तच्छ्रुत्वा जमदग्निरभाषत॥ 37 राम राम महाबाहो भवान् पापमकारषीत्। अवधीन्नरदेवं यत् सर्वदेवमयं वृथा॥ 38 वयं हि ब्राह्मणास्तात क्षमयार्हणतां गताः। यया लोकगुरुर्देवः पारमेष्ठ्यमगात् पदम्॥ 39 क्षमया रोचते लक्ष्मीर्ब्राह्मी सौरी यथा प्रभा। क्षमिणामाशु भगवांस्तुष्यते हरिरीश्वरः॥ 40 राज्ञो मूर्धाभिषिक्तस्य वधो ब्रह्मवधाद् गुरुः। तीर्थसंसेवया चांहो जह्यङ्‌गाच्युतचेतनः॥ 41 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे पञ्चदशोऽध्यायः ॥ 15 ॥
Tamil